Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.6.1

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥ ५.६.१ ॥

梵最先生于初始,自前方而生。他从边界显现出光辉的吠那。扎根于基底的,是它的支柱,稳固屹立;他为你们分开了有与无的胎藏。

5.6.2

अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥ ५.६.२ ॥

你们最初未能成就,你们所作的业,愿它们不要伤害此地的我们的勇士。这一点,我置于你们面前。

5.6.3

सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।
तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥ ५.६.३ ॥

为你们这千流者,他们在天空的穹窿中齐声鸣响,蜜舌,不沾染。他们的探子不闭眼;迅疾,每一步都持套索,他们是为了桥梁。

5.6.4

पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥ ५.६.४ ॥

为赢得战利与力量,你奋勇向前,四面克服阻碍与敌人。你越过那水流而去,战胜可憎之人;流动的财富,你被称为第十三个月,因陀罗之宅。

5.6.5

न्वेतेनारात्सीरसौ स्वाहा ।
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥ ५.६.५ ॥

现在以此驱走那个——娑婆诃。持锐利武器、持锐利投射物、最为慈惠的苏摩与楼陀罗,在此好好地慈悯我们。

5.6.6

अवैतेनारात्सीरसौ स्वाहा ।
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥ ५.६.६ ॥

以此将那个拉下去——娑婆诃。持锐利武器、持锐利投射物、最为慈惠的苏摩与楼陀罗,在此好好地慈悯我们。

5.6.7

अपैतेनारात्सीरसौ स्वाहा ।
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥ ५.६.७ ॥

愿他借此远离——svāhā。持利器、持利箭的苏摩与楼陀罗,极为慈悯,愿你们在此善待我们。

5.6.8

मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥ ५.६.८ ॥

使我们脱离厄运与可责之过;愿你们喜悦祭祀,并在我们之中安立不死。

5.6.9

चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते ।
मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥ ५.६.९ ॥

以眼之箭、心之箭、梵之箭与苦行之箭——愿他的怒力降于那些图谋加害于我们的人。

5.6.10

योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात् ।
त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥ ५.६.१० ॥

凡以眼、以心、以念、以意欲伤害我们的恶念者——阿耆尼啊,使他们充满愤怒。svāhā。

5.6.11

इन्द्रस्य गृहोऽसि ।
तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥ ५.६.११ ॥

你是因陀罗之居所。我皈依于你,我进入你之中——遍行者、遍人、遍我、遍身;凡属于我的,与之同在,凭之而成。

5.6.12

इन्द्रस्य शर्मासि ।
तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥ ५.६.१२ ॥

你是因陀罗之庇护。我皈依于你,我进入你之中——遍行者、遍人、遍我、遍身;凡属于我的,与之同在,凭之而成。

5.6.13

इन्द्रस्य वर्मासि ।
तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥ ५.६.१३ ॥

你是因陀罗的铠甲。我归依你,进入你——你是遍行者、一切之补特伽罗、一切之我、一切之身;凡我所有,与之一同,我进入你。

5.6.14

इन्द्रस्य वरूथमसि ।
तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥ ५.६.१४ ॥

你是因陀罗的护卫之荫(varūtha)。我归依你,进入你——你是遍行者、一切之补特伽罗、一切之我、一切之身;凡我所有,与之一同,我进入你。