Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.29.1

पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् ।
त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥ ५.२९.१ ॥

啊,耆多毗陀阿耆尼,把它套上车辕带到前面;知晓此处所行之事。你是药方的医者,也是制作者;愿我们借你获得牛、马和人。

5.29.2

तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः ।
यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥ ५.२९.२ ॥

啊,耆多毗陀阿耆尼,如此行之,与诸神同心。谁伤害并吞噬了我们,愿他从此周围逃走。

5.29.3

यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः ।
विश्वेभिर्देवैर्सह संविदानः ॥ ५.२९.३ ॥

如同他从此周围逃走,就如此行之吧,啊,耆多毗陀阿耆尼,与诸神同心。

5.29.4

अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि ।
पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि ॥ ५.२९.४ ॥

刺穿他的眼睛,刺穿他的心,压住他的舌头,打碎他的牙齿。吞噬此人的那个夜叉,啊,最年轻的阿耆尼,把他粉碎。

5.29.5

यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः ।
तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥ ५.२९.५ ॥

凡从他身上夺走的、分割带走的、远远搬走的,夜叉从他自身吃掉的——啊,阿耆尼,你知晓之后,把它重新带回来。我们在身体中再次唤起血肉与气息。

5.29.6

आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥ ५.२९.६ ॥

在生的、熟的、杂色的、半熟的食物中,哪个毕舍遮以食物欺骗了我,愿它与毕舍遮们分离,并连同其子孙受到惩罚;愿此人无病。

5.29.7

क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥ ५.२९.७ ॥

在乳中、搅拌的饮品中、拉起煮成的食物中、谷物中,哪个以此欺骗了我,愿它与毕舍遮们分离,并连同其子孙受到惩罚;愿此人无病。

5.29.8

अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥ ५.२९.८ ॥

在饮水之时,哪个在我躺卧于食肉巫师的床上时欺骗了我,愿它与毕舍遮们分离,并连同其子孙受到惩罚;愿此人无病。

5.29.9

दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥ ५.२९.९ ॥

无论白天还是夜晚,哪个在我躺卧于食肉巫师的床上时欺骗了我,愿它与毕舍遮们分离,并连同其子孙受到惩罚;愿此人无病。

5.29.10

क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः ।
तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥ ५.२९.१० ॥

啊,阿耆尼,啊,遍知者,击杀那食肉、饮血、毁灭心智的毕舍遮;愿强健的因陀罗以金刚杵击杀他,愿勇猛的苏摩斩断他的头颅。

5.29.11

सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥ ५.२९.११ ॥

啊,阿耆尼,你自古便碾碎施法的罗刹;愿诸魔在战斗中不能胜你。从后焚烧共燃者;愿食肉者逃不脱你的神圣之器。

5.29.12

समाहर जातवेदो यद्धृतं यत्पराभृतम् ।
गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥ ५.२९.१२ ॥

啊,嘉塔维达,请聚集被夺去和被带走的部分;愿此人的肢体生长,愿他如光线般重新充盈。

5.29.13

सोमस्येव जातवेदो अंशुरा प्यायतामयम् ।
अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥ ५.२९.१३ ॥

啊,嘉塔维达,如同苏摩的光线充盈,愿此人也充盈。啊,阿耆尼,使他丰盛、纯净、免于消耗之病;愿他存活。

5.29.14

एतास्ते अग्ने समिधः पिशाचजम्भनीः ।
तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥ ५.२९.१४ ॥

啊,阿耆尼,这些是你碾碎毕舍遮的柴薪;请接受它们。啊,嘉塔维达,请以之作为回报而接受。

5.29.15

तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा ।
जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥ ५.२९.१५ ॥

啊,阿耆尼,啊,塔尔什塔吉,请以火焰接受这些柴薪。欲夺取此人血肉的食肉者,愿他舍弃其食肉之形。