摩诃婆罗多 · 章 1.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.10.1
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह ।
तत्र मे समयो घोर आत्मनोरग वै कृतः ॥ १.१०.१ ॥
我那与我生命一样珍贵的妻子被一条蛇咬伤了。于是,蛇啊,我立下了一个可怕的誓言。
1.10.2
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत ।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे ॥ १.१०.२ ॥
无论我看到哪条蛇,我都会将其杀死;因此我想杀你,不过今日你将得以保全性命。
1.10.3
अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान् ।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥ १.१०.३ ॥
婆罗门啊,此处咬人的是别的蛇;你不该伤害只带有蛇气味的雕豪蛇(ḍuṇḍubha)。
1.10.4
एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान् ।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥ १.१०.४ ॥
虽然伤害与苦难同属一类,但各类生灵的本性与快乐各不相同;你既知法,便不该伤害雕豪蛇(ḍuṇḍubha)。
1.10.5
इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा ।
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम् ॥ १.१०.५ ॥
如来听完这条雕豪蛇的话,鲁如便没有杀它,因为他把这个惊恐的生灵当作了一位仙人。
1.10.6
उवाच चैनं भगवान्रुरुः संशमयन्निव ।
केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥ १.१०.६ ॥
尊者鲁如仿佛要安抚他,对他说:“蛇啊,你因何缘故变成了这副模样?你是谁?请告诉我。”
1.10.7
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥ १.१०.७ ॥
我从前是名叫茹茹的仙人,有千足;那同一个我因婆罗门的诅咒而变成了蛇身。
1.10.8
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम ।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि ॥ १.१०.८ ॥
那愤怒的婆罗门因何缘故诅咒你,蛇中之最?你将以此身存在多久?