摩诃婆罗多 · 章 1.101
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.101.1
दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः ।
तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः ॥ १.१०१.१ ॥
薄特从杜什扬塔依法获得王国,那位大德的著名功业广为流传。
1.101.2
भास्वरं दिव्यमजितं लोकसंनादनं महत् ।
स विजित्य महीपालांश्चकार वशवर्तिनः ॥ १.१०१.२ ॥
那是光辉、神圣、不可战胜、响彻诸世界的伟大荣耀。他征服了大地的君主,使他们听命于己。
1.101.3
चचार च सतां धर्मं प्राप्य चानुत्तमं यशः ।
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् ॥ १.१०१.३ ॥
他遵行善人的法,获得了至上的名声。那位国王是转轮圣王,统治整个大地,威力强大。
1.101.4
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ।
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् ॥ १.१०१.४ ॥
他如摩如多之主因陀罗那样举行了许多祭祀;迦那婆如达刹那样,以丰厚的布施为他主持祭祀。
1.101.5
श्रीमद्गोविततं नाम वाजिमेधमवाप सः ।
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥ १.१०१.५ ॥
他完成了名为戈维塔塔的盛大马祭,在祭中薄特赠给迦那婆一千个“莲”(钱币单位)。
1.101.6
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः ।
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥ १.१०१.६ ॥
他居住在亚穆纳河岸,举行了一百次马祭;在萨拉斯瓦蒂河畔三百次,沿恒河四百次。
1.101.7
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः ।
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ १.१०१.७ ॥
杜湿扬陀之子、莎恭达罗之子国王婆罗多以祭祀奉敬神灵;因此婆罗多家族的伟大声名传遍婆罗门之中。
1.101.8
भरतस्य वरस्त्रीषु पुत्राः संजज्ञिरे पृथक् ।
नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान् ॥ १.१०१.८ ॥
婆罗多的正妃们各自生下了儿子;然而国王当时不承认他们,说他们与自己不相配。
1.101.9
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् ।
ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥ १.१०१.९ ॥
于是愤怒的母亲们把那些儿子送往阎摩之境;那位国王的生子之事因此落空。
1.101.10
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा ।
लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत ॥ १.१०१.१० ॥
于是婆罗多以大祭祀敬奉神灵,从婆罗堕阇处得一子,名为补曼尤,婆罗多啊。
1.101.11
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः ।
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥ १.१०१.११ ॥
于是婆罗多——补卢王族的喜悦者,知道自己已有子嗣——婆罗多中最优秀者啊,为补曼尤行灌顶,立为太子。
1.101.12
ततो दिविरथो नाम भुमन्योरभवत्सुतः ।
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ॥ १.१०१.१२ ॥
于是补曼尤生子名为提韦罗陀;还有苏侯陀罗、苏侯陀、苏哈维、苏耶珠也都是他的儿子。
1.101.13
पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः ।
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ॥ १.१०१.१३ ॥
布什迦里尼为婆摩尤生下了如遮迦等诸子。其中长子苏侯陀获得了王国。
1.101.14
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ।
सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम् ॥ १.१०१.१४ ॥
他以王祭、马祭等多种祭祀举行了供奉,苏侯陀统治了以大海为衣的整个大地。
1.101.15
पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम् ।
ममज्जेव मही तस्य भूरिभारावपीडिता ॥ १.१०१.१५ ॥
大地充满象、牛、马,又堆满无数宝物,在他的统治下不堪重负,仿佛要沉没下去。
1.101.16
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् ।
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ॥ १.१०१.१६ ॥
当时苏侯陀王依法统治臣民,大地充满象、马和战车,人口稠密。
1.101.17
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ।
प्रवृद्धजनसस्या च सर्वदैव व्यरोचत ॥ १.१०१.१७ ॥
大地上遍布数十万的祠庙与祭柱,民众与庄稼日益增长,常常熠熠生辉。
1.101.18
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः ।
अजमीढं सुमीढं च पुरुमीढं च भारत ॥ १.१०१.१८ ॥
伊科瓦库王妃为大地之主苏侯陀生下了阿遮弥陀、苏弥陀,以及婆罗多啊,补卢弥陀。
1.101.19
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः ।
षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत ॥ १.१०१.१९ ॥
阿遮弥陀是他们中最优秀的,王统在他身上确立。婆罗多啊,他从三位妻子那里生了六个儿子。
1.101.20
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ ।
केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ ॥ १.१०१.२० ॥
Ṛkṣa 从 Dhūminī 与 Nīlī 生下 Duṣyanta 与 Parameṣṭhin。Keśinī 生下 Jahnu,以及两个儿子 Janarūṣin 与
1.101.21
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम् ।
तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः।
अन्वयाः कुशिका राजञ्जन्होरमिततेजसः ॥ १.१०१.२१ ॥
英雄 Saṃvaraṇa 被认为是 Ṛkṣa 与 Rāthantarī 之子。同样,这些般遮罗人都是 Duṣyanta 与 Parameṣṭhin 的后裔;国王啊,俱舍族人是无量光辉的 Jahnu 的后裔。
1.101.22
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् ।
ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥ १.१०१.२२ ॥
人们称 Janarūṣaṇa 的长子 Ṛkṣa 为人主。国王啊,Saṃvaraṇa 由 Ṛkṣa 所生,他延续了你的家族。
1.101.23
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् ।
संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम् ॥ १.१०१.२३ ॥
国王啊,我们听说,当 Ṛkṣa 之子 Saṃvaraṇa 统治大地时,人民遭受了极大的毁灭。
1.101.24
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा ।
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥ १.१०१.२४ ॥
于是王国因种种毁灭而崩解,饥饿与死亡、干旱与疾病接踵袭来。
1.101.25
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ।
चालयन्वसुधां चेमां बलेन चतुरङ्गिणा ॥ १.१०१.२५ ॥
他们击杀婆罗多人与敌对者的军队,以四军之力震动此大地。
1.101.26
अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम् ।
अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥ १.१०१.२६ ॥
般遮罗王迅速征服大地后攻击他,以十个阿可首希尼军在战场上击败了他。
1.101.27
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः ।
राजा संवरणस्तस्मात्पलायत महाभयात् ॥ १.१०१.२७ ॥
于是,国王三婆罗那与妻子、大臣、儿子和亲友一同逃离了那巨大的危险。
1.101.28
ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम् ।
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा।
नदीविपयपर्यन्ते पर्वतस्य समीपतः ॥ १.१०१.२८ ॥
战败的婆罗多人向西方而去,当时便在大河信度的一处丛林中居住,在河岸尽头、靠近一座山的地方。
1.101.29
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ।
तेषां निवसतां तत्र सहस्रं परिवत्सरान् ॥ १.१०१.२९ ॥
婆罗多人在那里躲进一处难以到达的地方,居住了很长时间;他们在那里居住期间,过了一千年。
1.101.30
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ।
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ॥ १.१०१.३० ॥
于是尊贵的仙人婆犀塔来到婆罗多人那里;他到来后,他们恭敬地出迎并礼敬他。
1.101.31
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ।
निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥ १.१०१.३१ ॥
于是诸婆罗多人为他奉上阿哩耶水,并将一切禀告这位光辉的仙人,以敬意迎接他。
1.101.32
तमासने चोपविष्टं राजा वव्रे स्वयं तदा ।
पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि ॥ १.१०१.३२ ॥
此时,国王亲自选他为祭司,他已坐于座位上,说道:“愿您做我们的国师;为了王国,我们将尽力。”
1.101.33
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ।
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ॥ १.१०१.३३ ॥
婆私吒也应允婆罗多人,说了一声“唵”;随后他为宝罗婆,立为统御一切刹帝利的帝王而行灌顶。
1.101.34
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ।
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोतोतमम् ॥ १.१०१.३४ ॥
我们听说,它是整个大地的角尖;他统治着那座昔日婆罗多人所居的最上之城。
1.101.35
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ।
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ॥ १.१०१.३५ ॥
他又使大地上的诸王皆纳贡;随后,这位大力者重新获得大地,再次举行祭祀。
1.101.36
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ।
ततः संवरणात्सौरी तपती सुषुवे कुरुम् ॥ १.१०१.३६ ॥
阿夷弥陀以丰厚的施礼举行了许多大祭祀;随后,太阳之女多跋提从三婆罗那生下了俱卢。
1.101.37
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ।
महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम्।
तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं ॥ १.१०१.३७ ॥
众臣民因他精通法而推举他为王。凭借他的威望,俱卢族对他极为信服。以他之名,大地上的那片土地被称为俱卢闍阑伽罗。
1.101.38
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ।
अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम् ॥ १.१०१.३८ ॥
这位大苦行者以苦行使俱卢之野成为圣地,又使阿什万特、阿毗什扬多和仙人曇摩拉陀也变得神圣。
1.101.39
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम ।
पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥ १.१०१.३९ ॥
我们听说过著名的阇那目阇耶及其诸子。这五个儿子生于心志高远的婆诃尼。
1.101.40
अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान् ।
आदिराजो विराजश्च शाल्मलिश्च महाबलः ॥ १.१०१.४० ॥
阿毗克希特与波利克希特,有力的沙巴拉什瓦,阿提罗阇,毗罗阇,以及大力的沙尔摩梨。
1.101.41
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः ।
एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः।
जनमेजयादयः सप्त तथैवान्ये महारथाः ॥ १.१०१.४१ ॥
人们记得乌恰什罗婆斯、班伽迦罗,以及第八位胜敌。他们在此族中以由业而生的德行而闻名:阇那目阇耶及其余六人,以及其他大车战士。
1.101.42
परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ।
कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान् ॥ १.१०१.४२ ॥
波利克希特的诸子皆精通法与利:迦克沙塞那、乌格拉塞那,以及有力的质罗塞那。
1.101.43
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ।
जनमेजयस्य तनया भुवि ख्याता महाबलाः ॥ १.१०१.४३ ॥
名为因陀罗塞那、苏塞那和跋耆塞那的,是遮娑耶的儿子,在大地上享有盛名,极其强大。
1.101.44
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ।
निषधश्च महातेजास्तथा जाम्बूनदो बली ॥ १.१०१.४४ ॥
长子持国,还有般度、跋利迦、大光明的尼沙陀,以及强大的阎浮那陀。
1.101.45
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ।
सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः ॥ १.१०१.४५ ॥
据记载,第八位是俱南多罗、波达提和缚萨提;他们都精通法与利,致力于一切众生的福祉。
1.101.46
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः ।
हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः ॥ १.१०१.४६ ॥
持国成为国王;他的儿子有俱叉迦、象、毗多尔ka、俱罗陀,第五位是俱南那。
1.101.47
हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः ।
धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि ॥ १.१०१.४७ ॥
还有哈维什罗瓦斯、因陀罗跋、布满尤和阿波罗耆多;在持国的儿子中,这三人在大地上享有盛名。
1.101.48
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत ।
प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि ॥ १.१०१.४८ ॥
婆罗多啊,还有补罗提波、法眼和善眼;其中补罗提波闻名,成为大地上无与伦比的人。
1.101.49
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ ।
देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥ १.१०१.४९ ॥
婆罗多族的雄牛啊,普罗提波有三个儿子:提婆跋、三摩渡和大车战士跋利迦。
1.101.50
देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया ।
शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥ १.१०१.५० ॥
其中,提婆跋为求法之善而出家;三摩渡得到了大地,大车战士跋利迦也得到了一国。
1.101.51
भरतस्यान्वयास्त्वेते देवकल्पा महारथाः ।
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥ १.१०१.५१ ॥
婆罗多家族的这些大车战士如同天神,许多最优秀的国王也如同婆罗门。
1.101.52
एवंविधा महाभागा देवरूपाः प्रहारिणः ।
अन्ववाये महाराज ऐलवंशविवर्धनाः ॥ १.१०१.५२ ॥
大王啊,这样的大福德者、形貌如天神的战士们生于那一支系,使月种王族得以昌盛。
1.101.53
गङ्गातीरं समागम्य दीक्षितो जनमेजय ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ १.१०१.५३ ॥
惟摩耶,他来到恒河岸边受戒,举行了数千次马祠和数百次婆惹陛耶祭。
1.101.54
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः ।
अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः ॥ १.१०१.५४ ॥
他又举行了以丰厚祭礼圆满结束的大祭;像苏摩祭一样,再次举行阿格尼什托摩、阿提罗特罗和乌克提亚祭。
1.101.55
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः ।
दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ॥ १.१०१.५५ ॥
沙恭多罗之子国王见到无数准备周全的瓦阇帕亚、伊什提与萨特拉祭祀,便以财物使再生者(婆罗门)心满意足。
1.101.56
पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ ।
जम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥ १.१०१.५६ ॥
伟大的婆罗多又将一千朵由纯净赡部金制成的莲花赠予迦那婆。
1.101.57
यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः ।
सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः ॥ १.१०१.५७ ॥
其祭柱长一百毗牙摩,周长为金色,高达一千毗牙摩,由因陀罗及诸神竖立。
1.101.58
स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः ।
हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम् ॥ १.१०१.५८ ॥
装饰精美,闪耀着各种迷人的珠宝;有黄金、象、马、水牛、骆驼、象和羊。
1.101.59
दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः ।
भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् ॥ १.१०१.५९ ॥
男女奴仆、财富、谷物、温顺的母牛及其小牛,以及以千根祭柱标记的土地——赠予迦那婆,并附以丰厚的布施。
1.101.60
बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून् ।
ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा ॥ १.१०१.६० ॥
他将财富施予众多如梵天般的婆罗门,并举行了许多祭祀,随即以千万计的数目赠予村庄和明亮的房舍。
1.101.61
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।
भरतस्यान्वये जाता देवकल्पा महारथाः ॥ १.१०१.६१ ॥
从婆罗多产生了婆罗提之名声,因此此族被称为婆罗多族。在婆罗多的世系中诞生了与天神相等的大车战士。
1.101.62
बहवो ब्रह्मकल्पाश्च बभूवुः क्षत्रसत्तमाः ।
तेषामपरिमेयानि नामधेयानि सन्त्युत ॥ १.१०१.६२ ॥
许多与婆罗门相等的最优秀刹帝利出现了。他们的名字不可胜数。
1.101.63
तेषां कुले यथा मुख्यान्कीर्तयिष्यामि भारत ।
महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥ १.१०१.६३ ॥
婆罗多啊,我将讲述他们家族中的主要人物:那些大福大德、如天神一般、专注于真实与正直的人。