Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 8.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.5.1

अयं प्रतिसरो मणिर्वीरो वीराय बध्यते ।
वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥ ८.५.१ ॥

此护身宝珠为英雄之珠,系于英雄身上。它有力量,能杀敌,是勇猛的战士,守护者,极为吉祥。

8.5.2

अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।
प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥ ८.५.२ ॥

此宝珠能杀敌,是善战之英雄,有力、迅猛、得胜、猛烈。英雄前来,反转咒术之攻击并使之污秽。

8.5.3

अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी ।
अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥ ८.५.३ ॥

因此宝珠,因陀罗杀死了弗栗多;智者借此击败阿修罗。借此他征服了天地二者,借此征服了四方。

8.5.4

अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।
ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥ ८.५.४ ॥

此以皮带系住的宝珠,是返回的护身符,是反制咒。它有力量,能制服敌人,愿它从四面八方护佑我们。

8.5.5

तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ।
ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥ ८.५.५ ॥

阿耆尼如此说,苏摩也如此说;布里诃娑提、萨维特尔、因陀罗也如此说。愿我那些首席祭司之神,以护身符驱散反转的咒术攻击。

8.5.6

अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।
ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥ ८.५.६ ॥

他们分开天地,又托住白昼与太阳。愿我那些首席祭司之神,以护身符驱散反转的咒术攻击。

8.5.7

ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।
सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥ ८.५.७ ॥

那些以斯拉克迪亚宝石为甲胄的人,如太阳升上天空,作为主宰驱散咒术(kṛtyā)。

8.5.8

स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।
अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥ ८.५.८ ॥

我以斯拉克迪亚宝石,如智慧的仙人,征服了所有军队;我打击敌人和罗刹。

8.5.9

याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः ।
कृत्याः स्वयंकृता या उ चान्येभिराभृताः ।
उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥ ८.५.९ ॥

那些安吉罗斯类的咒术、阿修罗类的咒术、自己所作的,以及他人带来的——愿两类咒术都远远离去,越过九十条船。

8.5.10

अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥ ८.५.१० ॥

愿诸神为他系上宝石与甲胄:因陀罗、毗湿奴、萨维特里、楼陀罗、阿耆尼、生主、至高者、毗罗吉、吠舍婆罗,以及所有仙人。

8.5.11

उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।
यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥ ८.५.११ ॥

此为草药中最上者,如行走者中的公牛,如有爪兽中的老虎。我们所求并找到的那近旁的解缚之物,便是此物。

8.5.12

स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा ।
अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥ ८.५.१२ ॥

佩戴此宝石之人,便成为虎,又成为狮子,又成为公牛(强者),又成为制伏敌手者。

8.5.13

नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।
सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥ ८.५.१३ ॥

佩戴此宝珠者,不为阿普萨拉斯所伤,不为健达缚所伤,也不为凡人所伤;对他而言,四方皆明亮。

8.5.14

कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत् ।
अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत् ।
मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥ ८.५.१४ ॥

迦叶波造了你,迦叶波使你运行。因陀罗佩戴你,为人间的争战者佩戴你而获胜。诸神把千倍力量的宝珠做成了铠甲。

8.5.15

यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति ।
प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥ ८.५.१५ ॥

凡以咒术、灌顶、祭祀想要杀你的人,因陀罗啊,使他反转,用百节金刚杵击杀他。

8.5.16

अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः ।
प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥ ८.५.१६ ॥

此宝珠正是反转者、有力而全胜的;愿它护佑子嗣与财富,全面守护,极为吉祥。

8.5.17

असपत्नं नो अधरादसपत्नं न उत्तरात् ।
इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥ ८.५.१७ ॥

从下方使我们无敌,从上方使我们无敌。因陀罗啊,从后方使我们无敌;英雄啊,把光明置于前方。

8.5.18

वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥ ८.५.१८ ॥

天与地为我的铠甲,白昼为铠甲,太阳为铠甲。因陀罗与火神为我的铠甲;愿创造者达陀为我安置铠甲。

8.5.19

ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।
तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥ ८.५.१९ ॥

愿因陀罗与阿耆尼的那副广大猛烈之甲,诸维舒德瓦所不能穿透者,从四面大力护卫我的身体,使我长寿,活到老年。

8.5.20

आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये ।
इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥ ८.५.२० ॥

神圣之珠为我而来,以求免于伤害。诸神啊,进入这护身之带吧——护体的三重铠甲,为了力量。

8.5.21

अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।
दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत् ॥ ८.५.२१ ॥

愿因陀罗在此安放力量。诸神啊,进入此中吧——为了长寿,为了百年秋,使我长寿,活到老年。

8.5.22

स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।
इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः ।
सोमपा अभयङ्करो वृषा ॥ ८.५.२२ ॥

愿赐福的因陀罗,诸民之主,杀伐弗栗多者,无敌者,征服者,为你系上宝珠——胜利者,不可征服者,饮苏摩者,使人无畏者,公牛。