阿闼婆吠陀 · 颂诗(Sūkta) 8.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.1.1
अन्तकाय मृत्यवे नमः प्राणा अपाना इह ते रमन्ताम् ।
इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥ ८.१.१ ॥
敬礼终结者死亡(Mṛtyu)。愿你的上升之息与下行之息在此欢喜。愿此人与生命气息一同留在此处,在太阳的分界、不死的世界之中。
8.1.2
उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।
उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥ ८.१.२ ॥
薄伽(Bhaga)扶起了他;有光线的苏摩(Soma)扶起了他;诸神摩禄多(Marut)扶起了他;因瑞祥,因陀罗与阿耆尼扶起了他。
8.1.3
इह तेऽसुरिह प्राण इहायुरिह ते मनः ।
उत्त्वा निर्ऋत्याः पाशेभ्यो दैव्या वचा भरामसि ॥ ८.१.३ ॥
你的生气(asu)在此,你的气息在此,你的寿命在此,你的心在此。我们以神圣的言辞,把你从尼帝(Nirṛti,毁灭)的绳索中提拔上来。
8.1.4
उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः ।
मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥ ८.१.४ ॥
人啊,从此处升起,不要坠落,解脱死亡的枷锁。不要与此世界隔绝,不要失去对火(Agni)与太阳的观看。
8.1.5
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः ।
सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥ ८.१.५ ॥
愿风为你而吹,愿摩多利什文(Mātariśvan)吹拂;愿不死之水为你而降。愿太阳温和地暖你的身体;愿死亡怜悯你,你不要灭亡。
8.1.6
उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृणोमि ।
आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥ ८.१.६ ॥
人啊,为了你的上升而不坠落,为了你的生命,我为你成就力量。让我们确实登上这不死的安乐之车;那时你醒来,说出智慧之言。
8.1.7
मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
विश्वे देवा अभि रक्षन्तु त्वेह ॥ ८.१.७ ॥
愿你的心不去那里,也不回头。愿你的喜乐不离开活着的人;你不要去祖先那里。愿诸天神在此守护你。
8.1.8
मा गतानामा दीधीथा ये नयन्ति परावतम् ।
आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥ ८.१.८ ॥
不要思念已逝之人,也不要思念把你带往远方的人。从黑暗向光明升起;来吧,我们握住你的双手。
8.1.9
श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥ ८.१.९ ॥
愿阎摩所派、守护道路的黑狗与斑狗不要抓住你。来到这里;不要心神散乱地徘徊,不要停留在那里。
8.1.10
मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।
तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक् ॥ ८.१.१० ॥
不要走这条可怕的路,你先前就是被引上这条路的。关于它我来告诉你。人啊,这是黑暗,不要在其中前行。恐惧在彼岸;在这里,你将得无畏。
8.1.11
रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।
वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥ ८.१.११ ॥
愿水中的诸火护佑你;愿人们所点燃的火护佑你。愿毗诃纳罗、遍知火护佑你;愿天上的火不与闪电一同烧灼你。
8.1.12
मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु ।
पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।
अन्तरिक्षं रक्षतु देवहेत्याः ॥ ८.१.१२ ॥
愿食肉的罗刹即使从远处也不能抓住你;远离桑迦苏迦。愿天(Dyauḥ)护佑你。愿大地、太阳与月亮护佑你。愿虚空护佑你免受诸神之武器的伤害。
8.1.13
बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् ।
गोपायंश्च त्वा जागृविश्च रक्षताम् ॥ ८.१.१३ ॥
愿觉醒与再觉醒护佑你;愿不寐与不懈之警觉护佑你。愿守护者与警醒者护佑你。
8.1.14
ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥ ८.१.१४ ॥
愿他们护佑你,愿他们守护你。向他们致敬,向他们奉献娑哈。
8.1.15
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः ।
मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥ ८.१.१५ ॥
为了生命,愿风神(Vāyu)、因陀罗与creator Dhātṛ将你安置于海中;愿救护者萨维塔(Savitṛ)安置你。愿气息不离你,力量不失;我们呼唤你的生命之息。
8.1.16
मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः ।
उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥ ८.१.१६ ॥
愿颚骨与牙关紧闭不捉住你,愿黑暗不寻到你;愿舌头与名为巴尔希什普拉麦由的疾病不触及你——你将如何安好?愿阿迪提耶与婆苏们将你扶起;愿因陀罗与火神为了吉祥将你扶起。
8.1.17
उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत् ।
उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥ ८.१.१७ ॥
天(Dyauḥ)将你扶起,地(Pṛthivī)将你扶起;生主(Prajāpati)将你扶起并握住。苏摩之后的草药们把你从死亡中扶起并送过。
8.1.18
अयं देवा इहैवास्त्वयं मामुत्र गादितः ।
इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥ ८.१.१८ ॥
诸神啊,愿此人留在此处,愿此人从我这里去往彼方。以千倍之力,我们将他从死亡中渡过。
8.1.19
उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः ।
मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥ ८.१.१९ ॥
我已将你从死亡中扶起渡过;愿赐予生命者一同向你吹气。愿披散头发的女子不为你哭泣,也愿悲伤哭泣的人不为你哭泣。
8.1.20
आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।
सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥ ८.१.२० ॥
我已将你带回,我已找到你;你再次归来,重获新生。为你,我已寻回你全身的肢体、全部的视力与全部的寿命。
8.1.21
व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत् ।
अप त्वन् मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि ॥ ८.१.२१ ॥
为你,光明已分离而显现;黑暗已从你身边退去。我们从你身上驱除死亡与毁灭;将消耗之病放下。