阿闼婆吠陀 · 颂诗(Sūkta) 5.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.4.1
यो गिरिष्वजायथा वीरुधां बलवत्तमः ।
कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥ ५.४.१ ॥
你生于山间,是诸草中最有力者,来吧,库湿他,驱疟之神,从此处除去热病。
5.4.2
सुपर्णसुवने गिरौ जातं हिमवतस्परि ।
धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥ ५.४.२ ॥
生于金翅鸟林之山,来自雪山;以财物听闻之后前往,他们确实知道驱疟之神。
5.4.3
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥ ५.४.३ ॥
阿湿婆陀,诸神之座,在此处之第三天;那里有甘露之眼;诸神得到了库湿他。
5.4.4
हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥ ५.४.४ ॥
金色之舟行于天空,系以金索;那里有甘露之花;诸神得到了库湿他。
5.4.5
हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।
नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥ ५.४.५ ॥
有金色的道路,金色的桨;有金色的舟,他们借以带出库湿他。
5.4.6
इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।
तमु मे अगदं कृधि ॥ ५.४.६ ॥
库湿他啊,把我的这个人带来,释放他;并为我使他无病。
5.4.7
देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।
स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥ ५.४.७ ॥
你生自诸神,是苏摩的朋友与益友。愿他为我的气息、遍行气与眼睛,慈悲于此人。
5.4.8
उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।
तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥ ५.४.८ ॥
你生于喜马拉雅之北,被带往东方的人群之中。那里分配了拘瑟陀的最尊之名。
5.4.9
उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।
यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥ ५.४.९ ॥
拘瑟陀,你的名字最尊,你父亲的名字也最尊。毁灭一切痨疾,使热病无味。
5.4.10
शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।
कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥ ५.४.१० ॥
击退头部之病、双目与身体之疵,愿拘瑟陀将这一切尽数除去;愿它全然唤醒神圣而刚健的力量。