Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.100

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.100.1

अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी ।
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम् ॥ १.१००.१ ॥

そのとき空中から、姿なき声がドゥフシャンタに語りかけた。彼は祭官、家司祭、師、大臣たちに囲まれていた。

1.100.2

माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः ।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥ १.१००.२ ॥

母はただ鞴にすぎない。息子は父のものである、父から生まれたのだから。ドゥフシャンタの子を養え。シャクンタラーは真実を語った。

1.100.3

सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः ।
आत्मा चैव सुतो नाम तेनैव तव पौरव ॥ १.१००.३ ॥

息子はあらゆる肢体の肢体から直接生まれる。息子はそれ自体がアートマンと呼ばれる。ゆえに、プルの末裔よ、彼はあなたのものである。

1.100.4

आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम् ।
अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम् ॥ १.१००.४ ॥

自らの身によって授けられたこの息子を守れ。他を想わぬシャクンタラーを待て。シャクンタラーを軽んじてはならない。

1.100.5

स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः ।
मासि मासि रजो ह्यासां दुरितान्यपकर्षति ॥ १.१००.५ ॥

ドゥフシャンタよ、これは法に即した女性の比類なき清浄である。毎月の月経が彼女たちの罪を取り除く。

1.100.6

ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः ।
आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम् ॥ १.१००.६ ॥

そのとき、すべての存在が四方から彼に大声で告げた。「これはあなたの身体から授けられたもの。シャクンタラーを軽んじてはならない。」

1.100.7

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १.१००.७ ॥

人の王よ、種子を担う息子がヤマの館の滅びからあなたを引き上げる。あなたもまたこの胎児の担い手である。シャクンタラーは真実を語った。

1.100.8

पतिर्जायां प्रविशति स तस्यां जायते पुनः ।
अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम् ॥ १.१००.८ ॥

夫は妻に入り、彼女の中で再び生まれる。これは二人が互いに分かち合う本性である。シャクンタラーを侮ってはならない。

1.100.9

जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम् ।
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप ॥ १.१००.९ ॥

妻は自分の肢体から二つに造られた息子を生む。ゆえに、ドゥシュヤンタよ、王よ、シャクンタラーの息子を養え。

1.100.10

सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम् ।
शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम् ॥ १.१००.१० ॥

これは吉祥の宝であり、捨ててはならない。自分の息子に命を与えて養え——シャクンタラーの偉大なる息子を。ドゥシュヤンタよ、プルの末裔よ、彼を支えよ。

1.100.11

भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि ।
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥ १.१००.११ ॥

あなたは彼を支えるべきである、これは我々の言葉によるものでもあるから。ゆえに、あなたの息子はバラタという名になれ。

1.100.12

भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।
अपरे ये च पूर्वे च भारता इति तेऽभवन् ॥ १.१००.१२ ॥

バラタからバーラティーの栄光が生じ、それによってこの家系はバーラタ族となった。他の者も、昔の者も、バーラタと呼ばれるようになった。

1.100.13

एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः ।
पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे ॥ १.१००.१३ ॥

このように言って、神々と苦行を富とする仙人たちは、「夫に誠実な女」と喜び、花を降らせた。

1.100.14

तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम् ।
सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः ॥ १.१००.१४ ॥

天界の者たちの言葉を聞いて、パウラヴァの王は玉座から立ち上がり、天界の者たちに礼をした。

1.100.15

पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम् ।
शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम् ॥ १.१००.१५ ॥

大いに喜んで、彼は祭官と大臣たちに言った。「あなたがたもこの神の使者の言葉を聞きなさい。」

1.100.16

शृण्वन्तु देवतानां च महर्षीणां च भाषितम् ।
अहमप्येवमेवैनं जानामि सुतमात्मजम् ॥ १.१००.१६ ॥

神々や偉大な聖仙たちの言葉も聞くがよい。私もまた、この者を自らの実の息子として知っている。

1.100.17

यद्यहं वचनादस्या गृह्णीयामिममात्मजम् ।
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥ १.१००.१७ ॥

もし彼女の言葉によってこの息子を受け入れたなら、人々は彼がこのように清浄でないと疑うだろう。

1.100.18

तां विशोध्य तदा राजा देवैः सह महर्षिभिः ।
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥ १.१००.१८ ॥

その時、王は神々と大聖仙たちとともに彼女の潔白を証明し、喜び勇んでその息子を迎え入れた。

1.100.19

ततस्तस्य तदा राजा पितृकर्माणि सर्वशः ।
कारयामास मुदितः प्रीतिमानात्मजस्य ह।
मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे ॥ १.१००.१९ ॥

そこで王は喜び、息子への愛情に満ちて、彼のために祖先の祭礼をすべて行わせた。息子の頭を嗅ぎ、優しく抱きしめた。

1.100.20

सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ।
मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः ॥ १.१००.२० ॥

バラモンたちに敬われ、吟遊詩人たちに讃えられながら、王は息子に触れて生じた無上の喜びを得た。

1.100.21

स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः ।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥ १.१००.२१ ॥

法を知る王は、自分の妻を法にかなって敬い、やさしくこの言葉を彼女に語った。

1.100.22

लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत् ।
कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः ॥ १.१००.२२ ॥

世間に隠れていた我々の結びつきは以前に成されたが、今、人々の前で、その結びつきが再び成された。

1.100.23

तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम् ॥ १.१००.२३ ॥

それゆえ私はこれを、その息子のために語ったのです。

1.100.24

शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम् ।
तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम् ॥ १.१००.२४ ॥

世間は女の性質ゆえに、私との結びつきを疑うかもしれない。だから、その潔白のために私もこれを熟考したのだ。

1.100.25

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः ।
त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम् ॥ १.१००.२५ ॥

バラモン、クシャトリヤ、ヴァイシャ、シュードラ、そして様々な人々は、おお王妃よ、あなたを疑いなく夫に貞節な者と見なすであろう。

1.100.26

पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव ॥ १.१००.२६ ॥

この息子は王国のために選ばれた。あなたは第一の王妃となれ。

1.100.27

यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये ।
प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे ॥ १.१००.२७ ॥

愛しい人よ、怒りのあまりあなたは私に非常に不快なことを言った。広い目の吉祥なる人よ、私はそれをあなたに許す。

1.100.28

अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम् ।
त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः।
क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः ॥ १.१००.२८ ॥

虚偽であれ、不快な言葉であれ、荒い言葉であれ、甚だしい過ちであれ、広い目の人よ、あなたも私の荒い言葉をこのように許すべきである。夫のための忍耐によって、女性は貞節の徳に至るのである。

1.100.29

एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम् ।
अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम् ॥ १.१००.२९ ॥

このように語ると、王仙ドゥフシャンタは、歩みの欠点のない愛しい王妃を奥の間へ導き入れた。

1.100.30

वासोभिरन्नपानैश्च पूजयित्वा तु भारत ।
स मातरमुपस्थाय रथन्तर्यामभाषत ॥ १.१००.३० ॥

バーラタよ、衣服と飲食で彼女を敬った後、彼は母のもとに近づき、ラタンタリーに語りかけた。

1.100.31

मम पुत्रो वने जातस्तव शोकप्रणशनः ।
ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने ॥ १.१००.३१ ॥

森で生まれた私の息子は、あなたの悲しみを消し去る者です。輝ける人よ、今日あなたの孫によって、私は負債から解放されました。

1.100.32

विश्वामित्रसुता चेयं कण्वेन च विवर्धिता ।
स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् ॥ १.१००.३२ ॥

この人はヴィシュヴァーミトラの娘で、カンヴァに育てられました。大いなる幸運の方よ、この人はあなたの嫁シャクンタラーです。どうか彼女に慈悲を示してください。

1.100.33

पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे ।
पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् ॥ १.१००.३३ ॥

息子の言葉を聞いて、彼女は孫を抱きしめた。そこでラタンタリーは、足もとに倒れていたシャクンタラーを抱きしめた。

1.100.34

परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत् ।
उवाच वचनं सत्यं लक्षये लक्षणानि च ॥ १.१००.३४ ॥

両腕で抱きしめ、喜びの涙を流して言った。「真実を言います。私はしるしを見て取っています。」

1.100.35

तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति ।
तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् ॥ १.१००.३५ ॥

広い目の方よ、あなたの息子は転輪王となるでしょう。広い目の方よ、あなたの夫は三界の征服者となりますように。

1.100.36

दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि ।
एवमुक्ता रथ्तर्या परं हर्षमवाप सा ॥ १.१००.३६ ॥

美しい容貌の方よ、あなたは天界の楽しみを得てください。ラタンタリーにこう言われて、彼女は無上の喜びを得た。

1.100.37

शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा ।
ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् ॥ १.१००.३७ ॥

その時王は、聖典に定められた儀礼によって、あらゆる装身具で飾られたシャクンタラーを第一王妃とした。

1.100.38

ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः ।
दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा ॥ १.१००.३८ ॥

王は婆羅門と兵士たちに富を与え、そしてシャクンタラーから生まれたドゥシュヤンタの息子を。

1.100.39

भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ।
भरते भारमावेश्य कृतकृत्योऽभवन्नृपः ॥ १.१००.३९ ॥

彼をバラタと名づけ、太子として灌頂した。バラタに重責を託して、王は務めを果たし終えた。

1.100.40

ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः ।
गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान् ॥ १.१००.४० ॥

その後、人王ドゥシュヤンタは満百年の間国を治め、森へ赴いて天界に至った。