Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.102

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.102.1

इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः ।
महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः ॥ १.१०२.१ ॥

曾有一位国王,乃甘蔗王族之主、大地之王,名为摩诃毗娑迦,言语真实,勇武真诚。

1.102.2

सोऽश्वमेधसहस्रेण राजसूयशतेन च ।
तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः ॥ १.१०२.२ ॥

此主以千次马祭与百次王祭令天神之主欢喜,之后得升天界。

1.102.3

ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः ।
तत्र राजर्षयो ह्यासन्स च राजा महाभिषक् ॥ १.१०२.३ ॥

此后某时,诸天礼拜梵天;那里有王仙在场,那位国王摩诃毗娑迦也在其中。

1.102.4

अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् ।
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥ १.१०२.४ ॥

于是河中至尊的恒河来到祖父面前;她的衣裳被风吹起,明亮如月。

1.102.5

ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा ।
महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥ १.१०२.५ ॥

于是诸天众忽然低下面容;而王仙摩诃毗娑迦无所畏惧,注视着那条河。

1.102.6

सोपध्यातो भगवता ब्रह्मणा तु महाभिषक् ।
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥ १.१०२.६ ॥

世尊梵天诅咒摩诃毗娑迦,说道:「你将降生于凡人之中,此后将再得诸界。」

1.102.7

यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते ।
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति ॥ १.१०२.७ ॥

愚昧之人啊,你的心已被恒河夺去;她将在人间对你做出不快之事。

1.102.8

यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते ।
स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान् ॥ १.१०२.८ ॥

当你心中生起愤怒时,你便能从诅咒中解脱。那位国王思量之后,[选择了]其他国王和苦行富足的仙人……

1.102.9

प्रतीपं रोचयामास पितरं भूरितेजसम् ।
सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम् ॥ १.१०२.९ ॥

她选择了光辉卓著的父亲补罗提婆。那条河看见大医者,即因悲伤而倒下的国王……

1.102.10

तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा ।
सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप ॥ १.१०२.१० ॥

她心中一心思念着他,河流中最殊胜者便转身返回。大王啊,她是为那身体憔悴、被忧伤所击的国王而……

1.102.11

ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ।
तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा ॥ १.१०२.११ ॥

她在路上行走,看见了住在天上的诸婆苏神。见他们是那样的形状,河流中最殊胜者便问道。

1.102.12

किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ।
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि ॥ १.१०२.१२ ॥

“这是怎么回事,你们的形貌竟如此毁坏?天界众生可平安吗?”那时诸婆苏神对她说:“大河啊,我们已被诅咒了。”

1.102.13

अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ।
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् ॥ १.१०२.१३ ॥

因一点小过错,伟大的婆悉湿陀在愤怒中(诅咒了我们)。我们都迷惑了,并且暗中(冒犯)了那位最优秀的仙人。

1.102.14

सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ।
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह ॥ १.१०२.१४ ॥

往昔我们在黄昏时靠近正坐着的婆悉湿陀,因此他愤怒地诅咒我们要降生于胎中。

1.102.15

न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना ।
त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि ॥ १.१०२.१५ ॥

梵的宣说者所说之事无法撤回。你要化为人类女子,在大地上为我们这些婆苏生下儿子。

1.102.16

न मानुषीणां जठरं प्रविशेम वयं शुभे ।
इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम् ॥ १.१०२.१६ ॥

吉祥的女子啊!我们不会进入人类女子的胎中。婆苏如此说后,她说“就这样吧”,并说了这些。

1.102.17

मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ।
प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः।
भविता मानुषे लोके स नः कर्ता भविष्यति ॥ १.१०२.१७ ॥

在凡人中,谁将是为你们行事的男子之最?普罗提帕之子、享誉世间的国王山塔努将在人间,他将是为我们行事的人。

1.102.18

ममाप्येवं मतं देवा यथा मां वदथानघाः ।
प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम् ॥ १.१०२.१८ ॥

无罪的天神啊,我自己的心意也正如你们对我所说。我将使他喜悦,这也正是你们所愿。

1.102.19

जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि ।
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥ १.१०२.१९ ॥

你应当把我们新生的儿子投入水中,免得我们这些在三界中游走的人长久无法解脱。

1.102.20

जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः ।
शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः ॥ १.१०२.२० ॥

我们众人愚昧,想要夺取苏罗毗,因此那位梵仙诅咒了我们。请你速速使我们脱离此咒。

1.102.21

एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् ।
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥ १.१०२.२१ ॥

就这样做吧;愿他得到一个儿子。为了儿子,他与我的结合不应徒劳。

1.102.22

तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् ।
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥ १.१०२.२२ ॥

我们每人将献出自己力量的八分之一;凭此力量你将得一子,他也正是那人所渴望的。

1.102.23

न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः ।
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥ १.१०२.२३ ॥

他的子嗣在凡人之中不会再有;因此你的儿子将无后代,然而他将是有力量的。