マハーバーラタ · 章 1.103
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.103.1
ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा ।
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन् ॥ १.१०३.१ ॥
そのときプラティーパ王は常にあらゆる生き物の利益を願う者であった。ガンガーの門へ行き、長年ジャパ(祈りの唱え)をしながら座っていた。
1.103.2
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी ।
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥ १.१०३.२ ॥
美と徳を備えたガンガーは女性の姿をとり、水から立ち上がった。その姿は最も心を惹くものであった。
1.103.3
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी ।
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥ १.१०३.३ ॥
ジャパを唱えていた王仙の、沙羅樹のような右の腿に、神々しい姿の、気高い心をもつ、美しい顔の女性が座った。
1.103.4
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम् ।
वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित्।
करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥ १.१०३.४ ॥
しかし、言葉に通じた者の中で最もすぐれ、法(ダルマ)の決断の真理を知るプラティーパ王は、彼女に言った。「吉祥なる者よ、あなたの望む喜ばしいことを、私は何をしてあげようか。」
1.103.5
त्वामहं कामये राजन्भजमानां भजस्व माम् ।
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥ १.१०३.५ ॥
「王よ、私はあなたを望みます。あなたを慕う私を受け入れてください。愛欲に満ちた女性を捨てることは、善人たちに非難されるのです。」
1.103.6
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि ।
न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम् ॥ १.१०३.६ ॥
「美しい容色の方よ、私は欲望から他人の妻のもとへは行きません。吉祥なる方よ、異なる種姓の女性のもとへも行きません。これが法にかなう私の誓いです。」
1.103.7
यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम् ।
निरयान्नैव मुच्यते यावदाभूतसंप्लवम् ॥ १.१०३.७ ॥
自分の妻を捨てて他人の妻に近づく者は、万物の破滅に至るまで地獄から解放されない。
1.103.8
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् ।
भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम् ॥ १.१०३.८ ॥
王よ、私は不吉ではなく、近づいてはならない者でもなく、決して言葉を交わしてはならない者でもありません。あなたに寄り添う天の乙女、優れた女性である私をお受けください。
1.103.9
त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम् ।
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥ १.१०३.९ ॥
あなたが私に勧める望ましいことは、あなた自身が退けるべきです。さもなければ、ダルマの乱れが私を滅ぼすでしょう。
1.103.10
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने ।
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥ १.१०३.१० ॥
麗しき肢体の女性よ、私の右の腿に達してあなたは抱かれました。臆病な女性よ、これは子らと嫁たちの座であると知りなさい。
1.103.11
सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः ।
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥ १.१०३.११ ॥
左の腿は恋人の享受にふさわしいが、あなたはそれを退けた。ゆえに、麗しき肢体の女性よ、私は欲望によってあなたに何かをすることはない。
1.103.12
स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम् ।
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥ १.१०३.१२ ॥
美しい腰の女性よ、私の嫁となりなさい。息子のために私はあなたを選ぶのです。美しい腿の女性よ、あなたは私のもとに来て、嫁の立場に身を寄せたのです。
1.103.13
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते ।
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम् ॥ १.१०३.१३ ॥
そうなりますように、ダルマを知る方よ。私はあなたの息子と結ばれ、あなたへの信愛によって名高いバーラタの家系を敬いましょう。
1.103.14
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् ।
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥ १.१०३.१४ ॥
地上の王たちにとって、あなたこそ最高の拠り所です。あなたの徳は百年かけても私には語り尽くせません。
1.103.15
कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम् ।
समयेनेह धर्मज्ञ आचरेयं च यद्विभो ॥ १.१०३.१५ ॥
あなたの家系の名高い徳こそ、最高の善良さです。ダルマを知る方よ、力ある方よ、約束のとおり私はここでそのように振る舞いましょう。
1.103.16
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ।
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम् ॥ १.१०३.१६ ॥
あなたの息子は、このことを決して疑ってはなりません。こうしてあなたの息子と共に暮らし、私は彼の喜びを増やしましょう。
1.103.17
पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः ।
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत।
अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा ॥ १.१०३.१७ ॥
あなたの息子は、功徳ある愛する息子たちとともに天界に至るでしょう。王よ、「そうなりますように」と言って、彼女はその場で姿を消しました。王獅子が見つめる中、その時彼女は見えなくなったのです。
1.103.18
पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत् ।
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ॥ १.१०३.१८ ॥
息子の誕生を待ちながら、その王はその言葉を心に留めた。ちょうどその頃、クシャトリヤの雄牛プラティーパが。
1.103.19
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ।
प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत ॥ १.१०३.१९ ॥
クル族の喜びよ、息子のために彼は妻とともに苦行をした。プラティーパの妻の胎内で、その輝かしい胎児は育っていった。
1.103.20
श्रिया परमया युक्तः शरच्छुक्ले यथा शशी ।
ततस्तु दशमे मासि प्राजायत रविप्रभम् ॥ १.१०३.२० ॥
最高の輝きを備え、秋の白分の月のように、十か月目に太陽のような光輝をもって生まれた。
1.103.21
कुमारं देवगर्भाभं प्रतीपमहिषी तदा ।
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक् ॥ १.१०३.२१ ॥
そのとき、プラティーパの正妃は神々の胎児のような王子を産んだ。その老夫婦の子は偉大な医者となった。
1.103.22
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः ।
तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः ॥ १.१०३.२२ ॥
シャーンタからその子孫が生まれ、それゆえ彼はシャーンタヌとなった。生まれたその子の儀礼は力ある王プラティーパが執り行わせた。
1.103.23
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा ।
नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम् ॥ १.१०३.२३ ॥
そのとき、バラモンはヴェーダに定められた儀式によって誕生の儀礼などを行い、バラモンたちは最大の敬意をもって命名の儀式も行った。
1.103.24
शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा ।
ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः ॥ १.१०३.२४ ॥
大地の守護者よ、そのときシャーンタヌのためにヴェーダの儀礼が行われた。その後、育てられた王シャーンタヌは世の法にかなう人となった。
1.103.25
स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः ।
धनुर्वेदे च वेदे च गतिं स परमा गतः ॥ १.१०३.२५ ॥
法を保つ者の中で最も優れた彼は、最高の熟達を得た。弓術とヴェーダにおいて、彼は至高の境地に達した。
1.103.26
यौवनं चापि संप्राप्तः कुमारो वदतां वरः ।
संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा ॥ १.१०३.२६ ॥
青年に達したその王子は、弁舌の士の中で最も優れていた。自らの行為によって得た不滅の世界を思い起こしながら。
1.103.27
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः ।
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् ॥ १.१०३.२७ ॥
シャーンタヌは功徳ある行いをする者であり、クルの中で最も優れた人であった。そこでプラティーパは青年の息子シャーンタヌに教えを授けた。
1.103.28
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव ।
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी ॥ १.१०३.२८ ॥
シャーンタヌよ、かつて一人の女性があなたの繁栄のために私のもとに来た。息子よ、その美しい肌の女性が人目のない所であなたに近づくなら、
1.103.29
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया ।
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने ॥ १.१०३.२९ ॥
その神々しい女性は欲望に満ち、美しさに恵まれているが、息子を望んで来るのだ。彼女に『お前は誰か、誰のものか』と問うてはならない、おお女性よ。
1.103.30
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ ।
सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥ १.१०३.३० ॥
彼女が何をしようとも、その行為についてさえ、無垢なる者よ、お前は彼女に問うてはならない。任命によって来た彼女に仕えよ、と彼は彼に言った。
1.103.31
एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा ।
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥ १.१०३.३१ ॥
このように息子に指示し、自らの王国で彼に灌頂を施した後、王プラティーパは森に入った。
1.103.32
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः ।
बभूव सर्वलोकस्य सत्यवागिति संमतः ॥ १.१०३.३२ ॥
その賢明な王シャーンタヌは、神々の王インドラに等しい輝きを持ち、言葉に誠実であるとして全世界に尊ばれた。
1.103.33
पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः ।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥ १.१०३.३३ ॥
肩幅広く腕力に優れ、猛り狂った象のような勇猛さを持ち、王のすべての相を備えて完全であった。
1.103.34
अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित् ।
वशे चक्रे महीमेको विजित्य वसुधाधिपान् ॥ १.१०३.३४ ॥
大臣の資質を備え、クシャトリヤの義務の細則に通じた彼は、単独で大地の支配者たちを征服し、大地を己の支配下に置いた。
1.103.35
वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः ।
ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः ॥ १.१०३.३५ ॥
彼はすべてのヴェーダと王の義務を余すところなく学ばせ、多くの長期祭儀と豊かな布施を伴う供犠を行った。
1.103.36
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान् ।
रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि ॥ १.१०३.३६ ॥
ヴェーダの学びに通じた婆羅門たちを、様々な宝石、牛、村落、馬、財宝によって満足させた。
1.103.37
वयोरूपेण संपन्नः पौरुषेण बलेन च ।
ऐश्वर्येण प्रतापेन विक्रमेण धनेन च ॥ १.१०३.३७ ॥
彼は若さと美貌に恵まれ、男らしい力と武勇を備え、統治権、威光、勇気、富をも具えていた。
1.103.38
वर्तमानश्च सत्येन सर्वधर्मविशारदः ।
तं महीपं महीपाला राजराजमकुर्वत ॥ १.१०३.३८ ॥
彼は真実に住し、あらゆる法に通じていた。諸王は、その大地の主を王の中の王とした。
1.103.39
वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः ।
श्रिया भरतशार्दूल समपद्यन्त भूमिपाः ॥ १.१०३.३९ ॥
バラタの虎よ。悲しみ・恐れ・苦悩を離れ、安らかに眠り安らかに目覚める地上の王たちは、栄えを得た。
1.103.40
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत ।
ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः ॥ १.१०३.४० ॥
すべての階級の規律により、バラモンが上位に立ち続けた。クシャトリヤはバラモンに向き、ヴァイシャはクシャトリヤに向いていた。
1.103.41
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः ।
एवं पशुवराहाणां तथैव मृगपक्षिणाम् ॥ १.१०३.४१ ॥
シュードラとヴァイシャはバラモンとクシャトリヤに従って仕えた。同様に、獣、猪、鹿、鳥もまた。
1.103.42
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः ।
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ॥ १.१०३.४२ ॥
シャーンタヌが王国を治めていた時には、無益な殺生は起こらなかった。下等な生きものの中で苦しみ、庇護のない者たちにさえも。
1.103.43
स एव राजा सर्वेषां भूतानामभवत्पिता ।
स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः ॥ १.१०३.४३ ॥
彼こそ一切衆生の父となった王である。ハスティンと呼ばれる、法を体現するクル族の歓喜者が遊行していた。
1.103.44
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले ।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥ १.१०३.४४ ॥
輝きは太陽に等しく、力は風に等しかった。怒りは死神のごとく、忍耐は大地に等しかった。
1.103.45
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः ।
स वनेषु च रम्येषु शैलप्रस्रवणेषु च ॥ १.१०३.४५ ॥
彼は王となった。善き心を持ち、臣民に対して真実の勇猛を示した。美しい森やや山の泉のほとりでも。
1.103.46
चचार मृगयाशीलः शान्तनुर्वनगोचरः ।
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः ॥ १.१०३.४६ ॥
狩猟を好むシャーンタヌは森をさまよった。その最良の王は鹿や水牛を殺しながら。
1.103.47
गङ्गामनु चचारैकः सिद्धचारणसेविताम् ।
स कदाचिन्महाराज ददर्श परमां स्त्रियम् ॥ १.१०३.४७ ॥
シッダとチャーラナが仕えるガンガーの岸を彼は一人で歩いた。ある時、大王よ、彼は至高の女性を見た。
1.103.48
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम् ।
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ॥ १.१०३.४८ ॥
身体は輝き、まるで別のシュリーそのもののようであった。あらゆる点で非の打ち所なく、美しい歯を持ち、神々しい装身具で飾られていた。
1.103.49
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ।
स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने ॥ १.१०३.४९ ॥
彼女はひとり、薄い衣をまとい、蓮の花の内側の花びらのような輝きを持ち、身を清め、洗った衣を着て、ガンガーの岸に生い茂る森にいた。
1.103.50
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् ।
रूपेण वयसा कान्त्या शरीरावयवैस्तथा ॥ १.१०३.५० ॥
髪を乱し、両手で頭髪に触れながら、彼女は美しさ、若さ、輝き、そして身体の各部によって(際立っていた)。
1.103.51
हावभावविलासैश्च लोचनाञ्चलविक्रियैः ।
श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा ॥ १.१०३.५१ ॥
艶やかな仕草や感情、戯れ、目尻の揺らめき、腰の豊かさ、腰、乳房、胸、そして眼差しによって、彼女は人を惹きつけた。
1.103.52
कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च ।
कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम् ॥ १.१०३.५२ ॥
束ねた髪の重み、足、身振り、微笑、そしてカッコウの声のように甘い語らいによって、三界を歩む者たちをさえ凌ぐ女性であった。
1.103.53
वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः ।
सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती ॥ १.१०३.५३ ॥
ヴァーニー、ギリジャー、ラクシュミー、他の女性や天女たちも彼女の前では色褪せた。彼女は不幸の女神アラクシュミーを遠ざけるかのように、シャーンタヌに近づいてきた。
1.103.54
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा ।
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥ १.१०३.५४ ॥
彼女を見て王は身の毛がよだち、その美の豊かさに驚いた。目で飲むかのように見つめたが、人の王はなおも満たされなかった。
1.103.55
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् ।
स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥ १.१०३.५५ ॥
大いに輝く王が歩き回るのを見ても、愛情から生じた友情を抱いたその優美な女は満たされなかった。
1.103.56
गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी ।
चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा ॥ १.१०३.५६ ॥
欲望をもって王を見つめる優美な女ガンガーは、彼の前を軽やかに進んだ。キンナリーのようであり、アプサラスのようであった。
1.103.57
दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः ।
रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः ॥ १.१०३.५७ ॥
彼女を見て、シャーンタヌは一目見ただけで喜びに輝いた。美しさで王家の女性たちをすべて凌いで立つ彼女を。
1.103.58
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा ।
देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः ॥ १.१०३.५८ ॥
そこで王は穏やかな言葉で彼女をなだめて言った。「そなたは女神か、ダーナヴィーか、ガンダルヴィーか、アプサラスか。」
1.103.59
यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे ।
याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे ॥ १.१०३.५९ ॥
ヤクシーでも、ナーガの女でも、あるいは人間の女でもよい、ああ細腰の女よ。そなたが誰であろうと、神々しき女よ、罪なき女よ、わが王妃となれ。
1.103.60
त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन ।
याचे त्वां सुरगर्भाभे भार्या मे भव शोभने ॥ १.१०३.६० ॥
そなたが来たことで、わが富も、わが持つものすべてがそなたのものとなった。神々の胎のごとく輝く女よ、そなたに願う。輝く女よ、わが妻となれ。