Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 8.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.6.1

यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।
दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥ ८.६.१ ॥

那两首为刚生育的妇人而由母亲抹拭的咒语,能使她得到丈夫。愿恶名者(Durnāmā)在那里不觊觎我,阿林沙与瓦特萨帕亦然。

8.6.2

पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।
आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥ ८.६.२ ॥

帕拉拉与阿努帕拉拉,沙尔库,科迦,马利姆卢恰,帕利扎迦,阿施雷沙,披粗毛衣者,熊颈者,以及普拉米林。

8.6.3

मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।
कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥ ८.६.३ ॥

你不要缠绕她,不要靠近爬行;不要从她两股之间滑落。我为她制作药剂,一种驱逐恶名者的力量。

8.6.4

दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः ।
अरायान् अप हन्मः सुनामा स्त्रैणमिच्छताम् ॥ ८.६.४ ॥

恶名者与善名者都想要被遮蔽的女子。我们驱逐吝啬(作恶)者;愿善名者去渴慕女性。

8.6.5

यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः ।
अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥ ८.६.५ ॥

那黑色长发的阿修罗,生于草丛,以及顿迪迦——这些吝啬(作恶)者,我们以她的两颗睾丸、以阴部将其驱逐。

8.6.6

अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।
अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत् ॥ ८.६.६ ॥

愿犬形的沙瓦基希金的赤黄之力,毁灭那追嗅她、抚摸她、噬肉并舔舐的吝啬(作恶)者。

8.6.7

यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।
बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥ ८.६.७ ॥

凡在你睡眠时化作兄长或如父亲般压制你者,愿巴嘉从此处战胜那些具有阴柔形态的、戴冠的(魔怪)。

8.6.8

यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् ।
छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत् ॥ ८.६.८ ॥

凡在你睡时窥伺你者,以及你醒时仍欲害你者,愿如影子般环绕运行的太阳将他们消灭。

8.6.9

यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् ।
तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥ ८.६.९ ॥

凡使此女子成为子嗣夭亡且无子者,啊药草,你要消灭他;也消灭她那名为“莲”的病症。

8.6.10

ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।
कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।
तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥ ८.६.१० ॥

黄昏时在厅堂周围像驴一样嘶叫起舞者,以及库苏罗、库克希罗、卡库跋、卡卢摩与斯利摩——啊药草,请以你的香气消灭那些四散者。

8.6.11

ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति ।
क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥ ८.६.११ ॥

那些库肯陀与库基拉跋,身披兽皮、携带眼睛,在林中如阴柔者般起舞并发出喧嚣的——我们从此处将他们消灭。

8.6.12

ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः ।
अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥ ८.६.१२ ॥

那些不能忍受天上那炙热太阳的、居于山羊之中的吝啬者、臭气者、红脸者及马卡卡们——我们将他们消灭。

8.6.13

य आत्मानमतिमात्रमंस आधाय बिभ्रति ।
स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥ ८.६.१३ ॥

那些将自身过度扛在肩上、刺扎女子腰臀的人——因陀罗啊,毁灭那些罗刹吧。

8.6.14

ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।
आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥ ८.६.१४ ॥

那些被缚于前而行、手持角、居于灶中、大笑、在草束中生光的——我们从此处将他们毁灭。

8.6.15

येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।
खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ।
तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥ ८.६.१५ ॥

足在后、跟在前、面朝前;生于谷场与干粪烟中的;乌伦达、马特马塔,睾丸如瓮,行动迟缓——将这些从她身边,梵主啊,以回唤觉醒之法毁灭。

8.6.16

पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः ।
अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥ ८.६.१६ ॥

眼睛斜视、形貌丑陋、如羚羊者——愿他们成为阉人。啊,药!将这位无夫、欲与自己丈夫疏离的女子推倒。

8.6.17

उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।
उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।
पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥ ८.६.१७ ॥

使人毛竖者、如圣人之发者、啃咬者、反复触碰者、靠近者、丑陋的乌敦巴罗、通德罗与舍卢达——以脚、以踵刺穿他们;使锅如牛般颤动。

8.6.18

यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।
पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥ ८.६.१८ ॥

凡触摸你的胎儿而加害、或杀害已出生之子者,愿黄褐色的频伽、持猛烈弓者,使他心被射穿。

8.6.19

ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।
स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥ ८.६.१९ ॥

杀害新生儿的阿姆那鬼,伏于产妇身边的苏提卡,作为女性部分的乾达婆——愿黄褐色的频伽驱逐他们,如风驱云。

8.6.20

परिसृष्टं धरयतु यद्धितं माव पादि तत् ।
गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥ ८.६.२० ॥

愿他拦住那被放出的灾难,使善者不致倒下。愿两种猛烈的药物守护你的胎儿,即系在衣结中佩戴的两种药草。

8.6.21

पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात् ।
प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥ ८.६.२१ ॥

愿黄褐色的频伽为了子嗣与丈夫,从波维那萨、唐伽尔瓦、影魔与裸魔之处周全守护你;也从奇米丁那里守护你。

8.6.22

द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।
वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात् ॥ ८.६.२२ ॥

从两面者、四目者、五足者、无指者、向你爬来的茎蔓,以及缠绕者,请全面守护她。

8.6.23

य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।
गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥ ८.६.२३ ॥

食生肉者、食人肉者、吞食生肉者,以及吞噬胎儿的凯沙婆——我们在此将他们消灭。

8.6.24

ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।
बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥ ८.६.२४ ॥

那些从太阳处四处爬行的,如同儿媳避开公公——愿其中的巴遮与匹迦被刺穿于心中。

8.6.25

पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।
आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥ ८.६.२५ ॥

啊,匹迦,护佑那将要出生者;不要使之成为男或女。愿食卵者不伤胚胎;将金弥丁驱离此处。

8.6.26

अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।
वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत् ॥ ८.६.२६ ॥

愿你无子,如凡人之于同类;我们驱散哭泣与罪恶。如从树上编成花环,将它掷回那不被爱者。