阿闼婆吠陀 · 颂诗(Sūkta) 5.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.31.1
यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।
आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.१ ॥
他们在生器中为你所作的祸咒,在混合的谷物中所作的,在生肉中所作的——我将它再次反转,归还他们。
5.31.2
यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।
अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.२ ॥
他们在公鸡、山羊,或库里林尼中为你所作的祸咒,在母羊中所作的——我将它再次反转,归还他们。
5.31.3
यां ते चक्रुरेकशफे पशूनामुभयादति ।
गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.३ ॥
他们在独蹄牲畜中、超越两类之外、在驴中为你所作的祸咒——我将它再次反转,归还他们。
5.31.4
यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।
क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.४ ॥
他们在无根植物、或在载人藤蔓中为你所作的瓦尔加(纷争),在田地中为你所作的祸咒——我将它再次反转,归还他们。
5.31.5
यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।
शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.५ ॥
他们在家火与东火中为你所作的祸咒,以及心怀恶意者在厅堂中为你所作的——我将它再次反转,归还他们。
5.31.6
यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।
अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.६ ॥
他们在集会中、在赌场(阿迪德瓦那)中为你所作的祸咒,在骰子中所作的——我将它再次反转,归还他们。
5.31.7
यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।
दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.७ ॥
他们在军队中对你施作的咒术(kṛtyā),在箭矢与兵器中所施作的,在战鼓中所施作的咒术——我将它再次反还给你。
5.31.8
यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।
सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५.३१.८ ॥
他们为你放置在井中,或埋在火葬场中的咒术,在屋宅中所施作的咒术——我将它反还回去。
5.31.9
यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।
म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥ ५.३१.९ ॥
他们在人骨中、在火中、在saṃkasuka中对你施作的咒术,以及mrokam、nirdāham、kravyād咒术——我将它们反还回去。
5.31.10
अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।
अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥ ५.३१.१० ॥
她以错误的道路将其带走;我们从这里以正道将那咒术送出。愚昧的凡人因无知从愚昧之人那里取得了它。
5.31.11
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥ ५.३१.११ ॥
那施作咒术却无法完成的人,他的脚或手指受伤了。这位不幸者为我们行了善,为有福之人。
5.31.12
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।
इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥ ५.३१.१२ ॥
施作咒术者、valagin、mūlin、受诅咒者——愿因陀罗以巨大的打击击杀他;愿阿耆尼以箭矢刺穿他。