阿闼婆吠陀 · 颂诗(Sūkta) 5.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.5.1
रात्री माता नभः पितार्यमा ते पितामहः ।
सिलाची नाम वा असि सा देवानामसि स्वसा ॥ ५.५.१ ॥
夜是你的母亲,天空是你的父亲,阿耶曼是你的祖父。你名为西拉奇,你确是诸神的姐妹。
5.5.2
यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।
भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥ ५.५.२ ॥
饮你而活的人,你护佑他。你确实是众人的扶持者,是使(病痛)降下的人。
5.5.3
वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥ ५.५.३ ॥
你攀上一棵又一棵树,如同渴望夫婿的少女;你获胜,挺身抗击(病痛),名为斯帕拉尼。
5.5.4
यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।
तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥ ५.५.४ ॥
凡以杖、以箭、以弓弦、以咒所作者,你便是它的解除。请释放此人。
5.5.5
भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात् ।
भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥ ५.५.५ ॥
你从善良的榕树(plakṣa)中升起;从菩提树、牙木、hava树中;从善良的尼格罗陀与叶树中。你啊,到我们这里来吧,阿伦达蒂。
5.5.6
हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।
रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि ॥ ५.५.६ ॥
啊,金色的、吉祥的、日色的、形体最美的女神!你走向(病人的)哭声;啊,解除者,你确实名为尼什克利提。
5.5.7
हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे ।
अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥ ५.५.७ ॥
金色的、吉祥的、强壮的、胸毛竖立的漆啊!你是水的姐妹;风已成为你的气息。
5.5.8
सिलाची नाम कानीनोऽजबभ्रु पिता तव ।
अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥ ५.५.८ ॥
你名为西拉奇;未婚女子所生之子阿贾布布鲁是你的父亲。你被阎摩那匹褐色马口中的泡沫所洒湿。
5.5.9
अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।
सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥ ५.५.९ ॥
她从马的泡沫中散落,附着于树上。化为有翼之身,来到我们这里吧,阿伦达蒂。