阿闼婆吠陀 · 颂诗(Sūkta) 9.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.4.1
साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् ।
भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥ ९.४.१ ॥
这头力大千倍、满载乳汁的公牛,在其乳房中承载万象。它向施予者与祭祀者倾洒吉祥,布哈斯帕蒂的那头牛类公牛拉开了丝线。
9.4.2
अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।
पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥ ९.४.२ ॥
最先成为水之形象的那位,为一切之主,如神圣大地般属于万物;他是牛犊之父,也是不可杀之牛的主人。愿他也使我们在千倍的滋养中安立。
9.4.3
पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।
तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥ ९.४.३ ॥
这雄性、怀孕、年老、满载乳汁的公牛承载着财富的水器。愿被献祭的知生者阿耆尼沿着诸神之路将其送至因陀罗处。
9.4.4
पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥ ९.४.४ ॥
他是不可杀之牛的牛犊之父与主,也是伟大的嘎嘎拉之父。牛犊、胎膜、挤奶器、甘露、凝乳与酥油——那便是富足者的精液。
9.4.5
देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।
सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥ ९.४.५ ॥
这是诸神的份额,一层束缚的外衣;它是水、草木与酥油的精华。当他的身躯化为巨大的石头(阿德里)时,帝释选择了苏摩的食用之分。
9.4.6
सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम् ।
शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः ॥ ९.४.६ ॥
你承载着盛满苏摩的器皿;特瓦什特里是诸形与牲畜的生育者。愿此处这些对你吉祥而多产。啊,斧(svadhiti),把那边的给我们。
9.4.7
आज्यं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।
इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥ ९.४.७ ॥
他承载澄清黄油;酥油是他的精液。人们称他为千倍滋养者与祭祀。愿身披因陀罗之形、由诸神所赐的公牛(Ṛṣabha)吉祥地来到我们这里。
9.4.8
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत् ।
बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥ ९.४.८ ॥
因陀罗的力量、伐楼那的双臂、双马童的双肩、风神们的这一驼峰。坚定的智者、诗人与思想者称他为聚合的布里哈斯帕提。
9.4.9
दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।
सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥ ९.४.९ ॥
你使神圣的族群繁衍,富有乳汁;人们称你为因陀罗和娑罗私婆(Sarasvān)。向火中献上公牛(Ṛṣabha)的婆罗门,便施予千份,他是单口的施主。
9.4.10
बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।
अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥ ९.४.१० ॥
布里哈斯帕提与萨维特里赋予你活力;你的本性自特瓦什特里与风神处从四方带来。我以心意在虚空中向你献祭;愿天与地都在你的圣草之上。
9.4.11
य इन्द्र इव देवेषु गोष्वेति विवावदत् ।
तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥ ९.४.११ ॥
那在诸神与牛群之中如因陀罗般咆哮而行者——愿梵天以吉祥之语好好赞颂那公牛的肢体。
9.4.12
पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।
अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥ ९.४.१२ ॥
两侧属于阿奴玛提,两后部属于婆伽;关于两膝,密多罗说:“这两者唯独属于我。”
9.4.13
भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।
पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥ ९.४.१३ ॥
臀部属于阿底提耶们,髋部属于布里哈斯帕提;尾巴属于风神,他以尾摇动草药。
9.4.14
गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।
उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥ ९.४.१४ ॥
肛门属于西尼瓦利;他们谈到日神之女的皮肤;当他们塑造公牛时,他们谈到那起立者的双足。
9.4.15
क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।
देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥ ९.४.१५ ॥
胸部属于迦弥尚萨;当诸神聚集,共同塑造公牛时,苏摩之杯被置于其中。
9.4.16
ते कुष्ठिकाः सरमायै कूर्मेभ्यो अदधुः शफान् ।
ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन् ॥ ९.४.१६ ॥
那些库什提迦把蹄子给了萨拉玛与龟;把它的乳房留给了虫与犬旋。
9.4.17
शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥ ९.४.१७ ॥
他以角刺杀罗刹,以目除去颤抖之病(avartí),以耳闻听吉祥。他是不可杀戮之牛群的主人。
9.4.18
शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।
जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥ ९.४.१८ ॥
行百次祭祀者,火不伤害他;诸神皆喜悦于他——那向火中奉献公牛的婆罗门。
9.4.19
ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।
पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥ ९.४.१९ ॥
将公牛施予婆罗门,他使自己的心更加高尚;在自家牛栏中,他看见不可杀戮之牛的繁盛。
9.4.20
गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।
तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥ ९.४.२० ॥
愿有牛群,愿有子孙,愿身体有力;愿诸神为施予公牛者认可这一切。
9.4.21
अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।
अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥ ९.४.२१ ॥
愿这饮用苏摩的因陀罗赐予我们有灵性的财富;愿他从天外挤出那易挤、常有牛犊的母牛,那顺服而智慧的。
9.4.22
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।
आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥ ९.४.२२ ॥
愿那赤黄色形、赋予天空生命力、属于因陀罗、具足一切形态的力量来到我们这里;赐予我们长寿、子孙与财富,并以滋养与我们相连。
9.4.23
उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।
उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥ ९.४.२३ ॥
近前来吧,使合之者;在此牛栏中与我们相合。公牛之精液近我们而来;因陀罗啊,愿你的力量也近来。
9.4.24
एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।
मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥ ९.४.२४ ॥
我们在此为你们安置这头年轻的公牛;与他嬉戏,跟随那些不育的母牛前行。诸吉祥者啊,自生以来不要离弃我们;带着财富与滋养与我们同在。