阿闼婆吠陀 · 颂诗(Sūkta) 5.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.30.1
आवतस्त आवतः परावतस्त आवतः ।
इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥ ५.३०.१ ॥
从你近处,从你远处,从你近处——就留在这里;现在不要去,不要跟随先祖而去;我将生命之气牢牢系在你身上。
5.30.2
यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥ ५.३०.२ ॥
若有人、你的亲族或敌对之人咒骂了你,我以言语为你宣说解脱与完全的救度。
5.30.3
यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥ ५.३०.३ ॥
若你不加思虑地背叛或咒骂了女子或男子,我以言语为你宣说解脱与完全的救度。
5.30.4
यतेनसो मातृकृताच्छेषे पितृकृताच्च यत् ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥ ५.३०.४ ॥
凡母亲所作、父亲所作之罪在你身中有所遗留者,我以言语为你宣说解脱与完全的救度。
5.30.5
यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः ।
प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥ ५.३०.५ ॥
若你的母亲、父亲、亲属或兄弟将你放弃,便回转过来服用药草;我使你长寿。
5.30.6
इहैधि पुरुष सर्वेण मनसा सह ।
दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥ ५.३०.६ ॥
人啊,以你全部的心意留在此处;不要跟随阎摩的两个使者;向着生者之城,来到这里。
5.30.7
अनुहूतः पुनरेहि विद्वान् उदयनं पथः ।
आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥ ५.३०.७ ॥
被召唤者啊,再回来吧,你知晓诸道路的升起。攀登与前进,是生者为生者之道。
5.30.8
मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा ।
निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥ ५.३०.८ ॥
不要害怕,你不会死。我使你得长寿。我从你的肢体中驱逐痨病与肢体热病。
5.30.9
अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः ।
यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥ ५.३०.९ ॥
肢体断裂、肢体热病,以及你心中的心病,即痨病,像鹰一样飞走了;被咒语制服后,它远远地离去。
5.30.10
ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः ।
तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥ ५.३०.१० ॥
两位仙人,觉与再觉,以及那不眠而警醒者,愿他们成为你生命之息的守护者;愿他们昼夜守望。
5.30.11
अयमग्निरुपसद्य इह सूर्य उदेतु ते ।
उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥ ५.३०.११ ॥
此火在此可被亲近;愿太阳为你升起。从死亡深邃漆黑的幽暗中,你起来,上来吧。
5.30.12
नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति ।
उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥ ५.३०.१२ ॥
敬礼阎摩,敬礼死神;敬礼祖先以及引导他们的人。那知晓上升之渡的阿耆尼,我将其置于前方,为此人无害的安康。
5.30.13
ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।
शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥ ५.३०.१३ ॥
愿气息回来,愿心识回来,愿视力回来,也愿力量回来。愿他的身体重新聚合,使其双脚稳稳站立。
5.30.14
प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।
वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत् ॥ ५.३०.१४ ॥
啊阿耆尼,以气息和视力将他联合;以身体和力量使他重新运作。你知道不死之道;愿他此刻不要离去,愿大地不成为他的居所。
5.30.15
मा ते प्राण उप दसन् मो अपानोऽपि धायि ते ।
सूर्यस्त्वाधिपतिर्मृत्योरुदायच्छतु रश्मिभिः ॥ ५.३०.१५ ॥
愿你的上行气不受伤害,下行气也不受伤害;愿阻碍不降临于你。太阳是你的主宰;愿他以光芒将你从死亡中高高举起。
5.30.16
इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा ।
त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥ ५.३०.१६ ॥
这舌头在内被缚,却仍在说话——被帕尼的束缚所缚。借由你,我宣告消除了消耗之病(yakṣma)与百种热病与痼疾。
5.30.17
अयं लोकः प्रियतमो देवानामपराजितः ।
यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे ।
स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥ ५.३०.१७ ॥
此世界对诸神最为珍爱,不可战胜。啊人,你被注定在此降生以迎向那死亡,我们便呼唤你;愿你不要在衰老之前死去。