摩诃婆罗多 · 章 1.106
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.106.1
शान्तनुरुवाच ।
आपवो नाम कोन्वेष वसूनां किं च दुष्कृतम्।
शशाप यस्मात्कल्याणि स वसूंश्चारुदर्शने ।
यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः ॥ १.१०६.१ ॥
檀那说:名为阿波婆的此人是谁?诸婆苏犯了什么过错?吉祥的妻子啊,美丽容颜的女子啊,他为何诅咒诸婆苏?因他的诅咒,他们全都降生于人类之胎。
1.106.2
अनेन च कुमारेण त्वया दत्तेन किं कृतम् ।
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥ १.१०६.२ ॥
你所给予的这个孩子,你又做了什么?他将因谁的行为而居于人类之中?
1.106.3
ईशा वै सर्वलोकस्य वसवस्ते च वै कथम् ।
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥ १.१०६.३ ॥
统治一切世界的诸婆苏,如何降生于人类之中?哦,遮诃维,请告诉我。
1.106.4
एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत् ।
भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ ॥ १.१०६.४ ॥
被如此询问后,女神遮诃维恒河便对国王,她的丈夫檀那,说了这些话;人中之牛啊。
1.106.5
गङ्गोवाच ।
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम।
वसिष्ठनामा स मुनिः ख्यात आपव इत्युत ॥ १.१०६.५ ॥
恒河说:婆罗多中最优秀的啊,往昔婆卢那所得之子,名为婆悉吒的那位仙人,也以阿波婆之名著称。
1.106.6
तस्याश्रमपदं पुण्यं मृगपक्षिसमन्वितम् ।
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥ १.१०६.६ ॥
他的修行处神圣,充满鹿与鸟,位于山王弥卢的一侧,被四季之花所覆盖。
1.106.7
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम ।
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥ १.१०६.७ ॥
瓦卢那之子,行善者中最优秀的,婆罗多族中最杰出的,在那片森林中修苦行,那里有甘甜的根、果实和清水。
1.106.8
दक्षस्य दुहिता या तु सुरभीत्यभिशब्दिता ।
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥ १.१०६.८ ॥
达刹之女名为苏罗婆,那位女神从迦叶波生下了牛群,婆罗多族的公牛啊。
1.106.9
अनुग्रहार्थं जगतः सर्वकामदुहां वराम् ।
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥ १.१०६.९ ॥
为了世界的福祉,那位正直的瓦卢那之子获得了那头能满足一切愿望的优良母牛,即祭祀之牛。
1.106.10
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते ।
चचार पुण्ये रम्ये च गौरपेतभया तदा ॥ १.१०६.१० ॥
她住在那片苦行者的森林里,那里为圣人所常到,她在神圣而可爱的地方漫游,那时她没有牧人的恐惧。
1.106.11
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ ।
पृथ्वाद्या वसवः सर्वे देवा देवर्षिसेवितम् ॥ १.१०६.११ ॥
婆罗多族的公牛啊,一次,以普利图为首的所有婆苏和诸神来到了那片为天神仙人所常到的森林。
1.106.12
ते सदारा वनं तच्च व्यचरन्त समन्ततः ।
रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥ १.१०६.१२ ॥
他们与妻子们在那片森林里四处漫游,在可爱的山岳和树林中欢乐嬉戏。
1.106.13
तत्रैकस्याथ भार्या तु वसोर्वासवविक्रम ।
संचरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥ १.१०६.१३ ॥
那里,一位婆苏之妻,其勇武如婆婆(因陀罗),在林中漫游时看见了一头母牛;她腰肢纤细。
1.106.14
नन्दिनीं नाम राजेन्द्र सर्वकामधुगुत्तमाम् ।
सा विस्मयसमाविष्टा शीलद्रविणसंपदा ॥ १.१०६.१४ ॥
啊,诸王之主!那是一头名为难提尼的上好母牛,能满足一切愿望。她满怀惊叹,被它的品行和财富所打动。
1.106.15
द्यवे वै दर्शयामास तां गां गोवृषभेक्षण ।
आपीनां च सुदोग्ध्रीं च सुवालधिखुरां शुभां ॥ १.१०६.१५ ॥
啊,牛眼之人!她把那头母牛展示给天神(Dyau)看——乳房饱满,易于挤奶,尾巴和蹄子都美好,吉祥。
1.106.16
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ।
एवंगुणसमायुक्तां वसवे वसुनन्दिनी ॥ १.१०६.१६ ॥
它具备一切美德,品性无与伦比;婆苏难提尼把这样具备美德的母牛展示给婆苏看。
1.106.17
दर्शयामास राजेन्द्र पुरा पौरवनन्दन ।
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम ॥ १.१०६.१७ ॥
啊,诸王之主!啊,般度族之喜悦!她先前把它展示出来;那时天神一见那头母牛,啊,你这勇猛如象王的人,
1.106.18
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ।
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा ॥ १.१०६.१८ ॥
啊,国王!她对那位女神说道,并描述那头母牛的容貌与品德:“这头上好的母牛属于婆禁(Varuṇa);它有黑色的眼睛。”
1.106.19
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ।
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे ॥ १.१०६.१९ ॥
美腰的女子啊,这座殊胜森林属于那位仙人。若凡人饮用她那甘甜的乳汁,啊,细腰的女子,
1.106.20
दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः ।
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा ॥ १.१०६.२० ॥
他将以永驻的青春生活一万年。诸王中最杰出者啊,那位细腰女神听到这话后,
1.106.21
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ।
अस्ति मे मानुषे लोके नरदेवात्मजा सखी ॥ १.१०६.२१ ॥
那位肢体完美的女神对光辉灿烂的丈夫说:“人间有我的一位朋友,是一位国王的女儿。
1.106.22
नाम्नाजितवती नाम रूपयौवनशालिनी ।
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः ॥ १.१०६.२२ ॥
名叫阿吉塔瓦蒂,容貌与青春俱备,是乌什那罗王仙的女儿,此王仙守信而有智慧。
1.106.23
दुहिता प्रथिता लोके मानुषे रूपसंपदा ।
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् ॥ १.१०६.२३ ॥
她是人间以容貌之富而闻名的女儿。大福之人啊,为了她,我想要那头带着小牛的母牛。
1.106.24
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ।
यावदस्याः पयः पीत्वा सा सखी मम मानद ॥ १.१०६.२४ ॥
众神中最杰出者、增益功德者啊,请迅速将她带来,好让我的朋友饮用她的乳汁。赐予尊荣者啊!
1.106.25
मानुषेषु भवत्वेका जरारोगविवर्जिता ।
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित ॥ १.१०६.२५ ॥
愿人间有一头免于衰老与疾病。大福之者、无可指摘者啊,此事你应为我而行。
1.106.26
प्रियात्प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन ।
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ॥ १.१०६.२६ ॥
对我而言,没有比这更珍贵的了。听了女神的这番话,想要使她欢喜……
1.106.27
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ।
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ॥ १.१०६.२७ ॥
那时,天(Dyau)与以普利图为首的诸兄弟一同夺走了那头牛。国王啊,被那位莲花眼的女子鼓动,天便那样做了。
1.106.28
ऋषेस्तस्य तपस्वीव्रं न शशाक निरीक्षितुम् ।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥ १.१०६.२८ ॥
他无法看见仙人的苦行誓愿;于是那头牛被他夺走,随之而来的堕落也未曾预见。
1.106.29
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।
न चापश्यत्स गां तत्र सवत्सां काननोत्तमे ॥ १.१०६.२९ ॥
于是婆由那之子带着果实来到静修处,在那片殊胜的森林里,他没有看见那头带着小牛的牛。
1.106.30
ततः स मृगयामास वने तस्मिंस्तपोधनः ।
नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः ॥ १.१०६.३० ॥
于是那位苦修富足的仙人在森林中寻找,那位心地高尚的牟尼寻找却没有找到那头牛。
1.106.31
ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः ।
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥ १.१०६.३१ ॥
得知诸婆薮夺走了那头牛,具天眼的仙人立即被愤怒所支配,诅咒了诸婆薮。
1.106.32
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् ।
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥ १.१०६.३२ ॥
因诸婆薮夺走了我那头产奶、尾巴美丽的母牛,他们都将投生于人间,此事毫无疑问。
1.106.33
एवं शशाप भगवान्वसूंस्तान्भरतर्षभ ।
वशं क्रोधस्य संप्राप्त आपवो मुनिसत्तमः ॥ १.१०६.३३ ॥
婆罗多族的雄牛啊,如此,尊贵的阿波婆,最优秀的仙人,被愤怒所支配,诅咒了那些诸婆薮。
1.106.34
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे ।
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ॥ १.१०६.३४ ॥
诅咒他们之后,这位大福之人便将心念专注于苦行。王啊,如此,这位以苦行为财富的仙人诅咒了八位诸婆薮。
1.106.35
महाप्रभावो ब्रह्मर्षिर्देवान्क्रोधसमन्वितः ।
एवं शप्तास्ततस्तेन मुनिना यामुनेन वै ॥ १.१०६.३५ ॥
具大威力的梵仙充满愤怒,如此诅咒了那些天神;他们被那位亚穆那仙人如此诅咒。
1.106.36
अष्टौ समस्ता वंसवो दिवो दोषेण सत्तम ।
अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः ॥ १.१०६.३६ ॥
善人啊,八位诸婆薮因过失而从天界坠落,之后又都来到了那位大灵魂仙人的修行处。
1.106.37
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ।
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ॥ १.१०६.३७ ॥
诸婆苏知道自己已被诅咒,便去安抚那位仙人,王中之牛啊。
1.106.38
लेभिरे न च तस्मात्ते प्रसादमृषिसत्तमात् ।
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥ १.१०६.३८ ॥
然而,他们未能从那位精通一切法的最优秀仙人阿帕瓦那里得到宽恕,人中之虎啊。
1.106.39
उवाच च स धर्मात्मा शप्ता यूयं धरादयः ।
अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ ॥ १.१०६.३९ ॥
那位心地正直者说道:“达罗等诸婆苏啊,你们已被诅咒;每过一年,你们都将获得解脱诅咒。”
1.106.40
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति ।
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणः ॥ १.१०६.४० ॥
然而,因他之故你们都被我诅咒的那一位,天(Dyau)将因自己的业报,在人间世界长久居住。
1.106.41
नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्यदब्रुवम् ।
न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥ १.१०६.४१ ॥
我不愿让我在愤怒中对你们所说的话变成虚假;这位心胸宽广的人在人间也不会生育子嗣。
1.106.42
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः ।
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥ १.१०६.४२ ॥
他将成为心地正直、精通一切经典之人;他一心以父亲的喜乐与利益为念,将舍弃与女人的享受。
1.106.43
एवमुक्त्वा वसून्सर्वान्सजगाम महानृषिः ।
ततो मामुपजग्मुस्ते समेता वसवस्तदा ॥ १.१०६.४३ ॥
大仙说完这些,便离开了所有的婆苏。随后,婆苏们聚集在一起,来到我这里。
1.106.44
अयाचन्त च मां राजन्वरं तच्च मया कृतम् ।
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥ १.१०६.४४ ॥
他们向我请求一个恩惠,我便答应了:王啊,恒河女神,你要亲自把每一个出生的孩子投入水中。
1.106.45
एवं तेषामहं सम्यक् शप्तानां राजसत्तम ।
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥ १.१०६.४५ ॥
王中之王啊,为了使这些被诅咒的人从人间获得解脱,我便按照规定在人间行事。
1.106.46
अयं शापादृषेस्तस्य एक एव नृपोत्तम ।
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥ १.१०६.४६ ॥
因仙人的这一诅咒,只有此一人,王中之王啊,婆罗多后裔啊,天(Dyau)将在人间久居。
1.106.47
अयं कुमारः पुत्रस्ते विवृद्धः पुनरेष्यति ।
अहं च ते भविष्यामि आह्वानोपगता नृप ॥ १.१०६.४७ ॥
这个孩子,你的儿子,长大后会再回来;王啊,我也将应你的召唤而来,成为你的人。
1.106.48
एतदाख्याय सा देवी तत्रैवान्तरधीयत ।
आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥ १.१०६.४८ ॥
女神说完这些,便当场消失了;她带着那个孩子,去往她所愿去的地方。
1.106.49
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् ।
द्युनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः ॥ १.१०६.४९ ॥
他名为提婆跋多,是恒河之子。夏多努之子德尤那摩在德行上胜过夏多努。
1.106.50
शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः ।
तस्याहं कीर्तयिष्यामि शान्तनोरधिकान्गुणान् ॥ १.१०६.५० ॥
夏多努因悲伤而苦恼,便返回了自己的城市。现在我要讲述那位夏多努更为殊胜的德行。
1.106.51
महाभाग्यं च नृपतेर्भारतस्य महात्मनः ।
यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥ १.१०६.५१ ॥
此处亦述说那位伟大心灵的婆罗多王族之君的大福运。他那光辉的史诗称为《摩诃婆罗多》。