摩诃婆罗多 · 章 1.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.110.1
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः ।
साहं धर्माच्च कामाच्च विहीना शोकधारिणी ॥ १.११०.१ ॥
"因为我先前属于他人,愚蠢的沙尔瓦不愿接纳我。我失去了法与欲,只能承受悲伤。"
1.110.2
अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः ।
इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति ॥ १.११०.२ ॥
"我失去丈夫,四面八方向所有刹帝利呼喊。刹帝利们啊,这花环属于你们,因为它将杀死毗湿摩。"
1.110.3
अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति ।
तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः ॥ १.११०.३ ॥
"谁能使毗湿摩被杀,我便成为他的妻子。就这样流浪,我的五年已经过去了。"
1.110.4
नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात् ।
अगच्छत्सोमकं साऽम्बा पाञ्चालेषु यशस्विनम् ॥ १.११०.४ ॥
"因惧怕毗湿摩的缘故,没有一位刹帝利愿意庇护她。于是安婆前往般遮罗人中有名的苏摩迦那里。"
1.110.5
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम् ।
सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम् ॥ १.११०.५ ॥
"她来到他的面前——他言出必行,是伟大的弓箭手,专注于真理与法——在大厅门口,那里有般遮罗人守卫着。"
1.110.6
पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ ।
भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे ॥ १.११०.६ ॥
"这位手臂美丽的女子举起双臂,向般遮罗王呼喊道:“我正被毗湿摩击伤,仿佛沉入湖中一般。”"
1.110.7
यज्ञसेनाभिधावेह पाणिमालम्ब्य चोद्धर ।
तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः ॥ १.११०.७ ॥
祭祀之生啊,快来这里,握住我的手把我扶起;如此,我的一切法度与唯有的欢爱享受才得以保全。
1.110.8
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ ।
न्त्येवं न विन्दामि राजन्यं शरणं क्वचित् ॥ १.११०.८ ॥
我的两个世界与名声,连根带果,都已被夺去;如此,我到处也找不到可以庇护我的刹帝利。
1.110.9
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति ।
समागम्य तु राजानो मयोक्ता राजसत्तमाः ॥ १.११०.९ ॥
难道这世界已没有刹帝利了吗,以致无依无靠之人正在沉没?诸位最优秀的国王啊,我聚集了你们这些国王,才说出这些话。
1.110.10
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः ।
इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः ॥ १.११०.१० ॥
诸位最优秀的国王啊,请大家听我所言:伊叉婆迦族中的长者,以及般遮罗族中的优秀者。
1.110.11
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत् ।
प्रसीद यज्ञसेनेह गतिर्मे भव सोमक ॥ १.११०.११ ॥
愿因你的恩惠,在此婚礼中法度不致丧失,不致败落。祭祀之生啊,请垂怜;苏摩迦啊,请在此做我的依靠。
1.110.12
जानामि त्वां बोधयामि राजपुत्रि विशेषतः ।
यथाशक्ति यथाधर्मं बलं संधारयाम्यहम् ॥ १.११०.१२ ॥
公主啊,我了解你,特别要告诉你:我依照自己的能力与法度,保持我的力量。
1.110.13
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे ।
तस्यापनयने हेतुं संविधातुमहं प्रभुः ॥ १.११०.१३ ॥
公主啊,若你因他国之王而有所恐惧,我有能力安排除去它的办法。
1.110.14
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः ।
ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते ॥ १.११०.१४ ॥
然而,我无法与具大神兵、善于击战的善天之子相抗衡;在刹帝利之中,力量本身遵循法。
1.110.15
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात् ।
न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम् ॥ १.११०.१५ ॥
吉祥的女子啊,你好好去吧;愿毗湿摩不要以武力烧我。你为何未被他们全都接受,我并不知道。
1.110.16
न हि भीष्मादहं धर्मं शक्तो दातुं कथंचन ।
इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत् ॥ १.११०.१६ ॥
因畏惧毗湿摩,我无论如何都不能依法给予;说完这话,她挂上花环,从国王的门前逃走了。
1.110.17
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम् ।
तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः ॥ १.११०.१७ ॥
德鲁帕达跟随着她——她在所有世界中被摒弃,以苦行锤炼其誓愿——一再说着安慰的话语。
1.110.18
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय ॥ १.११०.१८ ॥
吉祥的女子啊,请接受花环;不要与我们结下仇怨。
1.110.19
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते ।
न तु तस्यान्यथा भावो दैवमेतदमानुषम् ॥ १.११०.१९ ॥
“你应当如此行事”,他如此期望;但他的心意并非另有所图。这是天命,非人力所能为。
1.110.20
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते ।
स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् ॥ १.११०.२० ॥
谁取此花环,并亲自以此相还,谁便将在战场上杀死毗湿摩——那毁我法者。
1.110.21
तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः ।
ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत ॥ १.११०.२१ ॥
德鲁帕达王将此花环保留了一段时间;之后他安心信任,默然不予理会。
1.110.22
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया ।
तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् ॥ १.११०.२२ ॥
少女尸金迪尼违逆父命,将那花环系在身上;父亲因惧怕毗湿摩的怪罪,很快便将她舍弃。
1.110.23
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम् ।
गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी ॥ १.११०.२३ ॥
她惶恐不安,前往在恒河门(Gaṅgādvāra)修苦行的婆罗门伊什卡,以求其欢心。
1.110.24
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः ।
गङ्गाद्वारे विभजनं भविता नचिरादिव ॥ १.११०.२४ ॥
这位最贤的仙人因她的侍奉而欢喜,对她说:“在恒河门,不久将会有一次分离。”
1.110.25
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम् ।
आराधयितुमीहस्व सम्यक्परिचरस्व तम् ॥ १.११०.२५ ॥
你要在那里努力取悦乾闥婆之王、外貌和善的敦睢卢,并好好地侍奉他。
1.110.26
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने ।
तं तदाचर भद्रं ते स ते श्रेयो विधास्यति ॥ १.११०.२६ ॥
我也将在此辅助你,光彩照人的女子。你就照此去做吧,愿你吉祥。他会为你成就福祉。
1.110.27
ततो विभजनं तत्र गन्धर्वाणामवर्तत ।
तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ ॥ १.११०.२७ ॥
此后,乾闥婆在那里进行了分配。那里剩下两位乾闥婆,他们无量且已出生。
1.110.28
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह ।
इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते ॥ १.११०.२८ ॥
二者之中有一位看着她,想要成为女子,便说道:「你拿去这男性之形吧;我为你选择女性之形。」
1.110.29
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ ।
ततः पुमान्समभवच्छिखण्डी परवीरहा ॥ १.११०.२९ ॥
二人在那里立下约定:一人为女,一人为男。于是成为男子的那位就是屠杀敌方英雄的尸吉丹底。
1.110.30
स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः ।
लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः ॥ १.११०.३० ॥
那位乾闥婆化为女身,满心欢喜地离去;而名声显赫的般遮罗之子(尸吉丹底)得到了极大的喜悦。
1.110.31
ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत् ।
तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः ॥ १.११०.३१ ॥
随后他前往布德布达卡,再次修习兵器;在那里成就了神圣兵器,他光辉极盛。
1.110.32
स्वदेशमभिसंपदे पाञ्चालं कुरुनन्दन ।
सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः ॥ १.११०.३२ ॥
库鲁之喜的人啊,他回到自己的国家般遮罗。那位大弓箭手向父亲的双足行礼,合掌而立。
1.110.33
उवाच भवता भीष्मान्न भेतव्यं कथंचन ॥ १.११०.३३ ॥
他说道:“你们绝不必对毗湿摩感到恐惧。”