Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 9.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.3.1

उपमितां प्रतिमितामथो परिमितामुत ।
शालाया विश्ववाराया नद्धानि वि चृतामसि ॥ ९.३.१ ॥

所量定的、相配量定的、完全量定的(束缚)——我们解开一切包容之堂的束缚。

9.3.2

यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः ।
बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् ॥ ९.३.२ ॥

哦,一切包容者!凡束缚、绳索与结扣加在你身上,我以言语,如布里哈斯帕蒂一般,松解并使其力量瓦解。

9.3.3

आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् ।
परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥ ९.३.३ ॥

我们走近,他切断并使你的结牢固;知晓关节,如以利刃,与因陀罗一同将其解开。

9.3.4

वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।
पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥ ९.३.४ ॥

你的竹竿、缚绳、prāṇāha草与草的,以及两侧的束缚——哦,一切包容者,你的束缚我们解开。

9.3.5

संदंशानां पलदानां परिष्वञ्जल्यस्य च ।
इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥ ९.३.५ ॥

夹具、palada 系扣与环抱之扣的(束缚)——在此,我们解开曼那萨之妻的束缚。

9.3.6

यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् ।
प्र ते तानि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव ॥ ९.३.६ ॥

你内部的那些吊索、束缚,为了欢乐与快感——这些我们都从你身上解开。曼那萨之妻,愿你吉祥;为了我们的身体,保持昂然挺立。

9.3.7

हविर्धानमग्निशालं पत्नीनां सदनं सदः ।
सदो देवानामसि देवि शाले ॥ ९.३.७ ॥

你是供物车、火堂,是众妻的居所与座位;天女沙罗啊,你是诸神的座位。

9.3.8

अक्षुमोपशं विततं सहस्राक्षं विषूवति ।
अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥ ९.३.८ ॥

凡在阿叉玛、乌帕沙、展开者、千眼及维舒伐蒂中被缚而固定者,我们以梵咒解开。

9.3.9

यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् ।
उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥ ९.३.९ ॥

凡接纳你、并以你为量者,人啊,摩那之妻,愿他二人寿至老迈。

9.3.10

अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता ।
यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥ ९.३.१० ॥

愿它在彼处到达此人,牢固地捆缚、妥善地准备。你的每一肢、每一节,我们都逐一解开。

9.3.11

यस्त्वा शाले निमिमाय संजभार वनस्पतीन् ।
प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥ ९.३.११ ॥

量度你、聚集树木的人,啊,殿堂;为了子嗣,至尊生主波罗阇帕提造了你。

9.3.12

नमस्तस्मै नमो दात्रे शालापतये च कृण्मः ।
नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥ ९.३.१२ ॥

向他致敬,向施予者致敬;我们向殿堂之主致敬。向前行的火神致敬;向你和那人致敬。

9.3.13

गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।
विजावति प्रजावति वि ते पाशांश्चृतामसि ॥ ९.३.१३ ॥

向牛和马致敬,向在厅堂中诞生者致敬。哦,多子多孙的厅堂,我解开你的束缚。

9.3.14

अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।
विजावति प्रजावति वि ते पाशांश्चृतामसि ॥ ९.३.१४ ॥

你持有火,与牲畜一同庇护众人。哦,多子多孙的厅堂,我解开你的束缚。

9.3.15

अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।
यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः ।
तेन शालां प्रति गृह्णामि तस्मै ॥ ९.३.१५ ॥

以天与地之间的广阔,我为你接纳此厅堂。那作为气界之量的虚空,我将它化为宝藏的腹腔。以此我为他接纳此厅堂。

9.3.16

ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता ।
विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥ ९.३.१६ ॥

充满力量与乳汁,建立并测量于大地之上,承载一切食物。哦,厅堂,不要伤害接纳你的人。

9.3.17

तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ।
मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥ ९.३.१७ ॥

以草覆盖,披着席子,如同黑夜,你是安置世界的厅堂。量度于大地之上,你如母象般以足站立。

9.3.18

इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् ।
वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥ ९.३.१८ ॥

我解开你伊达的束缚,如同覆盖被缚者的人将其揭开。瓦鲁那所共同弯曲的,愿密特拉在清晨将其舒展。

9.3.19

ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् ।
इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥ ९.३.१९ ॥

以圣言建成此室,由诗人所建并度量。愿因陀罗与阿耆尼守护此室,守护不死中的吉祥之座。

9.3.20

कुलायेऽधि कुलायं कोशे कोशः समुब्जितः ।
तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥ ९.३.२० ॥

巢上有巢,器上有器,相互联结。在那里凡人诞生,由此一切世界得以生成。

9.3.21

या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।
अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥ ९.३.२१ ॥

以二翼、四翼、六翼所建之室;八翼、十翼之室,度量之妻。我如阿耆尼在胎中而卧。

9.3.22

प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् ।
अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥ ९.३.२२ ॥

我面向西方,朝向你而前行,啊,不伤害的室。阿耆尼确在内,诸水亦在;乃是秩序的首门。

9.3.23

इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।
गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥ ९.३.२३ ॥

这些水我取来,无消耗之病,能灭除消耗之疾。我与不死及阿耆尼一同,安坐于家室之侧。

9.3.24

मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव ।
वधूमिव त्वा शाले यत्रकामं भरामसि ॥ ९.३.२४ ॥

勿向我们投下绳索;愿重担变轻,不要沉重。如同新妇,啊,室,我们随意将你带往所欲之处。

9.3.25

प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥ ९.३.२५ ॥

向东方之厅的威严致敬,斯瓦哈;向诸神斯瓦哈,向当受斯瓦哈者斯瓦哈。

9.3.26

दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥ ९.३.२६ ॥

向南方之厅的威严致敬,斯瓦哈;向诸神斯瓦哈,向当受斯瓦哈者斯瓦哈。

9.3.27

प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥ ९.३.२७ ॥

向西方之厅的威严致敬,斯瓦哈;向诸神斯瓦哈,向当受斯瓦哈者斯瓦哈。

9.3.28

उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥ ९.३.२८ ॥

向北方之厅的威严致敬,斯瓦哈;向诸神斯瓦哈,向当受斯瓦哈者斯瓦哈。

9.3.29

ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥ ९.३.२९ ॥

向稳固方之厅的威严致敬,斯瓦哈;向诸神斯瓦哈,向当受斯瓦哈者斯瓦哈。

9.3.30

ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥ ९.३.३० ॥

向上方之厅的威严致敬,斯瓦哈;向诸神斯瓦哈,向当受斯瓦哈者斯瓦哈。

9.3.31

दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥ ९.३.३१ ॥

向每一方的厅堂致敬,向其威严致敬。娑婆诃,献给诸神;娑婆诃,献给值得召请者。