阿闼婆吠陀 · 颂诗(Sūkta) 7.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.21.1
अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् ।
अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥ ७.२१.१ ॥
愿今日阿奴玛蒂在诸神之中认可我们的祭祀,愿负载供物的火神对我这施主也给予善意。
7.21.2
अन्विदनुमते त्वं मंससे शं च नस्कृधि ।
जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥ ७.२१.२ ॥
阿奴玛蒂啊,你予以认可,请为我们带来吉祥。女神啊,请接受所献的供物,赐予我们子嗣。
7.21.3
अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् ।
तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥ ७.२१.३ ॥
愿她认可,认可之后赐予富有子嗣、不会减少的财富。愿我们不陷于她的愤怒,愿我们处于她的善意恩宠与良好心愿之中。
7.21.4
यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु ।
तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥ ७.२१.४ ॥
善引导的阿奴玛蒂啊,你的名号易于呼唤且被认可;慷慨的女神啊,请凭此名圆满我们的祭祀。被众人所愿的吉祥女神啊,请赐予我们与良子勇士相伴的财富。
7.21.5
एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् ।
भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥ ७.२१.५ ॥
阿奴玛蒂来到此祭祀,为求良田、善勇与良好的子嗣;她的善念确实已变得吉祥。愿这位诸神的守护者护佑此祭祀。
7.21.6
अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति ।
तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥ ७.२१.६ ॥
阿奴玛蒂成为了这一切:凡站立者、凡行走者,以及一切震动或运动者。女神啊,愿我们处于你的善意之中;阿奴玛蒂啊,你认可我们。