阿闼婆吠陀 · 颂诗(Sūkta) 7.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.55.1
अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।
प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥ ७.५५.१ ॥
若你啊,Bṛhaspati,已将他从阎摩的世界、从诅咒中释放出来,愿双阿希温从我们这里驱走死亡;啊,Agni,作为诸神的医者,以你的神力(去做吧)。
7.55.2
सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् ।
शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥ ७.५५.२ ॥
愿(你的上气与下气)合而为一,不离开身体;愿你的气息与下行气在此相互相连。增长着活过一百个秋天;愿Agni作你的守护者、主宰和最优者。
7.55.3
आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् ।
अग्निष्टदाहार्निर्ऋतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥ ७.५५.३ ॥
你那被远远放置的寿命,愿上气与下气二者都回来。愿Agni从Nirṛti的怀中将它带回;这寿命我再让它进入你的自我之中。
7.55.4
मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात् ।
सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥ ७.५५.४ ॥
愿上气不要离开此人,下气也不要舍弃他而远去。我将他交付给七仙人,也交付给你;愿他们平安地将他带到衰老之年。
7.55.5
प्र विषतं प्राणापानावनड्वाहाविव व्रजम् ।
अयं जरिम्णः शेवधिररिष्ट इह वर्धताम् ॥ ७.५५.५ ॥
愿上气与下气进入,如同两头役牛走入牛栏。这是衰老的宝藏;愿他在此无害地成长。
7.55.6
आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते ।
आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥ ७.५५.६ ॥
我们将你的生命气息召回此处,并将消耗之病(yakṣma)从你身上驱走。愿这位从各方赐予我们寿命的殊胜Agni(成为我们的守护者)。
7.55.7
उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ ७.५५.७ ॥
我们从黑暗中向上攀升,抵达了最高的天界;在诸神之中,我们已得到神圣的太阳(Sūrya),那至高的光明。