Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 7.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.27.1

विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ ७.२७.१ ॥

现在我要宣说毗湿奴的英雄事迹:他丈量了大地诸界,支撑起至高的共同居所,以三种方式跨步前行,步伐广大,备受赞颂。

7.27.2

प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।
परावत आ जगम्यात्परस्याः ॥ ७.२७.२ ॥

毗湿奴因其英雄事迹而被赞颂;他如可怖的野兽,居于山岭,隐秘行走。愿他从远方、从彼岸而来。

7.27.3

यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ।
उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि ।
घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥ ७.२७.३ ॥

一切世界依托于他宽广的三步:啊毗湿奴,请大步前行,为我们开辟宽广的居所!啊酥油之源,请饮酥油,引领祭主前行!

7.27.4

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा ।
समूढमस्य पंसुरे ॥ ७.२७.४ ॥

毗湿奴以三种方式跨出此界,安置了他的脚步。他的足迹深深隐藏在尘土之中。

7.27.5

त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
इतो धर्माणि धारयन् ॥ ७.२७.५ ॥

毗湿奴,不可欺的守护者,迈出三步;从此处起,持守着诸法。

7.27.6

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥ ७.२७.६ ॥

请看毗湿奴的事业,他由此而触及诸誓;他是因陀罗的亲密同伴。

7.27.7

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥ ७.२७.७ ॥

毗湿奴的那至高之处,智者常常得见,如同展开在天空中的眼睛。

7.27.8

दिवो विष्ण उत वा पृथिव्या महो विष्ण उरोरन्तरिक्षात् ।
हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात् ॥ ७.२७.८ ॥

啊毗湿奴,无论来自天上还是大地;啊伟大的毗湿奴,来自广阔的虚空。用众多财富充满你的双手,从右手与左手施予。