Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 7.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.52.1

यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।
एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥ ७.५२.१ ॥

如雷电总是毫无阻挡地击打树木,愿我今日以骰子毫无阻挡地击倒赌徒。

7.52.2

तुराणामतुराणां विशामवर्जुषीणाम् ।
समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥ ७.५२.२ ॥

从一切快者与慢者、不屈服的诸民中,愿福运从四面八方聚来;愿我所作之果落入我手。

7.52.3

ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः ।
रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥ ७.५२.३ ॥

以礼拜赞颂善护的阿耆尼;愿他专注于此,把我们的作为分别收聚。如以车驾,与奋进者一起,愿我完成对摩录多的右绕赞歌。

7.52.4

वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे ।
अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥ ७.५२.४ ॥

愿你作为同伴,我们征服围困之敌;每场战斗中,扶起我们的份额。因陀罗啊,为我们使道路宽广而平坦;慷慨者啊,以你的雄力摧毁敌人。

7.52.5

अजैषं त्वा संलिखितमजैषमुत संरुधम् ।
अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥ ७.५२.५ ॥

我胜过你,那被刮伤者;我也胜过那被困者。如狼撕羊,我搅碎你所赢的赌注。

7.52.6

उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।
यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥ ७.५२.६ ॥

以击打之掷而过度游戏的赌徒获胜;如同杀狗者,他适时聚集胜采。渴望诸神者不扣留财富,以“斯瓦达”供物送出那同一份财富。

7.52.7

गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥ ७.५२.७ ॥

众神啊,被多方呼唤的诸神!愿我们借牛群与大麦,越过厄运的贫困与饥饿。愿我们在诸王之中居先,安然无恙,借掷骰之投而赢得财富。

7.52.8

कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित् ॥ ७.५२.८ ॥

我右手中有胜局之掷(kṛta);左手中安放着我的胜利。愿我成为赢得牛群、赢得马匹、赢得财富、赢得黄金的人。

7.52.9

अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव ।
सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥ ७.५२.९ ॥

骰子啊,请把结实的赌注给我,如同给出一头产奶之牛。以胜局之流将我紧紧缚住,如同以筋腱缚弓。