阿闼婆吠陀 · 颂诗(Sūkta) 9.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.6.1
यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥ ९.६.१ ॥
能直接知晓梵者:其支节为何,其材料为梨俱颂,其和唱(ānūkya)为何。
9.6.2
सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥ ९.६.२ ॥
其毛为娑摩,其心称为夜柔;铺草与薪柴即是祭品(havis)。
9.6.3
यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥ ९.६.३ ॥
当客主(atithipati)看视客人,凝视诸神的祭场(devayajana)时。
9.6.4
यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥ ९.६.४ ॥
当他致辞、入于受戒(dīkṣā)、乞求水时,便引导诸水向前。
9.6.5
या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥ ९.६.५ ॥
祭祀中被引导向前的诸水,即是这些水。
9.6.6
यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥ ९.६.६ ॥
当人们奉上供水(tarpaṇa),并系缚阿格尼-苏摩的牺牲之畜时,那便是那个。
9.6.7
यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥ ९.६.७ ॥
当他们布置住所(āvasatha)时,他们实际上是在布置萨达斯(sadas)与哈维尔丹那(havirdhāna)。
9.6.8
यदुपस्तृणन्ति बर्हिरेव तत् ॥ ९.६.८ ॥
当他们在下方铺设草席时,那实际上就是神圣的巴尔希斯草(barhis)。
9.6.9
यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥ ९.६.९ ॥
当他们拿来上方的覆盖物时,那实际上就是天界;借此他得到那个世界。
9.6.10
यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥ ९.६.१० ॥
当他们拿来枕垫(kaśipūpabarhaṇa)时,那些实际上就是环绕的木棍(paridhi)。
9.6.11
यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत् ॥ ९.६.११ ॥
当他们拿来眼膏与涂油时,那实际上就是澄清黄油(ājya)。
9.6.12
यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोडाशावेव तौ ॥ ९.६.१२ ॥
当他们在分食(pariveṣa)之前拿来美食时,那二者实际上就是祭饼(puroḍāśa)。
9.6.13
यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥ ९.६.१३ ॥
他们所召唤的,是为食物而备的;也正是为祭品(哈维斯)而备的那一样,他们也以此召唤。
9.6.14
ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥ ९.६.१४ ॥
所播种的稻米与大麦,正是那些份额。
9.6.15
यान्युलूखलमुसलानि ग्रावाण एव ते ॥ ९.६.१५ ॥
臼与杵,正是那些压榨石(格拉瓦)。
9.6.16
शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥ ९.६.१६ ॥
簸箕是滤器,糠皮是滤布,压榨的水即是水。
9.6.17
स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥ ९.६.१७ ॥
勺(斯鲁克)、杓(达尔维)、搅棒、搅拌器、木槽与罐、瓮,以及风神之器皿——这正是黑羚羊皮。
9.6.18
यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥ ९.६.१८ ॥
这正是祭主的婆罗门:客人之主在看着要端来的供品时,说“再多些这个,现在这里!”,他便如此行事。
9.6.19
यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥ ९.६.१९ ॥
当他说“再拿来”时,他便借此使气息本身更加充盈。
9.6.20
उप हरति हवींष्या सादयति ॥ ९.६.२० ॥
他将祭品移近并安放。
9.6.21
तेषामासन्नानामतिथिरात्मन् जुहोति ॥ ९.६.२१ ॥
客人从近旁的那些祭品中,向自身之内献上供奉。
9.6.22
स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥ ९.६.२२ ॥
以勺(sruva)、以手,于气息中,于祭柱旁,伴随“斯鲁克”与“瓦沙特”之声。
9.6.23
एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥ ९.६.२३ ॥
这些受欢迎与不受欢迎的祭司,因为是客人,引导人前往天界。
9.6.24
स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥ ९.६.२४ ॥
知此道者,不应怀着憎恨而食,不应食憎恨者之食,也不应食被追问者或追问者之食。
9.6.25
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥ ९.६.२५ ॥
凡他们所食之食者,此人即已将罪恶全然吞尽。
9.6.26
सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥ ९.६.२६ ॥
凡他们不食其食者,此人之罪尚未被吞尽。
9.6.27
सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥ ९.६.२७ ॥
献祭之人常备压石相连、湿滤器具、广大的祭礼(vitata-adhvara),并携来祭祀的心愿。
9.6.28
प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥ ९.६.२८ ॥
献祭者之祭,属于生主(Prajāpati),且广大展开(vitata)。
9.6.29
प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥ ९.६.२९ ॥
献祭之人,追随生主(Prajāpati)的步伐(vikrama)。
9.6.30
योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥ ९.६.३० ॥
属于客人者为阿呼伐尼耶火;在家中者为家主火;烹煮所用者为南火(Dakṣiṇāgni)。
9.6.31
इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ९.६.३१ ॥
先于客人而食者,享有家中的祭祀与功德。
9.6.32
पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ९.६.३२ ॥
先于客人而食者,享有家中的乳汁与精华。
9.6.33
ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ९.६.३३ ॥
先于客人而食者,享有家中的力量与兴旺。
9.6.34
प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ९.६.३४ ॥
先于客人而食者,享有家中的子嗣与牲畜。
9.6.35
कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ९.६.३५ ॥
先于客人而食者,享有家中的名声与荣耀。
9.6.36
श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ९.६.३६ ॥
先于客人而食者,享有家中的吉祥与和睦。
9.6.37
एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात् ॥ ९.६.३७ ॥
实则客人即是通晓吠陀的学者(śrotriya);因此不应在他之前进食。
9.6.38
अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥ ९.६.३८ ॥
待客人吃过之后,方可自食;这是誓戒,使祭祀自身圆满且不中断。
9.6.39
एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात् ॥ ९.६.३९ ॥
adhigava 的乳或肉确实最为美味;但即便如此,也不应在客人之前食用。
9.6.40
स य एवं विद्वान् क्षीरमुपसिच्योपहरति ।
यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ९.६.४० ॥
知此者以乳注入而供奉,他由此所得,与行毕阿格尼什托马祭而得以昌盛者所得相等。
9.6.41
स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ।
यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ९.६.४१ ॥
知此者以酥注入而供奉,他由此所得,与行毕阿提拉特拉祭而得以昌盛者所得相等。
9.6.42
स य एवं विद्वान् मधूपसिच्योपहरति ।
यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ९.६.४२ ॥
知此者以蜜注入而供奉,他由此所得,与行毕萨特拉-萨季亚祭而得以昌盛者所得相等。
9.6.43
स य एवं विद्वान् मांसमुपसिच्योपहरति ।
यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ९.६.४३ ॥
知此者以洒肉而献之,所得与以十二日祭祀、以兴旺之供物所得相等,他以此所得亦如此。
9.6.44
स य एवं विद्वान् उदकमुपसिच्योपहरति ।
प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥ ९.६.४४ ॥
知此者以洒水而献之,即往求子嗣繁衍,得以稳固立足,并为子孙所爱;如此知而洒献者即如是。
9.6.45
तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ।
बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥ ९.६.४५ ॥
为其,晨曦发“hiṅ”之声,萨维特里颂赞;布里哈斯帕蒂以力高唱,特瓦什特以兴旺回报;众神行结尾的“nidhana”。
9.6.46
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ९.६.४६ ॥
于知此者,结尾之歌化为兴旺、子嗣与牲畜。
9.6.47
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ।
मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ९.६.४७ ॥
为其,升起的太阳发“hiṅ”之声,桑伽瓦颂赞;正午高唱,午后回报;落日时行“nidhana”。于知此者,结尾之歌化为兴旺、子嗣与牲畜。
9.6.48
तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ।
विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ९.६.४८ ॥
为他,化为云,他作哼声;雷鸣而颂赞;闪耀而带回;降雨而歌唱,承受终止之歌。终止之歌属于财富、子嗣与牲畜,属于如此知晓者。
9.6.49
अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति ।
उप हरति प्रति हरत्युच्छिष्टं निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ९.६.४९ ॥
他看望客人,作哼声,向他们致辞,赞颂,求水,歌唱。带来近处,带回——剩余之物,终止之歌。终止之歌属于财富、子嗣与牲畜,属于如此知晓者。
9.6.50
यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत् ॥ ९.६.५० ॥
凡呼唤侍者、使其听闻者,即是此也。
9.6.51
यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत् ॥ ९.६.५१ ॥
凡应答、使应答闻于人者,即是此也。
9.6.52
यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥ ९.६.५२ ॥
手持器皿、前后献食而来者,即是杯祭司。
9.6.53
तेषां न कश्चनाहोता ॥ ९.६.५३ ॥
其中无一非呼请者。
9.6.54
यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥ ९.६.५४ ॥
主人在款待宾客之后回家时,便如同走近了祭祀终结的沐浴(阿婆芙利陀)。
9.6.55
यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत् ॥ ९.६.५५ ॥
当他分发达克希纳(供养)、继续行仪时,他便起身将其完成。
9.6.56
स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥ ९.६.५६ ॥
被邀请后,他便在大地上进食;因被邀请,大地上那具有万般形态之物也归属于他。
9.6.57
स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥ ९.६.५७ ॥
被邀请后,他便在虚空中进食;因被邀请,天上那具有万般形态之物也归属于他。
9.6.58
स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥ ९.६.५८ ॥
被邀请后,他便在天上进食;因被邀请,天上那具有万般形态之物也归属于他。
9.6.59
स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥ ९.६.५९ ॥
被邀请后,他便在诸神之中进食;因被邀请,天上那具有万般形态之物也归属于他。
9.6.60
स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥ ९.६.६० ॥
他在诸世界中受邀而食;受邀,于天上那具有一切形相者之中。
9.6.61
स उपहूत उपहूतः ॥ ९.६.६१ ॥
他受邀,受邀。
9.6.62
आप्नोतीमं लोकमाप्नोत्यमुम् ॥ ९.६.६२ ॥
他得此世界,也得彼世界。
9.6.63
ज्योतिष्मतो लोकान् जयति य एवं वेद ॥ ९.६.६३ ॥
如此知者,征服光明的世界。