Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 9.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.5.1

आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन् ।
तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥ ९.५.१ ॥

引导他,抓住他;让他也走向善行者的世界,且有知识。越过种种巨大的黑暗之后,愿不生之羊登上第三重天。

9.5.2

इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।
ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥ ९.५.२ ॥

作为因陀罗的份额,我在此祭祀中为施主引导你这位智者。那些憎恨我们的人,追在他们之后将他们抓住;无罪施主的勇士们。

9.5.3

प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।
तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥ ९.५.३ ॥

洗净双足,洗去他所作的恶行。以纯净之蹄,有知地向前迈进。越过种种黑暗,明明而见,愿不生之羊登上第三重天。

9.5.4

अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।
माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥ ९.५.४ ॥

剥去这黑色的皮,诸民啊,逐节迅速进行;不要为此(以刀)而自傲,不要想着对付害人者。整理他的关节,将他安置在第三重天。

9.5.5

ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।
पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥ ९.५.५ ॥

以一颂将罐置于火上;洒水,将他放下。与火一起,屠者们将他围放;煮熟者愿往善行者世界所在之处。

9.5.6

उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।
अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥ ९.५.६ ॥

若你从此处升起,未曾受煎熬,超越热锅,升至第三重天;你由火而成为火。征服这光明的世界吧。

9.5.7

अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।
अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥ ९.५.७ ॥

山羊即是阿耆尼;山羊被称为光明。活着时应将山羊施予婆罗门,人们如此说。山羊驱散远处的黑暗;在此世以信心施予者。

9.5.8

पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।
ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥ ९.५.८ ॥

愿般遮陀那以五种方式前进,向上登至三光。前往祭祀者与善人之中;升至第三重天并在那里投靠。

9.5.9

अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।
पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥ ९.५.९ ॥

啊山羊,升至善人的世界。如沙罗跋一般越过险阻。给婆罗门的般遮陀那以满足使施者得满足。

9.5.10

अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।
पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥ ९.५.१० ॥

山羊将施者安置于天之背上,即三天、三界、三背之境。给婆罗门的般遮陀那,即是一切形相、满足愿望的唯一乳牛。

9.5.11

एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।
अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥ ९.५.११ ॥

诸祖先啊,这是你们的第三道光:五饭供物与山羊献给婆罗门。山羊将黑暗远远驱离此世,由怀有信心者所施。

9.5.12

ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।
स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥ ९.५.१२ ॥

他渴望那些行祭与行善者的世界,将五饭供物与山羊施给婆罗门。愿他获得遍在,征服此世;愿他对我们吉祥并被接受。

9.5.13

अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित् ।
इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥ ९.५.१३ ॥

确实,山羊生于阿耆尼之焰——灵感者中的灵感者,力量中的智者。愿诸神依时节安排一切以祭祀、善业、圆满及 vaṣaṭ 所献之物。

9.5.14

अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।
तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥ ९.५.१४ ॥

也应施舍未织的布、黄金与祭礼酬金;如此,人便完全获得天上与地上的诸世界。

9.5.15

एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।
स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥ ९.५.१५ ॥

愿这些如苏摩般的神圣之流、以酥为背、滴落蜂蜜者,流向你,啊山羊;愿它们在天之背、七光者之上支撑大地与天空。

9.5.16

अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।
तं लोकं पुण्यं प्र ज्ञेषम् ॥ ९.५.१६ ॥

你是不生的阿阇,你是升往天界者;借你,安吉罗娑得到了那个世界。愿我善知那清净之界。

9.5.17

येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥ ९.५.१७ ॥

借你所载的千数,借你,阿耆尼,所拥有的一切财富,借此将这祭祀带给我们,使我们在诸神之中升往天界。

9.5.18

अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः ।
तेन लोकान्त्सूर्यवतो जयेम ॥ ९.५.१८ ॥

熟成的阿阇安置于天界;五饭者驱逐涅利底。愿借此我们征服拥有太阳的诸界。

9.5.19

यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।
सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥ ९.५.१९ ॥

我置于婆罗门者,置于民众者,阿阇的饭食之滴——这一切,阿耆尼啊,请在善行之界、诸道交汇处使我们知晓。

9.5.20

अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।
अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥ ९.५.२० ॥

阿耆尼啊,阿阇自己展开了这一切。他的胸膛成为此天,背为虚空,中为诸方,两侧为两海,腹为。

9.5.21

सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट् शिरः ।
एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥ ९.५.२१ ॥

真理与天道是他的双目;一切即真理;信是气息,广大者是头。此确为无量之祭祀——五饭之阿阇。

9.5.22

अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.२२ ॥

施予以五份米饭为供品、以献祭酬金为光明的山羊者,便获得无量的祭祀,并得到无量的世界。

9.5.23

नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत् ।
सर्वमेनं समादायेदमिदं प्र वेशयेत् ॥ ९.५.२३ ॥

不可折断其骨,也不可挤出其髓。应完整取来,口说“此,此”,使之入内。

9.5.24

इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।
इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.२४ ॥

“此,此”便是其形;以此使其与诸神相合。施予以五份米饭为供品、以献祭酬金为光明的山羊者,为他挤出广大的食物与活力。

9.5.25

पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.२५ ॥

五件金饰、五件新衣,以及满足心愿的五头乳牛,都归于他。施予以五份米饭为供品、以献祭酬金为光明的山羊者。

9.5.26

पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।
स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.२६ ॥

五件金饰成为他的光明,衣服成为身体的铠甲。施予以五份米饭为供品、以献祭酬金为光明的山羊者,得到天界。

9.5.27

या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।
पञ्चौदनं च तावजं ददातो न वि योषतः ॥ ९.५.२७ ॥

先已得一夫,后又得另一夫的女子,她与其夫应当施予以五份米饭为供品的山羊;他们不会分离。

9.5.28

समानलोको भवति पुनर्भुवापरः पतिः ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.२८ ॥

施予以五份米饭、以布施为光明的山羊者,与后来的再嫁丈夫同享一个世界。

9.5.29

अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।
वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥ ९.५.२९ ॥

按次序施予带犊之母牛、挽车牛、坐垫、衣服与黄金者,便往至最高天界。

9.5.30

आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।
जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥ ९.५.३० ॥

自身、父、子、孙、祖父、妻、生我之母与母——凡是亲爱者,我都召唤。

9.5.31

यो वै नैदाघं नामर्तुं वेद ।
एष वै नैदाघो नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.३१ ॥

知晓名为夏热之季者——此即夏季,即五饭之山羊。他直接焚烧不喜之敌的繁荣,而自己变得兴旺。施予以五份米饭、以布施为光明之山羊者。

9.5.32

यो वै कुर्वन्तं नामर्तुं वेद ।
कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वै कुर्वन् नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.३२ ॥

知晓名为“作”之时令者,以每一行为夺取不喜之敌的繁荣。此即“作”之时令,即五饭之山羊。它焚尽不喜之敌的繁荣,并以自身而成为其自身。施予以布施为光明之五饭山羊者。

9.5.33

यो वै संयन्तं नामर्तुं वेद ।
संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वै संयन् नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.३३ ॥

知晓名为“合”之时令者,以每一合聚而夺取不喜之敌的繁荣。此即“合”之时令,即五饭之山羊。它焚尽不喜之敌的繁荣,并以自身而成为其自身。施予以布施为光明之五饭山羊者。

9.5.34

यो वै पिन्वन्तं नामर्तुं वेद ।
पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वै पिन्वन् नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.३४ ॥

知晓名为“膨胀”之时节者,借每一次膨胀,取得不爱之敌的福祉。此膨胀之时节即五饭山羊。它彻底焚毁不爱之敌的福祉,而他自己便成为其本身。施予以布施为光明的五饭山羊者。

9.5.35

यो वा उद्यन्तं नामर्तुं वेद ।
उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.३५ ॥

知晓名为“升起”之时节者,借每一次升起,取得不爱之敌的福祉。此升起之时节即五饭山羊。它彻底焚毁不爱之敌的福祉,而他自己便成为其本身。施予以布施为光明的五饭山羊者。

9.5.36

यो वा अभिभुवं नामर्तुं वेद ।
अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वा अभिभूर्नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ ९.५.३६ ॥

谁知道名为“征服者”的时令,它一再升起,便取得那不可爱之敌人的光荣。此即名为“征服者”的时令,即那五饭之山羊。它直接烧尽不可爱之敌人的光荣,而他自己也成为如此。凡布施以祭礼酬金为光明之五饭山羊者。

9.5.37

अजं च पचत पञ्च चौदनान् ।
सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु त एतम् ॥ ९.५.३७ ॥

烹煮山羊与五饭。愿一切方位,同心并行,连同中间之地,接受此物。

9.5.38

तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥ ९.५.३८ ॥

愿它们护佑你。此为你之物(山羊)。我向它们献上这酥油祭品。