Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 7.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.87.1

अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥ ७.८७.१ ॥

良い讃歌で歌え。牛を求めるこの競争で、我らに吉祥の富を授けよ。神々よ、この供犠を我らのために導け。ギーの流れよ、蜜のように甘く流れよ。(アグニ)

7.87.2

मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।
मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥ ७.८७.२ ॥

アグニよ、私は自らの内に火を受け入れる——武勇の力、輝き、力と共に。私の内に子孫と寿命を置く。スヴァーハー!アグニは私の内にある。(アグニ)

7.87.3

इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः ।
क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥ ७.८७.३ ॥

ここにこそ、アグニよ、上なる支えで富を掴め。前もって企む悪意の者どもがお前を切り倒しませんように。武勇の力でアグニよ、お前に良き制御があるように。お前の供者たちが無傷で栄えますように。(アグニ)

7.87.4

अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।
अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥ ७.८७.४ ॥

最初の全知者アグニは、暁の先頭を見て、日々に従った。太陽は暁に、光線に従い、天と地に入った。(アグニ)

7.87.5

प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः ।
प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥ ७.८७.५ ॥

最初の全知者アグニは、日々に向かって暁の先頭を見る。太陽の多くの光線に向けて、天と地を広げた。(アグニ)

7.87.6

घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे ।
घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥ ७.८७.६ ॥

アグニよ、天上の座にはおまえのためのギーがある。マヌは今日ギーであなたを燃え立たせる。水の孫娘である女神たちがあなたにギーを運びますように。アグニよ、牛たちがあなたのためにギーを搾りますように。