阿闼婆吠陀 · 颂诗(Sūkta) 9.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.15.1
यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत ।
यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः ॥ ९.१५.१ ॥
伽耶特里立于伽耶特里之上,或三颂之律由三颂之律中凿出,或世界之步置于遮罗底中——知此者已得不死。
9.15.2
गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ ९.१५.२ ॥
以伽耶特里量赞诗,以赞诗量歌咏,以三颂之律量言语;以言语量言语,以两足与四足之律,以音节量七种语言。
9.15.3
जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत् ।
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥ ९.१५.३ ॥
以遮罗底将大海固定于天空;在罗塔安塔拉中四面看见太阳。伽耶特里的三根薪柴被称说;然后以其威严,在伟大中超越。
9.15.4
उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत् ॥ ९.१५.४ ॥
我召唤这头易挤奶的母牛;愿善手的挤奶人挤她的奶。愿萨维特尔为我们激发最好的榨汁;愿燃烧的热乳good地宣告它。
9.15.5
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥ ९.१५.५ ॥
哞叫着,作为婆苏群神财富的女主,渴望小牛,以心而来。愿这不可伤的母牛为双马神献乳;愿她为了大福祉而兴旺。
9.15.6
गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन् मातवा उ ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥ ९.१५.६ ॥
母牛向凝视着她的小牛哞叫;为了母亲,它发出 hiṅ 的声音。舔着嘴唇,朝温热的器皿长鸣,它发出叫声;以乳汁,它出乳。
9.15.7
अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता ।
सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत ॥ ९.१५.७ ॥
这是她呼喊的声音;被它包围的母牛,停留至毁灭之处而长鸣。她以其感知使凡人低伏;化为闪电,她推向圈栏。
9.15.8
अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।
जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥ ९.१५.८ ॥
不躺卧的生灵迅速移动,颤动、坚定,直到居所的中央。死者的生命以自身之力行走;不死者,与凡人同出一源。
9.15.9
विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान ॥ ९.१५.९ ॥
水面上显现的月亮,虽年轻,却被那老者吞下。以其伟大看神的诗之智慧:今日他死去,与昨日相同。
9.15.10
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात् ।
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्ऋतिरा विवेश ॥ ९.१५.१० ॥
造他的人并不认识他;见他的人被他欺骗。他被包裹在母亲的子宫中,在内;多子的尼厘提已经进入其内。
9.15.11
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥ ९.१५.११ ॥
我看见那不坠落的牧者,沿着道路来来往往。他披着相随者与分离者,在诸世界之中反复转动。
9.15.12
द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् ।
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥ ९.१५.१२ ॥
天空是我们的父亲与生育者,此处是肚脐;这伟大的大地是我们的亲属与母亲。在两只朝上的器皿之间是子宫,父亲在女儿之中放入了胎儿。
9.15.13
पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः ।
पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥ ९.१५.१३ ॥
我问你大地的最远尽头;我问公牛与骏马的种子。我问整个世界的肚脐;我问语言的最高虚空。
9.15.14
इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः ।
अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥ ९.१५.१४ ॥
此祭坛是大地的最远尽头;此苏摩是公牛与骏马的种子。此祭祀是整个世界的肚脐;此梵是语言的最高虚空。
9.15.15
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥ ९.१५.१५ ॥
我并不清楚这个“我”究竟是什么;心念紧紧束缚着我,我在暗中行走。只有当宇宙秩序的长子来到我这里,我才获得此言语的一份。
9.15.16
अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥ ९.१५.१६ ॥
向上向下,被其自身的 svadhā 所执,它运行;不死者与有死者同出一源。这两者永恒,分散而扩展,各自远去;彼此相识,却未曾完全相识。
9.15.17
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ ९.१५.१७ ॥
七个半胎是世界之种;它们依方位立于毗湿奴所定的秩序之中。它们以智慧与心意而为明哲,遍在四方,周行于一切之处。
9.15.18
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥ ९.१५.१८ ॥
在 ṛc 的不灭音节中,在至高的虚空里,诸神皆安住其上。不知它的人,能用 ṛc 做什么呢?知晓它的人,才在此聚坐在一起。
9.15.19
ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत् ।
त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥ ९.१५.१९ ॥
以量度安排 ṛc 之足,以半首 ṛc 他们造成了震颤的宇宙。三足梵,形态众多,独立而立;借它,四方得以生存。
9.15.20
सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।
अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥ ९.१५.२० ॥
愿你因良好的牧草而真正蒙福,好让我们也蒙福。啊,不可伤害者,时时吃草,行走之际饮用清水。
9.15.21
गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥ ९.१५.२१ ॥
母牛测量并塑造了水;她成为一足、二足、四足、八足、九足,成为世界的千音节行;大海从她之上倾泻而出。
9.15.22
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥ ९.१५.२२ ॥
黑道的、赤褐色的、羽翼美好的鸟儿,披着水飞向天空;从秩序的座位上,他们环绕了他;然后用酥油浸湿了大地。
9.15.23
अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति ॥ ९.१५.२३ ॥
无足者先出现于有足者之中;啊,米特拉与婆楼那,除你们二者外,谁知道此事?胎儿承载重负;它充盈真理(ṛta),遏止虚妄。
9.15.24
विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः ।
विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥ ९.१५.२४ ॥
毗罗吉是语言,毗罗吉是大地,毗罗吉是虚空,毗罗吉是生主;毗罗吉作为死亡成为萨提亚神众的至上王;愿过去与未来都在他的掌控之下;愿他使我的过去与未来也归于他的掌控。
9.15.25
शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥ ९.१५.२५ ॥
这强大的烟雾,我从远处望见,从расходящейся地区的彼岸与此岸;英雄们烹煮了公牛与斑点母牛;那些便是最初的律法。
9.15.26
त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥ ९.१५.२६ ॥
三位长发者依时节显现;一年之中,其中一位播种。另一位以其神力观照整个世界,而那唯一光辉的形体不可见。
9.15.27
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ ९.१५.२७ ॥
言语有四个有量的步;智慧的婆罗门知道它们。三步隐藏于洞中,不动;言语的第四步,人们说出。
9.15.28
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥ ९.१५.२८ ॥
人们称他为因陀罗、弥多罗、伐楼那、阿耆尼;他也是天界的善翼金翅鸟(迦卢特曼)。智者以多种方式谈论那唯一的存在;称他为阿耆尼、阎摩、摩多利斯文。