阿闼婆吠陀 · 颂诗(Sūkta) 9.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.13.1
शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् ।
सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥ ९.१३.१ ॥
头痛、头部疾病、耳痛与血色之痛——凡属于你头部的一切疾病,我们以咒语将其驱逐于外。
9.13.2
कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् ।
सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥ ९.१३.२ ॥
从你的两耳、从kaṅkūṣa——耳痛与蔓延的肿胀;凡属于你头部的一切疾病,我们以咒语将其驱逐于外。
9.13.3
यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः ।
सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥ ९.१३.३ ॥
凡由于某种缘由,痨疾自耳与口中流下——凡属于你头部的一切疾病,我们以咒语将其驱逐于外。
9.13.4
यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् ।
सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥ ९.१३.४ ॥
使人昏厥者,使人失明者——凡属于你头部的一切疾病,我们以咒语将其驱逐于外。
9.13.5
अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् ।
सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥ ९.१३.५ ॥
肢体断裂之痛、肢体之热、遍及全身之病、蔓延的肿胀——凡属于你头部的一切疾病,我们以咒语将其驱逐于外。
9.13.6
यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् ।
तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥ ९.१३.६ ॥
其可怖之形使人颤抖——那持续整个秋季的热病,我们以咒语将其驱逐于外。
9.13.7
य ऊरू अनुसर्पत्यथो एति गवीनिके ।
यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥ ९.१३.७ ॥
在你两条大腿上爬行、并蔓延至腹股沟的消耗之病,我们以咒语从你的内脏肢体中驱逐出去。
9.13.8
यदि कामादपकामाद्धृदयाज्जायते परि ।
हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥ ९.१३.८ ॥
若因爱欲或厌恶从心中生起并扩散,我们以咒语将心脏的痰液从肢体中驱逐出去。
9.13.9
हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात् ।
यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥ ९.१३.९ ॥
从你的肢体、外部、腹中、自我的内在处,我们以咒语驱逐黄疸与消耗之病。
9.13.10
आसो बलासो भवतु मूत्रं भवत्वामयत् ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥ ९.१३.१० ॥
无论是口中的痰、尿液还是疾病,所有消耗之病的毒,我已从你身上驱除。
9.13.11
बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात् ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥ ९.१३.११ ॥
愿它从外部孔道流出,从你腹中伴随“咔哈-巴哈”之声排出;所有消耗之病的毒,我已从你身上驱除。
9.13.12
उदरात्ते क्लोम्नो नाभ्या हृदयादधि ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥ ९.१३.१२ ॥
从你的腹中、脾(klomā)、脐、心脏之中,所有消耗之病的毒,我已从你身上驱除。
9.13.13
याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः ।
अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥ ९.१३.१३ ॥
那些打破关节、向头部回流的,不造成伤害,免于疾病,让它们从外部的孔道流出去吧。
9.13.14
या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः ।
अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥ ९.१३.१४ ॥
那些奔向心脏、沿肋骨蔓延的,不造成伤害,免于疾病,让它们从外部的孔道流出去吧。
9.13.15
याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः ।
अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥ ९.१३.१५ ॥
那些奔向两侧、沿背部挤压的,不造成伤害,免于疾病,让它们从外部的孔道流出去吧。
9.13.16
यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते ।
अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥ ९.१३.१६ ॥
那些斜向奔流、冲向你胸部的,不造成伤害,免于疾病,让它们从外部的孔道流出去吧。
9.13.17
या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।
अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥ ९.१३.१७ ॥
那些沿下部通道爬行、迷乱肠道的,不造成伤害,免于疾病,让它们从外部的孔道流出去吧。
9.13.18
या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च ।
अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥ ९.१३.१८ ॥
那些从骨髓中吹散关节、使之破裂的,不造成伤害,免于疾病,让它们从外部的孔道流出去吧。
9.13.19
ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥ ९.१३.१९ ॥
那些使你肢体狂乱、灼烧的消耗病(yakṣma),所有这些消耗病的毒,我已从你身上驱除。
9.13.20
विसल्पस्य विद्रधस्य वातीकारस्य वालजेः ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥ ९.१३.२० ॥
扩散性肿胀(visalpa)、脓肿(vidradha)、风病(vātīkāra)与毛发所生之病(vālaja)的毒,以及所有消耗病的毒,我已从你身上驱除。
9.13.21
पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः ।
अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥ ९.१३.२१ ॥
从你的双脚、膝盖、臀部,从臀部之病(bhaṃsas);从 anūka、arṣaṇī、uṣṇihā 等病,我已消灭了头部的病。
9.13.22
सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः ।
उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥ ९.१३.२२ ॥
那刺穿你头骨与心脏的病,愿升起的太阳以其光芒将其消灭;你已消灭了头部之病,平息了肢体的撕裂之痛。