Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.3.1

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥ ५.३.१ ॥

啊,阿耆尼,愿我的光辉在召唤中长存。我们点燃你,滋养己身。愿四方向我俯首;有你为主,我们战胜敌军。

5.3.2

अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।
अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत् ॥ ५.३.२ ॥

啊,阿耆尼,驱散敌人的愤怒,作我们的守护者,从四面护卫我们。愿那些怀恶之人向后向下退去;愿那些警觉者的心念使他们灭亡。

5.3.3

मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥ ५.३.३ ॥

愿在我的召唤中,诸神与因陀罗同在,摩录多、毗湿奴与阿耆尼亦在。愿中界为我成为广阔的世界;为此愿望,愿风为我而吹。

5.3.4

मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥ ५.३.४ ॥

愿他们为我祭祀;愿我所愿之志在心中为真。愿我不因任何罪过而倒卧于地;愿此间诸神四面护我。

5.3.5

मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः ।
दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥ ५.३.५ ॥

愿诸神在我身中赐予财富;愿我身中有祝福;愿我身中有诸神的召请。愿神圣的祭司们将此赐予我们;愿我们身体无伤,并有善子众多。

5.3.6

दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् ।
मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥ ५.३.६ ॥

神圣的六位广大女神啊,为我们开辟宽广;诸神啊,请在此欢喜。愿压倒性的光芒不至于我们,恶言不至于我们;愿曲折与可憎的、应被憎恨之物不至于我们。

5.3.7

तिस्रो देवीर्महि नः शर्म यच्छत प्रजायै नस्तन्वे यच्च पुष्टम् ।
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ ५.३.७ ॥

三位女神啊,赐予我们伟大的庇护,赐予我们子嗣与身体所需的滋养。愿我们不失子嗣,不失身体;国王苏摩啊,愿我们不被憎恨者所伤害。

5.3.8

उरुव्यचा नो महिषः शर्म यच्छत्वस्मिन् हवे पुरुहूतः पुरुक्षु ।
स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥ ५.३.८ ॥

愿视野广阔的大力者赐予我们庇护;愿这位被众多呼唤、富有食物者在此呼唤中赐予。愿他眷顾我们的子嗣;哈利马之主因陀罗啊,不要伤害我们,不要抛弃我们。

5.3.9

धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः ।
आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात् ॥ ५.३.९ ॥

愿创造者、安排者,世界之主、克敌的天神萨维特里,阿提耶诸神、鲁陀罗诸神,以及双阿湿周神,保护施祭者免于毁灭(尼哩蒂)。

5.3.10

ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् ।
आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥ ५.३.१० ॥

凡是我们的敌人,愿他们远离;我们与因陀罗、阿耆尼一起将他们压下。愿从上方触及的阿提耶诸神与鲁陀罗诸神,为我们成就一位猛烈的救主、至高之王。

5.3.11

अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।
इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥ ५.३.११ ॥

我们呼唤从远方而来的因陀罗,他赢得牛群,赢得财富,赢得马匹。愿他在我们的呼唤中听见我们的此祭;哦,黄褐色骏马之主,请做我们的朋友。