Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 9.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.1.1

दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे ।
तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥ ९.१.१ ॥

从天、地、虚空、海洋、阿耆尼与风中,生出了蜜鞭(Madhukaśā)。众生靠近她,披上不死,全心欢喜。

9.1.2

महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः ।
यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥ ९.१.२ ॥

她的大精华具有万相;人们也称你为海洋之种。欢喜的蜜鞭(Madhukaśā)从何而来,那里便是气息;不死便安住于彼处。

9.1.3

पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।
अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥ ९.१.३ ॥

在大地上,人们分别观察她的运行,以多种方式思量。蜜鞭(Madhukaśā)生于阿耆尼与风;她是末卢都的猛烈后裔。

9.1.4

मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः ।
हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥ ९.१.४ ॥

她是阿提提亚(Ādityas)之母,婆苏(Vasus)之女,众生之气息,不死之中心。金色的、流淌酥油的蜜鞭(Madhukaśā);伟大的光辉行于有死者之中。

9.1.5

मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः ।
तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥ ९.१.५ ॥

诸神产生了蜜鞭(Madhukaśā);她的胎藏成为万相。母亲养育那出生的少年;出生后,他审视一切世界。

9.1.6

कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः ।
ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥ ९.१.६ ॥

谁真正知道他?谁能认识他?从她心中而出、盛载苏摩的不朽之器——愿聪慧的梵主在其中欢喜。

9.1.7

स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ ।
ऊर्जं दुहाते अनपस्फुरन्तौ ॥ ९.१.७ ॥

他确实知晓那两者,他也能察知——她的两乳,千流而不朽,无歇地挤出活力。

9.1.8

हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् ।
त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥ ९.१.८ ॥

具有哼声之力,广大,赐予生命,声音洪亮,趋向律法的她——渴望三种热力,她量度声音,以乳汁与汁液滋养。

9.1.9

यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः ।
ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥ ९.१.९ ॥

与她相伴而坐的水——强壮、自主、如公牛般的水——它们降雨,它们使之降雨;那愿望与力量为人所知,哦诸水。

9.1.10

स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि ।
अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥ ९.१.१० ॥

你的雷鸣即是你的言语,哦生主——作为公牛,你将力量投向大地;她出自阿耆尼与风的甜蜜鞭策而生,乃摩录多的猛烈孙女。

9.1.11

यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः ।
एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥ ९.१.११ ॥

正如苏摩在晨祭压榨时为双阿输二神所喜爱,同样,哦双阿输二神,愿光辉留存于我的自我之中。

9.1.12

यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः ।
एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥ ९.१.१२ ॥

如同苏摩在第二次压榨时为因陀罗与阿耆尼所喜爱,愿因陀罗与阿耆尼在我的自我中持住光辉。

9.1.13

यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः ।
एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥ ९.१.१३ ॥

如同苏摩在第三次压榨时为诸Ṛbhu所喜爱,愿诸Ṛbhu在我的自我中持住光辉。

9.1.14

मधु जनिषीय मधु वंसिषीय ।
पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥ ९.१.१४ ॥

愿我生出甜蜜,愿我获得甜蜜。阿耆尼啊,我带着乳汁丰盈而来;请以那光辉与我相合。

9.1.15

सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥ ९.१.१५ ॥

阿耆尼啊,请以光辉与我相合;以子嗣与圆满寿命与我相合。愿诸神知晓我的这一切;愿因陀罗与诸仙人一同知晓。

9.1.16

यथा मधु मधुकृतः संभरन्ति मधावधि ।
एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥ ९.१.१६ ॥

如同酿蜜者在蜜上聚集蜜,愿双Aśvin在我的自我中持住光辉。

9.1.17

यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि ।
एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥ ९.१.१७ ॥

如同苍蝇在此蜜上涂抹蜜,愿双Aśvin为我持住光辉、光明、力量与活力。

9.1.18

यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।
सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥ ९.१.१८ ॥

无论山岳与峰顶之中、牛与马之中有何蜜,无论苏罗酒被倾注时其中有何蜜,愿那蜜存在于我之中。

9.1.19

अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
यथा वर्चस्वतीं वाचमावदानि जनामनु ॥ ९.१.१९ ॥

吉祥之主阿输阳双神啊,请以蜜与蜜汁涂抹我,使我能在众人中说出光明的言语。

9.1.20

स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि ।
तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥ ९.१.२० ॥

生主啊,你雷鸣般的声音如公牛,将力量投向大地与天空。众畜因此得以生存;它使万物充满食物与活力。

9.1.21

पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥ ९.१.२१ ॥

大地是杖,虚空是胎,天是鞭,闪电是其鞭梢,金色的滴点是其尖端。

9.1.22

यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति ।
ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥ ९.१.२२ ॥

知晓鞭之七种甘甜者便成为有蜜之人:婆罗门、国王、奶牛、公牛、稻与大麦——第七为蜜。

9.1.23

मधुमान् भवति मधुमदस्याहार्यं भवति ।
मधुमतो लोकान् जयति य एवं वेद ॥ ९.१.२३ ॥

他成为有蜜之人,他所应得者也变为蜜。如此知晓者,便征服蜜的诸世界。

9.1.24

यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति ।
तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति ।
अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥ ९.१.२४ ॥

当雷声在开阔的天空(vīdhra)中轰鸣时,那正是生主(Prajāpati),他为众生而显现。因此我将圣线搭在左肩,站立并说:哦,生主,请随我醒来。众生随他而醒,生主也随那如此知晓者而醒。