Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 8.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.8.1

इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।
यथा हनाम सेना अमित्राणां सहस्रशः ॥ ८.८.१ ॥

愿因陀罗搅动;被搅动的帝释、英雄、破城者——使我们成千上万地击杀敌人的军队。

8.8.2

पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।
धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥ ८.८.२ ॥

腐烂的绳索,吹气者——使那军队腐臭;烟与火,隐而不见——愿敌人心中怀抱恐惧。

8.8.3

अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।
ताजद्भङ्ग इव भज्यन्तां हन्त्वेनान् वधको वधैः ॥ ८.८.३ ॥

啊,阿什瓦塔树,把这些人碾碎;愿卡迪罗木吞噬他们——如同破碎之物,愿他们破碎;愿杀手以武器击杀他们。

8.8.4

परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।
क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिताः ॥ ८.८.४ ॥

愿名为粗糙者使这些人变得粗糙;愿杀手以武器击杀他们——如箭般迅速地折断,被缚于大网之中。

8.8.5

अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।
तेनाभिधाय दस्यूनां शक्रः सेनामपावपत् ॥ ८.८.५ ॥

虚空便是网;四方与大地便是网杆;帝释以此覆盖并驱散了盗贼的军队。

8.8.6

बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।
तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥ ८.८.६ ॥

伟大的网属于伟大的帝释,那位拥有力量者;愿以此网压倒所有敌人,使他们无一人得以逃脱。

8.8.7

बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।
तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥ ८.८.७ ॥

英勇的因陀罗啊,你的网广大,价值千倍,力量百倍;以此网,帝释率军攻击达修,击杀了百、千、万、亿。

8.8.8

अयं लोको जालमासीच्छक्रस्य महतो महान् ।
तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥ ८.८.८ ॥

这个世界是伟大的帝释的大网;以因陀罗之网,我以黑暗笼罩他们所有人。

8.8.9

सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।
श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥ ८.८.९ ॥

虚耗(sedi)、猛烈的毁灭、无法驱逐的痛苦、疲惫、昏沉与迷惑——以这些,我遮蔽他们所有人。

8.8.10

मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।
मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥ ८.८.१० ॥

我把他们交给死亡;他们被死亡之索所缚。将他们捆绑,送回给死亡那些恶使者。

8.8.11

नयतामून् मृत्युदूता यमदूता अपोम्भत ।
परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥ ८.८.११ ॥

愿死亡的使者与阎摩的使者带走他们并驱逐。超过千数,愿他们被击倒;如草一般,愿他们被驱散——为了婆婆(Bhava)的凡人。

8.8.12

साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।
रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥ ८.८.१२ ॥

萨提亚神举起一根网杖,以力量前行;楼陀罗持一根,婆苏持一根,与阿提提亚们同持一根。

8.8.13

विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।
मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥ ८.८.१३ ॥

愿诸天神从上方以力压下而来。愿安吉罗斯从中间击打,直奔那支庞大的军队。

8.8.14

वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥ ८.८.१४ ॥

我派遣诸树木、树生者、草药与藤蔓,以及两足与四足之生灵,愿它们击杀那支军队。

8.8.15

गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥ ८.८.१५ ॥

我派遣乾闼婆、阿普萨拉斯、蛇、诸神、福德之人与祖灵,可见的与不可见的,愿它们击杀那支军队。

8.8.16

इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।
अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥ ८.८.१६ ॥

这些是布下的死亡之索;踏上其上者不得解脱。愿那支军队的此陷阱化为千倍,将其击杀。

8.8.17

घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।
भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥ ८.८.१७ ॥

此以火点燃的热祭、此千杀之供养,以及婆婆、普里希尼巴忽与沙尔瓦——愿它们击杀那支军队。

8.8.18

मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।
इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥ ८.८.१८ ॥

愿死亡的诸般苦楚落于其上:饥饿、疲惫、杀戮与恐惧。愿因陀罗与沙尔瓦以骰子之网击杀那支军队。

8.8.19

पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।
बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥ ८.८.१९ ॥

战败的敌人,愿他们惊恐颤抖;被神圣咒语驱逐,愿他们奔逃。被布里哈斯帕蒂驱赶的敌人中,愿无一人得以逃脱。

8.8.20

अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।
अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥ ८.८.२० ॥

愿他们的武器落地,愿他们无力反射箭矢。然后,愿箭矢射中许多因恐惧而颤抖者的要害。

8.8.21

सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥ ८.८.२१ ॥

愿天、地与空界连同诸神,使他们一齐呼喊。愿他们找不到识途之人,也找不到立足之地;互相击打,走向死亡。

8.8.22

दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः ।
द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥ ८.८.२२ ॥

四方是神车的骡子一对;祭饼是车的前部,中空是蹄。天与地是它的双翼;季节是缰绳,中间方位是侍从,言语是车轮的外缘。

8.8.23

संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।
इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥ ८.८.२३ ॥

年是车,周年是车座;毗罗吉与伊莎—阿耆尼是车前。因陀罗立于左侧;月亮是御者。

8.8.24

इतो जयेतो वि जय सं जय जय स्वाहा ।
इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।
नीललोहितेनामून् अभ्यवतनोमि ॥ ८.८.२४ ॥

从此处取胜,从彼处分离取胜,合力取胜,取胜——娑婆诃。愿此等(我方)获胜,愿彼方远处之人也获胜——娑婆诃。为这些难以击中的敌人(此献祭)。以深红色(武器或咒术)我将那些敌人击倒。