Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 9.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.2.1

सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।
नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण ॥ ९.२.१ ॥

我以酥油、祭品与清油敬奉爱神迦摩,他是摧毁敌人的公牛。受赞颂的你,以你伟大的力量使我的敌人俯首,踩于我足下。

9.2.2

यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति ।
तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥ ९.२.२ ॥

凡我心所不喜、眼所不悦、噬咬我、令我不乐的,那恶梦我将其送回敌人身上。赞颂爱神迦摩之后,愿我起身将其穿破。

9.2.3

दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् ।
उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात् ॥ ९.२.३ ॥

啊迦摩,将恶梦与罪过,无子嗣、堕入黑暗、幽暗无尽的厄运,你以威猛为主宰,送回其身上;愿那伤害我们的人得到照料。

9.2.4

नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः ।
तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥ ९.२.४ ॥

啊迦摩,驱逐吧;把因欲念而返回者推向前去。愿我的敌人离去。愿被驱逐者的黑暗坠落于下。啊阿耆尼,将他们的居所焚尽。

9.2.5

सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् ।
तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥ ९.२.५ ॥

啊迦摩,她是你的女儿,被称为乳牛,智者称之为光辉之言;愿你以她环绕我的敌人。愿气息、牲畜与生命环绕我周围之人。

9.2.6

कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन ।
अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥ ९.२.६ ॥

凭爱欲、因陀罗、伐楼那、国王与毗湿奴之力,凭萨维德利的推动与阿耆尼的献祭,我驱逐敌人,如稳重之人在水中推船。

9.2.7

अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।
विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥ ९.२.७ ॥

愿监督者、强健而猛烈的欲望,必使我无敌手。愿一切毗湿婆神做我的主护;愿诸神都来应我此召。

9.2.8

इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् ।
कृण्वन्तो मह्यमसपत्नमेव ॥ ९.२.८ ॥

享用这富含酥油的澄清黄油,以爱欲为长,在此欢喜,必使我无敌手。

9.2.9

इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।
तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥ ९.२.९ ॥

因陀罗与阿耆尼,啊欲望,同乘一车,使我的敌人倒伏于地。他们中倒下者的低暗,啊阿耆尼,焚烧他们的居所。

9.2.10

जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।
निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥ ९.२.१० ॥

啊欲望,击杀我那些敌人,将他们投入盲目的黑暗。愿他们尽皆无感、无精气,愿他们哪一天也不得存活。

9.2.11

अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् ।
मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥ ९.२.११ ॥

爱欲(Kāma)杀死了我的敌人,他们为我开辟了广阔的世界与成长的空间。愿四方向我低首;愿六个广阔的region为我带来酥油。

9.2.12

तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात् ।
न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥ ९.२.१२ ॥

愿他们倒悬而漂流,如同断绳的船。被箭矢驱逐者,再无回归之路。

9.2.13

अग्निर्यव इन्द्रो यवः सोमो यवः ।
यवयावानो देवा यवयन्त्वेनम् ॥ ९.२.१३ ॥

阿耆尼是大麦,因陀罗是大麦,苏摩是大麦。愿以大麦驱逐的诸神驱逐此人。

9.2.14

असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् ।
उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥ ९.२.१४ ॥

无英雄之士,被驱逐,为朋友与亲族所憎恶,愿他流浪。大地上的闪电将他击倒;愿你们的猛烈之神杀死敌人。

9.2.15

च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् ।
उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥ ९.२.१५ ॥

这位大者(大地)已倾倒,而闪电不倒;它承载一切雷鸣。愿升起的太阳阿提耶(Āditya),以财富与光辉,强有力地将我的敌人压倒在地。

9.2.16

यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।
तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥ ९.२.१६ ॥

啊,欲望,以你那三重守护的庇护,那生起、展开、不可穿透的梵之甲胄,将我的那些敌人全部围住。愿他们的气息、牲畜与生命都被割断。

9.2.17

येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय ।
तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥ ९.२.१७ ॥

以诸天驱逐阿修罗、因陀罗将达斯尤投入最低黑暗的那力量,正以此,啊欲望,将我的那些敌人远远驱出此世。

9.2.18

यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे ।
तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥ ९.२.१८ ॥

如诸天驱逐阿修罗,因陀罗将达斯尤压入最低的黑暗,啊欲望,你也如此,将我的那些敌人远远驱出此世。

9.2.19

कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥ ९.२.१९ ॥

欲望最先诞生;诸神、祖先与凡人都未能抵达他。因此你永远是年长而伟大的;啊欲望,我的确向你致敬。

9.2.20

यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥ ९.२.२० ॥

天地有多么广阔,水流有多么远,阿耆尼延伸有多么远,你就有多大。因此你永远最为尊贵、最为伟大;迦摩啊,我向你致敬。

9.2.21

यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥ ९.२.२१ ॥

有多少方向、副方向和四散的方位,天空中可见的方位有多少,你就有多大。因此你永远最为尊贵、最为伟大;迦摩啊,我向你致敬。

9.2.22

यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥ ९.२.२२ ॥

有多少蜜蜂、虫子和声音粗哑的生灵,有多少鸟和爬行于树上的生物已经出现,你就有多大。因此你永远最为尊贵、最为伟大;迦摩啊,我向你致敬。

9.2.23

ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥ ९.२.२३ ॥

你比眨眼之物更大,比静立之物更大;迦摩啊,爱欲啊,你甚至比大海更大。因此你永远最为尊贵、最为伟大;迦摩啊,我向你致敬。

9.2.24

न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥ ९.२.२४ ॥

即使是风也无法得到迦摩,火、太阳和月亮也不能。因此你永远最为尊贵、最为伟大;迦摩啊,我向你致敬。

9.2.25

यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे ।
ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥ ९.२.२५ ॥

噫,欲神!以你那吉祥、善良的形体,凡你所选择的便成为真实;就以此进入我们之中,把邪恶的念头驱赶到别处去。