阿闼婆吠陀 · 颂诗(Sūkta) 8.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.2.1
आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते ।
असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥ ८.२.१ ॥
握住这不死之力;愿你完整无损,长享高寿。我再次为你带回气息与寿命;不要走近黑暗,不要消亡。
8.2.2
जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय ।
अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥ ८.२.२ ॥
来向生者的光明,来到这里;为了百年之秋,我将你牵引到此。解开死亡的绳索,释放不祥,我为你安置更长的寿命。
8.2.3
वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव ।
यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥ ८.२.३ ॥
我从风中获得你的气息,从太阳获得你的视力;你的心念所在,我便将它稳固于你之中。与肢体重新合一,用舌头说话,言谈吧。
8.2.4
प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।
नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥ ८.२.४ ॥
以气息吹拂你,如新生之火,在两足与四足之中,吹向你。向你的眼睛致敬,啊死亡;向你的气息致敬。
8.2.5
अयं जीवतु मा मृतेमं समीरयामसि ।
कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥ ८.२.५ ॥
愿此人存活,不死;我们唤醒他。为他制作药剂。啊死亡,不要杀害这个人。
8.2.6
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥ ८.२.६ ॥
我不伤害那赋予生命的草药;我在此呼唤那活的、护佑的、胜利的、有力的草药,为他免除灾害。
8.2.7
अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥ ८.२.७ ॥
死神啊,向他说话,不要抓住他;放他走,让他属于你,让他终生都留在此处。愿婆婆与湿婆慈悲,赐予安乐,驱除不祥,确立寿命。
8.2.8
अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु ।
अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥ ८.२.८ ॥
死神啊,为他说话,怜悯他;愿他崛起而来,身体完好无损,四肢健全,听力灵敏,活到百岁,并以自己的身体享受至老。
8.2.9
देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।
आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥ ८.२.९ ॥
愿诸神的武器环绕你;我引导你渡过黑暗,已将你从死亡中提升起来。从远处驱除食肉之火,为你的生存在你周围设下屏障。
8.2.10
यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥ ८.२.१० ॥
死神啊,你那黑暗的道路不可侵犯;我们从那条路上保护他,为他以梵作为铠甲。
8.2.11
कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति ।
वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥ ८.२.११ ॥
我为你造就入息与出息;造就衰老、死亡、长寿与安康。被毗婆娑特之子阎摩所遣、四处游荡的阎摩使者,我全部驱除。
8.2.12
आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान् ।
रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥ ८.२.१२ ॥
从远处驱逐仇敌、尼哩提、远方的抓取者与食肉的毕舍遮。凡有罗刹、恶生之物,我们如驱散黑暗一般将其打退。
8.2.13
अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः ।
यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥ ८.२.१३ ॥
从闍多婆斯阿耆尼的不死生气中,我得到长寿。使你不受伤害,成为不死者并与我同在。这为你而做;愿它为你兴盛。
8.2.14
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।
शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।
शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥ ८.२.१४ ॥
愿天与地对你吉祥,不灼烧,充满恩惠。愿太阳为你温和地照耀,愿风温和地吹到你的心。愿天上富含乳汁的水吉祥地降落于你身上。
8.2.15
शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि ।
तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥ ८.२.१५ ॥
愿草木对你吉祥。我将你从下方的大地带到上方的大地。愿两位阿底提耶,太阳与月亮,在那里保护你。
8.2.16
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् ।
शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥ ८.२.१६ ॥
你所穿的衣裳、外袍、你所系的结,我们使它对你的身体吉祥。愿它在触碰中对你柔和。
8.2.17
यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।
शुभं मुखं मा न आयुः प्र मोषीः ॥ ८.२.१७ ॥
当你用锋利的剃刀剃除头发与胡须时,莫夺去我们吉祥的面容与寿命。
8.2.18
शिवौ ते स्तां व्रीहियवावबलासावदोमधौ ।
एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥ ८.२.१८ ॥
愿稻与大麦对你吉祥,愿阿巴拉萨与阿多玛陀两株草也吉祥。这两者驱除消耗之病(yakṣma),这两者使人脱离苦难。
8.2.19
यदश्नासि यत्पिबसि धान्यं कृष्याः पयः ।
यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥ ८.२.१९ ॥
你所吃的、所喝的,田中的谷物与乳汁,可食与不可食的一切,我都使你的食物远离毒害。
8.2.20
अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।
अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥ ८.२.२० ॥
我们将你交付给白昼与黑夜两者。请为我妥善守护此人,使其远离吝啬者与欲吞噬者。
8.2.21
शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।
इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥ ८.२.२१ ॥
我们为你设定百年与万年,二劫、三劫、四劫。愿因陀罗、阿耆尼及诸神不生怒意,允许此事。
8.2.22
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।
वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥ ८.२.२२ ॥
我们将你交付给秋、冬、春、夏。愿你有宜人的雨季,使草木在其中生长。
8.2.23
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।
तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥ ८.२.२३ ॥
死亡统治两足者,死亡统治四足者。因此我将你从死亡之主那里扶起;你不要害怕。
8.2.24
सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।
न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥ ८.२.२४ ॥
你安然无恙;你不会死,你不会死;你不要害怕。在那里,确实无人死亡,他们也不会坠入最低的黑暗。
8.2.25
सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः ।
यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥ ८.२.२५ ॥
在此神圣的咒语被举行之处,牛、马、人、畜确实都能存活——这是生命的幸福藩篱。
8.2.26
परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः ।
अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥ ८.२.२६ ॥
愿他保护你免于同辈与亲属,免于恶咒(abhicāra)。愿你不死、长生、寿命绵长;愿你的气息不离开你的身体。
8.2.27
ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।
मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥ ८.२.२७ ॥
那百种死亡,隐藏的和须要超越的——愿诸神从Vaiśvānara Agni之上将你从它们中释放。
8.2.28
अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा ।
अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥ ८.२.२८ ॥
你是阿耆尼的身体,能使人渡过;你是罗刹的杀者,敌人的杀者。你又是名为Pūtudru的药,能驱除疾病。