Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.113

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.113.1

जामदग्न्येन रामेण पितुर्वधममृष्यता ।
राजा परशुना पूर्वं हैहयाधिपतिर्हतः ॥ १.११३.१ ॥

耶摩陀那之子罗摩,不忍其父被杀,昔日以斧杀死了哈依呵耶之主的国王。

1.113.2

शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै ।
लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः ॥ १.११३.२ ॥

阿周那的数百个十臂之人被砍断手臂;由此世间之法得以施行,此事实在极难做到。

1.113.3

पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता ।
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥ १.११३.३ ॥

他再次拿起弓,发射大神兵,在战车上获胜,征服大地,一再焚毁刹帝利阶层。

1.113.4

एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना ।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ १.११३.४ ॥

如此,这位大德的婆利古后裔,以高低各种武器,昔日二十一次使大地没有刹帝利。

1.113.5

एवं निःक्षत्रिये लोके कृते तेन महर्षिणा ।
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ॥ १.११३.५ ॥

世界被那位大仙如此变得没有刹帝利之后,于是四面八方所有刹帝利妇女聚集在一起……

1.113.6

उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः ।
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् ॥ १.११३.६ ॥

由精通吠陀的婆罗门生育了子嗣;吠陀中确定,那孩子是执手之夫的儿子。

1.113.7

धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ।
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥ १.११३.७ ॥

她们心中牢记法(dharma),前往婆罗门处。在世间,也见到刹帝利之中有再嫁(punarbhava)的习俗。

1.113.8

ततः पुनः समुदितं क्षत्रं समभवत्तदा ।
इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम् ॥ १.११३.८ ॥

那时,刹帝利之族再次繁盛兴起。在此我也要讲述这段古老的传说。

1.113.9

अथोचथ्य इति ख्यात आसीद्धीमानृषिः पुरा ।
ममता नाम तस्यासीद्भार्या परमसंमता ॥ १.११३.९ ॥

往昔有一位名为奥质特亚(Auchathya)的智慧仙人,他的妻子名叫摩摩塔(Mamatā),深受敬重。

1.113.10

उचथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतामन्वपद्यत ॥ १.११३.१० ॥

奥质特亚的幼弟、诸天神的祭司、极具光辉的布利哈斯帕蒂(Bṛhaspati)与摩摩塔结合。

1.113.11

उवाच ममता तं तु देवरं वदतां वरम् ।
अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥ १.११३.११ ॥

摩摩塔对那位最善言辞的小叔说:"我已怀有长兄之子,所以你停下吧。"

1.113.12

अयं च मे महाभाग कुक्षावेव बृहस्पते ।
औचथ्यो देवमत्रापि षडङ्गं प्रत्यधीयत ॥ १.११३.१२ ॥

噢,大福的布利哈斯帕蒂!此子就在我腹中;而这位奥质特亚之子,已在胎中学习六吠陀支。

1.113.13

अमोघरेतास्त्वं चापि द्वयोर्नास्त्यत्र संभवः ।
तस्मादेवं गते त्वद्य उपारमितुमर्हसि ॥ १.११३.१३ ॥

你也是永不虚耗精气之人,你们二人在此不会有子嗣。既然事已至此,你现在应当停止。

1.113.14

एवमुक्तस्तदा सम्यक् बृहस्पतिरुदारधीः ।
कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥ १.११३.१४ ॥

高尚智慧的木星仙人虽已被如此充分地劝告,却仍无法约束自己那被欲望所控的心。

1.113.15

स बभूव ततः कामी तया सार्धमकामया ।
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥ १.११३.१५ ॥

于是他与她行欲,尽管她并不愿意。他在泄出精气之时,那位在胎中的孩子对他说话了。

1.113.16

भोस्तात मा गमः कामं द्वयोर्नास्तीह संभवः ।
अल्पावकाशो भगवन्पूर्वं चाहमिहागतः ॥ १.११३.१६ ॥

亲爱的父亲,不要沉溺于欲望;你们二人在此不会有子嗣。尊贵的人啊,我先前已来到这里,而这里给我的空间很小。

1.113.17

अमोघरेताश्च भवान्न पीडां कर्तुमर्हति ।
अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः ॥ १.११३.१७ ॥

你是永不虚耗精气之人,本不应伤害他人。然而木星仙人甚至没有听完那胎中之子的话,便……

1.113.18

जगाम मैथुनायैव ममतां चारुलोचनाम् ।
शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः ॥ १.११३.१८ ॥

他前往那位美目的玛玛塔,只为行交合之事。随后,胎中的那位仙人知道了他泄精之事,便……

1.113.19

पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः ।
स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा ॥ १.११३.१९ ॥

他以双足阻塞了精液与布利哈斯帕蒂的道路;那精液未能到达其所,随即被阻。

1.113.20

पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः ।
तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः ॥ १.११३.२० ॥

于是他忽然倒在地上;布利哈斯帕蒂见那坠落的精液,愤怒之下便诅咒了他。

1.113.21

उचथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ।
यन्मां त्वमीदृशे काले सर्वभूतेप्सिते सति ॥ १.११३.२१ ॥

诃斥胎中的乌恰提亚之子,尊贵的仙人说:「因你在此时,此乃一切众生所愿之际,……」

1.113.22

एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ।
स वै दीर्घतमा नाम शापादृषिरजायत ॥ १.११३.२२ ॥

「因你说出这样的话,你将进入长久的黑暗。」因此咒诅,那位仙人以「长暗」之名而生。

1.113.23

बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ।
जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विद्यया ॥ १.११३.२३ ॥

布利哈斯帕蒂之子,名声广大,力量如布利哈斯帕蒂,生来失明,通晓吠陀而有智慧,他凭借学识得到了一位妻子。

1.113.24

तरुणीं रुपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम् ।
स पुत्राञ्जनयामास गौतमादीन्महायशाः ॥ १.११३.२४ ॥

他与一位名为普罗德维希的年轻美丽婆罗门女子,生下了高塔摩等诸子,此人名声远扬。

1.113.25

ऋषेरुचथ्यस्य तदा सन्तानकुलवृद्धये ।
धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः ॥ १.११३.२५ ॥

当时,为了使仙人乌差提亚的子嗣与家族繁衍,那位心性正直、德行高尚、精通吠陀与吠陀支分的仙人,

1.113.26

गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः ।
प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया ॥ १.११३.२६ ॥

这位仙人已完整研习牛之法及萨乌拉贝耶典籍,满怀信心,毫无疑虑地开始去实行。

1.113.27

ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः ।
क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः ॥ १.११३.२७ ॥

那时,众多居住在净修林中的最优秀的仙人看到他行为违背礼法,都愤怒了,并被迷惑所笼罩。

1.113.28

अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति ।
तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे ॥ १.११३.२८ ॥

唉!这个违背礼法的人不配住在净修林中,因此我们大家都要抛弃这个罪人。

1.113.29

इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम् ।
पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा ॥ १.११३.२९ ॥

他们彼此商议之后,抛弃了仙人长暗。尽管得了儿子,他的妻子那时对丈夫并不满意。

1.113.30

प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत् ।
भार्याया भरणाद्भर्ता पालनाच्च पतिः स्मृतः ॥ १.११३.३० ॥

丈夫对憎恨他的妻子说:“你为何憎恨我?”丈夫因供养妻子而被称为“婆尔塔”,因保护妻子而被称为“帕蒂”。

1.113.31

अहं त्वद्भरणाशक्ता जात्यन्धं ससुतं तदा ।
नित्यकालं श्रमेणार्ता न भरेयं महातपः ॥ १.११३.३१ ॥

我无力供养你,也无法抚养这个天生失明的儿子,因为我常常为劳苦所困,大苦行者啊。

1.113.32

तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः ।
प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा ॥ १.११३.३२ ॥

圣人听了这些话,满怀愤怒,便回答那位怀有敌意的妻子,她身边还有儿子。

1.113.33

नीयतां क्षत्रियकुले धनार्थश्च भविष्यति ।
त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम् ॥ १.११३.३३ ॥

把她带到刹帝利家族去吧,她将为财富而在那里。婆罗门啊,我甚至不想要你给的财富,因为它是痛苦的根源。

1.113.34

यथेष्टं कुरु विप्रेन्द्र न भेरयं पुरा यथा ।
अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता ॥ १.११३.३४ ॥

你想怎样就怎样吧,婆罗门中的最尊者啊;我不会像从前那样供养她了。从今日起,我在世间确立了这一准则。

1.113.35

एक एव पतिर्नार्या यावज्जीवं परायणम् ।
मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम् ॥ १.११३.३५ ॥

对于女子而言,只有一位丈夫,是终身的依靠;无论他死去还是活着,她都不应再接近另一个男人。

1.113.36

अभिगम्य परं नारी पतिष्यति न संशयः ।
अपतीनां तु नारीणामद्यप्रभृति पातकम् ॥ १.११३.३६ ॥

接近另一个男人的女子无疑会堕落,毫无疑问;而对于没有丈夫的女子,从今日起,这将成为罪过。

1.113.37

यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः ।
अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै ॥ १.११३.३७ ॥

若她们有任何财富,愿一切都化为徒然的享乐;愿她们永远蒙受恶名与非议。

1.113.38

इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता ।
गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत् ॥ १.११३.३८ ॥

婆罗门妇听闻此言,大为愤怒,说道:"孩儿们,把这人带到恒河去。"

1.113.39

लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः ।
वद्ध्वोडुपे परिक्षिप्य गङ्गायां समवासृजन् ॥ १.११३.३९ ॥

那些被贪欲与迷惑所controlled的儿子们,即乔达摩等人,把他绑起来放在木筏上,抛入恒河之中。

1.113.40

कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते ।
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥ १.११३.४० ॥

他们心想:“这个瞎眼的老人为何要赡养?”想定之后,那些残忍的儿子便回家去了。

1.113.41

सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया ।
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥ १.११३.४१ ॥

那时,这位婆罗门顺着水流漂浮,偶然随着那木筏,双目失明,走过了许多地方。

1.113.42

तं तु राजा बलिर्नाम सर्वधर्मविदां वरः ।
अपश्यन्मज्जनगतः स्रोतसाऽभ्याशमागतम् ॥ १.११३.४२ ॥

然而,被誉为诸知法者中最杰出的国王名叫伯利,他在入水沐浴时,看见那人顺流来到了他的近旁。

1.113.43

जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः ।
ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थे भरतर्षभ ॥ १.११३.४३ ॥

德行高尚、真正勇武的钵利抓住了他;知晓此事后,他便为求子而许愿,婆罗多中的雄牛啊。

1.113.44

तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत् ।
सन्तानार्थं महाभाग भार्यासु मम मानद।
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥ १.११३.४४ ॥

царь-мудрец почтил отдыхавшего мудреца и сказал: 大福之人啊,赐予尊严者啊,为了子嗣,你应当在我的妻子们中生育精通法与财利的儿子。

1.113.45

तस्मैस राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥ १.११३.४५ ॥

于是国王把自己的妻子苏提西娜派给了他。

1.113.46

एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः ।
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह।
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥ १.११३.४६ ॥

被如此告知后,那位光辉的仙人说:“就这样吧。”但王后认为他既盲又老,便没有去见他,而是派自己的乳母去见那位老人。

1.113.47

तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा ।
जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥ १.११३.४७ ॥

那位正直的仙人便在她的腹中,即在首陀罗之胎中,生下了以迦克希瓦特为首的十一个儿子。

1.113.48

काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः ।
उवाच तमृषिं राजा ममेम इति भारत ॥ १.११३.४८ ॥

国王看见以迦克希瓦特为首的所有儿子都在诵习,便对那位仙人说:婆罗多啊,“这些是我的。”

1.113.49

नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत् ।
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥ १.११३.४९ ॥

大仙人说:“不。”又说:“这些迦克希瓦特等人,是我在首陀罗女的胎中所生。”

1.113.50

अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव ।
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम ॥ १.११३.५० ॥

你的王后苏代什娜见我双目失明又年老,便轻蔑地、愚昧地把一个首陀罗乳母给了我。

1.113.51

ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।
बलिः सुदेष्णां स्वां भार्यां तस्मै स प्राहिणोत्पुनः ॥ १.११३.५१ ॥

于是,巴利再次安抚了那位最优秀的仙人,又把自己的妻子苏代什娜再次送到他那里。

1.113.52

तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ।
भविष्यन्ति कुमारास्ते तेजसाऽऽदित्यवर्चसः ॥ १.११३.५२ ॥

长暗仙人以自己的肢体触碰那位王后,说道:“你将生出光辉如太阳的儿子。”

1.113.53

अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः ।
तेषां देशाः समाख्याताः स्वनामकथिता भुवि ॥ १.११३.५३ ॥

盎伽、汪伽、羯陵伽、富兰陀罗和苏摩,是你的儿子;他们的国土以他们自己的名字闻名于世。

1.113.54

अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः ।
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः ॥ १.११३.५४ ॥

盎伽之地成为盎伽,汪伽之地被称为汪伽。羯陵伽之地与羯陵伽之国也同样被人铭记。

1.113.55

पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः ।
एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः ॥ १.११३.५५ ॥

补德罗的后代被称为补德罗人,苏摩的后代被称为苏摩人。如此,在古代,出自大仙人的钵梨王族声名远扬。

1.113.56

एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ।
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः।
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥ १.११३.५६ ॥

如此,也有其他由婆罗门所生的大弓箭手刹帝利在大地上出生,他们精通至高法,勇武且力量强大。听了这些,母亲啊,你在此便依你所愿而行吧。