Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 8.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.9.1

कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः ।
वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥ ८.९.१ ॥

那两者从何处而生?其中哪一半来自哪个世界、这大地的哪一部分?毗罗遮的两头小牛从水中涌出。我问你:它们之中是由哪一个挤出了奶?

8.9.2

यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः ।
वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥ ८.९.२ ॥

他以其伟大使诸水咆哮,铺设三重子宫而躺卧,是毗罗遮的满愿挤奶小牛——他在暗中、从远处塑造了他的身躯。

8.9.3

यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् ।
ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥ ८.९.३ ॥

凡有三大部分、其第四部分分开言语者——智者当以苦行将其认作梵,其中一者相结合,其中一者。

8.9.4

बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता ।
बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥ ८.९.४ ॥

围绕大(bṛhat),诸娑摩从第六而立于五之上。大由大(bṛhatī)而成;大(bṛhatī)从何处被量度?

8.9.5

बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।
माया ह जज्ञे मायाया मायाया मातली परि ॥ ८.९.५ ॥

围绕大(bṛhatī)之量,它建立于量度者之量之上。幻(māyā)确实生于幻;从幻而生摩多利(Mātali)。

8.9.6

वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः ।
ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥ ८.९.६ ॥

毗舍那罗的形象上达天际;火遍满天地。从那里,从第六(界),颂歌向彼岸而去;从升起的太阳,颂歌走向白日的第六分。

8.9.7

षट् त्वा पृच्छाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च ।
विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥ ८.९.७ ॥

迦叶啊,我们诸仙向你问六件事:你自己驾御已驾御之物,也驾御可驾御之物。人们称毗罗阇为梵之父;请为你的朋友们,以多种方式将她显示给我们。

8.9.8

यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।
यस्या व्रते प्रसवे यक्षमेजति सा विराडृषयः परमे व्योमन् ॥ ८.९.८ ॥

她离去时,祭祀随她而离去;她近立时,祭祀便近立。在其誓愿与推动中,夜叉颤动——她便是毗罗阇,诸仙啊,在至高的天空中。

8.9.9

अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात् ।
विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥ ८.९.९ ॥

她无息而行,借有息众生之息;毗罗阇从自主之后而来。触及一切,形态多样的毗罗阇被人看见——在你之中看见她,又在你之中不见她。

8.9.10

को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः ।
क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥ ८.९.१० ॥

谁完全知晓毗罗阇的成对之性?谁知晓诸季节?谁知晓她的规则?谁知晓她的步伐,以多少种方式?谁以多少种方式知晓被挤出之乳(毗罗阇)?谁知晓她的居所,以及她的晨光有多少种?

8.9.11

इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।
महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥ ८.९.११ ॥

此即她,最先放光者;进入众者之中而行。其中有伟大的荣耀;新娘获胜,她是生育新生者的母亲。

8.9.12

छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते ।
सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥ ८.९.१२ ॥

以诗律为翼的两位晨光,装饰一新,沿着同一子宫并行。太阳的两位妻子并行,有智慧、有光辉旗帜、不老、富于精华。

8.9.13

ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः ।
प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥ ८.९.१३ ॥

沿着宇宙秩序之道,来了三者;三种热力随精华而来。一者激发后代,一者激发力量,一者守护寻求诸神者之国。

8.9.14

अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।
गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥ ८.९.१४ ॥

第四位是确立阿耆尼与苏摩者;诸仙构造了祭祀之翼。她为祭主将伽耶特里、特里斯图布、耆伽提、阿努斯图布与勃里诃提之赞歌带到天上。

8.9.15

पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च ।
पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥ ८.९.१५ ॥

五个晨光,其后五次挤奶;五名之牛,其后五季。五方由十五所定;它们一首,朝向同一世界。

8.9.16

षड्जाता भूता प्रथमजा ऋतस्य षडु सामानि षडहं वहन्ति ।
षड्योगं सीरमनु सामसाम षडााहुर्द्यावापृथिवीः षडुर्वीः ॥ ८.९.१६ ॥

六次诞生而生,乃是ṛta的长子;六首娑摩歌承载六日。六轭之犁后面,每一首娑摩皆随之;人们称天地为六,广阔的世界亦为六。

8.9.17

षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः ।
सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥ ८.९.१७ ॥

人们说六为寒冷,六月为炎热;请告诉我们季节,哪一个是多余的。七位羽翼美丽的智者已经坐下;七韵律,其后是七个灌顶。

8.9.18

सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त ।
सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥ ८.९.१८ ॥

七次献祭,七根燃木,的确如此;七种甘甜,七季,的确如此;七份澄清酥油绕行世界。那些是七只秃鹫,我们如此听闻。

8.9.19

सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि ।
कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥ ८.९.१९ ॥

七韵律,每一个各多四,彼此叠置。赞颂形式如何立于其上?它们又如何安置于那些赞颂形式之中?

8.9.20

कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते ।
त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥ ८.९.२० ॥

甘雅特里如何遍及三重?特里修图布如何与十五相配?耆伽提如何与三十三相配,阿努修图布如何,二十一又如何?

8.9.21

अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्रर्त्विजो दैव्या ये ।
अष्टयोनिरदितिरष्टपुत्राष्टमीं रात्रिमभि हव्यमेति ॥ ८.९.२१ ॥

八种生命生起,乃是天则(ṛta)的长子;八位因陀罗,神圣的祭司;拥有八个子宫、八个儿子的阿底提,携供物走向第八个夜晚。

8.9.22

इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा ।
समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥ ८.९.२२ ॥

如此思念福祉,我来到此处;在你们的友谊中,我是仁善的。同生之志对你们是吉祥的;知晓此理,它与你们众人同行。

8.9.23

अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा ।
अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥ ८.९.२३ ॥

因陀罗的八者,诸仙六对之七七分支;水、人、草药;在其中五者之后,它们被洒遍。

8.9.24

केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना ।
अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यानसुरान् उत ऋषीन् ॥ ८.९.२४ ॥

唯为因陀罗,斑牛挤奶;不育之牛先挤出甘露。然后她以四种方式使四者满足——诸神、人类、阿修罗与诸仙。

8.9.25

को नु गौः क एकऋषिः किमु धाम का आशिषः ।
यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥ ८.९.२५ ॥

那头牛是谁?唯一的仙人是谁?何为居所,何为所愿?大地上那奇妙的形象,一转、一时——他们之中,他是谁?

8.9.26

एको गौरेक एकऋषिरेकं धामैकधाशिषः ।
यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥ ८.९.२६ ॥

一头牛、一位仙人、一处居所、一种所愿;大地上那奇妙的形象,一转、一时——从唯一的创造者那里,没有任何东西剩余。