阿闼婆吠陀 · 颂诗(Sūkta) 8.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.3.1
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ ८.३.१ ॥
我点燃那位杀罗刹、强健、众人之友的阿耆尼,走向他宽广的庇护。愿这由祭仪燃起、被磨砺的火神日夜保护我们免受伤害。
8.3.2
अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।
आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥ ८.३.२ ॥
啊,生知者阿耆尼,铁齿者,燃烧起来,以火焰触及那些夜叉。用你的舌头抓住诸神的仇敌;把食肉者击倒后,放进你的口中。
8.3.3
उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च ।
उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥ ८.३.३ ॥
压制那双面恶魔的两颗獠牙;凶猛而锐利,上下击打。啊,阿耆尼,在虚空中周行,用你的颚骨一并抓住那些夜叉。
8.3.4
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥ ८.३.४ ॥
啊,阿耆尼,剖开夜叉的皮肤;愿猛烈的雷电以其热力击杀他。啊,生知者,折断他的关节;愿食肉的阿耆尼将他分离并挑出。
8.3.5
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।
उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥ ८.३.५ ॥
啊,生知者阿耆尼!无论你此刻看见夜叉在何处——站立、行走,或在虚空中飞翔——都用箭射穿他;以磨利的兵器刺穿他。
8.3.6
यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः ।
ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥ ८.३.६ ॥
阿耆尼啊,以祭祀备好箭矢,以言语与雷电涂抹尖刺,用它们刺穿妖魔(yātudhāna)的心脏,折断他们反转的手臂!
8.3.7
उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् ।
अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥ ८.३.७ ॥
耆多婆陀啊,击打那些抓握者,并以矛刺那些攫取者;阿耆尼啊,你为首者,击倒燃烧的妖魔(yātudhāna);愿那些生食、如犬的人被羚羊吞食!
8.3.8
इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति ।
तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥ ८.३.८ ॥
请在此说明,阿耆尼啊,做此事的妖魔(yātudhāna)是哪一个?年少者啊,以薪柴抓住他;为了视人之眼,制服此人。
8.3.9
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥ ८.३.९ ॥
阿耆尼啊,以你锐利的眼睛守护祭祀;智者啊,为诸婆苏引导前进的祭祀;你燃烧着抗击暴烈的罗刹,愿妖魔(yātudhāna)不伤害你,视人之神啊!
8.3.10
नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।
तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥ ८.३.१० ॥
视人之神啊,在诸族中环顾那罗刹;折断它的三个尖端;阿耆尼啊,以你的火焰折断它的脊背;将妖魔(yātudhāna)的根部一分为三地斩断!
8.3.11
त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥ ८.३.११ ॥
愿妖术者三次落入你的罗网。阿耆尼啊,凡以虚妄击打者,生知者啊,以火焰照耀他,当面为赞颂者将他制伏。
8.3.12
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥ ८.३.१२ ॥
阿耆尼啊,今日成对诅咒的人,以及以言语引发渴望争执的雷婆们:以从愤怒与心念所生的箭,射穿妖术者的心。
8.3.13
परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥ ८.३.१३ ॥
以苦行粉碎妖术者;阿耆尼啊,以猛烈粉碎罗刹。以火焰粉碎欺骗的穆罗神,粉碎吸取生命与焚烧之者。
8.3.14
पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥ ८.३.१४ ॥
愿诸神今日粉碎邪恶;愿发出的誓言与咒语反向折回于他。以言语,愿箭射中窃贼的要害;愿妖术者落入众人的罗网。
8.3.15
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥ ८.३.१५ ॥
以生人血肉涂抹自身的妖术者,以马和牲畜涂抹者;夺取不可杀之牛乳者——阿耆尼啊,以猛烈斩断他们的头颅。
8.3.16
विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः ।
परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥ ८.३.१६ ॥
愿妖魔带走牛的毒;愿作恶者为阿底提而被斩断。愿萨维德里神将他们远远交付;愿草药之分远离,愿它们获胜。
8.3.17
संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।
पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥ ८.३.१७ ॥
愿监视人类的妖魔不饮一岁母牛的乳。啊,阿耆尼,凡想饮用者,那背转之人,愿你以火焰刺穿他的要害。
8.3.18
सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥ ८.३.१८ ॥
啊,阿耆尼,你总是碾碎妖魔;在战斗中,罗刹未能战胜你。请焚烧愚者与食肉之徒;愿他们不得脱离你神圣的兵器。
8.3.19
त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात् ।
प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥ ८.३.१९ ॥
啊,阿耆尼,你从下、从上护佑我们;你从后、从前也护佑我们。愿你那不朽、最炽热、燃烧的火焰,烧尽那出恶言者。
8.3.20
पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने ।
सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥ ८.३.२० ॥
啊,阿耆尼,从后、从前、从下、从上,啊,智者,以你的智慧之歌环绕护佑我们。啊,阿耆尼,你是朋友中的朋友,不老;啊,阿耆尼,你不死,请护佑我们这些有死者。
8.3.21
तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् ।
अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥ ८.३.२१ ॥
阿耆尼啊,将你看见蹄伤者(夜叉)的那只眼睛投向他们。像阿タルヴァン一样,以神圣之光将那隐秘的害人者彻底焚尽。
8.3.22
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥ ८.३.२२ ॥
阿耆尼啊,我们将你如城堡般环绕护持,力量之子,受启示的智者。日日你以无畏之色,成为弯曲者的杀戮者。
8.3.23
विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि ।
अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥ ८.३.२३ ॥
以毒物,确实打击弯曲者的罗刹。阿耆尼啊,以你锐利的火焰、灼热的焰尖,将他们击倒。
8.3.24
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥ ८.३.२४ ॥
阿耆尼以大光明照耀;凭其伟力,他使万物显现。神圣的幻术、恶心之人,他能克服。为刺穿罗刹,他磨利他的双角。
8.3.25
ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते ।
ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् ।
प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥ ८.३.२५ ॥
哦,遍知者,你那不朽的两只角,利器锋锐,以梵咒磨砺——用它们击倒恶心者、进犯的“何物”罗刹。哦,遍知者,以你的火焰,刺穿那朝你转来的。
8.3.26
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
शुचिः पावक ईड्यः ॥ ८.३.२६ ॥
阿耆尼驱逐罗刹;他拥有明亮的火焰,是不死者。他纯洁,是净化者,值得赞颂。