摩诃婆罗多 · 章 1.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.11.1
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः ।
भृशं संशितवाक्तात तपोबलसमन्वितः ॥ १.११.१ ॥
从前我有一位朋友,名叫卡迦摩,是一位婆罗门,孩子,他言辞锋利,具有苦行的力量。
1.11.2
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम् ।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै ॥ १.११.२ ॥
童年嬉戲時,我用草做了一條蛇;他正專注於火祭,受驚之下真的昏厥過去。
1.11.3
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः ।
नर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥ १.११.३ ॥
他恢復知覺後,那位苦行者彷彿因憤怒而燃燒,對我說話,言語真實,誓願嚴峻。
1.11.4
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया ।
तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि ॥ १.११.४ ॥
你为了吓唬我而做的这条蛇有多大力量,你因我的诅咒也将成为同样有力的蛇。
1.11.5
तस्याहं तपसो वीर्यं जानन्नासं तपोधन ।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा ॥ १.११.५ ॥
我不知道他苦行的力量,哦,富于苦行者;我的心深感不安,于是我当时对他说了话。
1.11.6
प्रणतः संभ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः ।
सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥ १.११.६ ॥
我惊慌地俯身,合掌站在他面前,微笑着说:“朋友”,这件事我只是为了和你开玩笑才做的。
1.11.7
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् ।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥ १.११.७ ॥
婆罗门啊,请你宽恕我;愿这诅咒被收回。那时,他看见我心中极为惶恐,便对我说道。
1.11.8
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः ।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन ॥ १.११.८ ॥
他屡次叹出热气,深感惊慌,这位以苦行为财富的人说道:我所说的并非虚妄;此事无论如何必将发生。
1.11.9
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन ।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ ॥ १.११.९ ॥
现在请听我对你说的话,哦,以苦行为财富的人。哦,无罪的人,愿你听闻之后,我这句话永远留在你的心中。
1.11.10
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः ।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव।
एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान् ॥ १.११.१० ॥
名为鲁鲁的纯洁之子,即普拉玛蒂之子,将会降生。见到他,你的诅咒便会解除,不会等待很久。被他这样告知之后,我便获得了蛇的形体。
1.11.11
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च ।
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम् ॥ १.११.११ ॥
你正是那名叫鲁鲁、又是普拉玛蒂之子的人。现在我恢复自己的形体,今天要对你说有益的话。
1.11.12
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा ।
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः ॥ १.११.१२ ॥
于是,那位婆罗门中的雄牛、大名声者,舍弃了顿顿布之形,又重新获得了自己光辉的本相。
1.11.13
इदं चोवाच वचनं रुरुमप्रतिमौजसम् ।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर ॥ १.११.१३ ॥
他对无与伦比的勇力者鲁鲁说了这些话:不杀生是一切众生中最高的法。
1.11.14
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः ॥ १.११.१४ ॥
因此婆罗门绝不可伤害任何有生命的众生;在此世间婆罗门本当温和,这是至高的天启之言。
1.11.15
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः ।
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् ॥ १.११.१५ ॥
通晓吠陀及其支分、以施无畏于一切众生著称者——不杀生、诚实之语与忍辱,此乃定论。
1.11.16
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च ।
क्षत्रियस्य हि यो धर्मः स नेहेष्येत वै तव ॥ १.११.१६ ॥
婆罗门的最高之法是受持吠陀;而刹帝利之法,你在此不应求取。
1.11.17
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ।
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो ॥ १.११.१७ ॥
执持刑杖、严厉刚猛、庇护臣民,这才是刹帝利的职事。鲁鲁啊,请听我说。
1.11.18
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा ।
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि ॥ १.११.१८ ॥
在此次遮那弥阇耶的祭祀中,往昔曾杀害蛇众;而受惊的蛇众也得到了拯救,甚至是由一位婆罗门所救。
1.11.19
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ।
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥ १.११.१९ ॥
由阿斯提卡(Āstīka)——他具足苦行与勇力,精通吠陀与吠陀支分,是再生者中的第一人——在蛇祭中,哦,再生者中最殊胜者。