摩诃婆罗多 · 章 1.114
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.114.1
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये ।
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥ १.११४.१ ॥
母亲,我将确定地再次说明增进婆罗多族子嗣的方法;请听我说。
1.114.2
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् ।
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥ १.११४.२ ॥
应以财富邀请某位有德的婆罗门,让他在毗七多毗梨耶的妻子们的田地中产下子嗣。
1.114.3
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम् ।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥ १.११४.३ ॥
听了毗湿摩那与法及目的相关的话语,母亲萨谛耶婆蒂再次对毗湿摩说道。
1.114.4
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम् ।
पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु ॥ १.११४.४ ॥
关于奥迦提耶所说的这一肢分,以及这一古老的圣传,如今时机已到,请你行动。
1.114.5
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत ।
यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ ॥ १.११४.५ ॥
你,儿子,是这一家族中的长者和最优秀者,婆罗多的后裔;你父亲的话怎样,我的事也就怎样,无瑕者啊。
1.114.6
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते ।
बाल एव गतः स्वर्गं भारतो भरतर्षभ ॥ १.११४.६ ॥
我的儿子,你深爱的幼弟婆罗多,还是孩童时便升天去了,婆罗多族中的雄牛啊。
1.114.7
इमे महिष्यौ तस्येह काशिराजसुते उभे ।
रूपयौवनसंपन्ने पुत्रकामे च भारत ॥ १.११४.७ ॥
这两位王后,即迦尸王的两个女儿,容貌与青春俱全,渴望有子嗣,婆罗多啊。
1.114.8
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च ।
आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि ॥ १.११४.८ ॥
知道此事合乎法且至高,为了家族的延续,你应依我的命令与这二人履行你的职责。
1.114.9
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः ।
त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते ॥ १.११४.९ ॥
母亲啊,您所宣说的无疑是至高的法。您也知道我心中所持的那个誓言。
1.114.10
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा ।
उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन ॥ १.११४.१० ॥
即使为了不死,或为了三界的居所,我也宁愿舍弃生命,但绝不以任何方式舍弃真理。
1.114.11
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम ।
इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम ॥ १.११४.११ ॥
精通法者啊,我知道你心中的真理,真正勇武的人啊!降伏敌人者啊,你若愿意,便能在此另造三界。
1.114.12
यथा तु नः कुलं चैव धर्मश्च न पराभवेत् ।
सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि ॥ १.११४.१२ ॥
为使我们的家族与法不致败落,使朋友们欢喜,你应当这样去做。
1.114.13
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि ।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥ १.११४.१३ ॥
你确是家族的长者,尊荣最盛都在你身上。你应当向我们清楚说明延续家族血脉的办法。
1.114.14
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले ।
पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते ॥ १.११४.१४ ॥
女子总在家族中守护最高的秘密,并以种种幻术使男子顺从。
1.114.15
सा सत्यवति संपश्य धर्मं सत्यपरायणे ।
यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः ॥ १.११४.१५ ॥
啊,恪守真实的萨提亚婆提,请审视法义,使我不致舍弃真实,也使我们的家族不至衰败。
1.114.16
ततः सत्यवती भीष्मं वाचा संसज्जमानया ।
विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥ १.११४.१६ ॥
于是萨提亚婆提带着羞涩,仿佛微笑,以迟疑的言语对毗湿摩说了这番话。
1.114.17
सत्यमेतन्महाबाहो यथा वदसि भारत ।
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः ॥ १.११४.१७ ॥
啊,大臂的婆罗多,你所说的确是真的。出于信任,我将为我们家族的延续向你说明。
1.114.18
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम् ।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः ॥ १.११४.१८ ॥
这样的危难法你无法不说。在我们家族中,你就是法,你就是真实,你就是最高的归宿。
1.114.19
यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः ।
तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम्।
शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् ॥ १.११४.१९ ॥
你所说的,我们便应当去做,这是我的想法。因此,请将此视为真实并听从,然后照此行事。毗湿摩啊,请听我这句与法和利相合、利益众生的话。
1.114.20
न च विस्रम्भकथितं भवान्सूचितुमर्हति ।
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ ॥ १.११४.२० ॥
你不应泄露那被信任而说出的话。你所听闻的那位名叫婆苏的国王,啊,婆罗多族的雄牛——
1.114.21
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल ।
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् ॥ १.११४.२१ ॥
从他的精液中,我曾在鱼腹中怀孕。那位通晓至高法的渔夫达舍,将我的母亲从水中救出——
1.114.22
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत् ।
धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम ॥ १.११४.२२ ॥
他把我带回自己的家,收我为女儿。这位具足法的人,依法成为了我的父亲。
1.114.23
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम ।
सा कदाचिदहं तत्र गता प्रथमयौवनम् ॥ १.११४.२३ ॥
我那具足法的父亲,为行法而有一艘渡船。有一次,在我初入青春之时,我去了那里。
1.114.24
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः ।
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥ १.११४.२४ ॥
于是,通晓法者中最为杰出的大仙人、智慧的婆罗舍罗,想要渡过亚穆纳河,来到了渡船旁。
1.114.25
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा ।
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः।
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च ॥ १.११४.२५ ॥
他在渡我过亚穆纳河时走近我,这位贤者中最优秀的人被欲望所苦,温和地说出甜蜜的话,讲述了我的出身与家族,说你不是渔夫的女儿。
1.114.26
तमहं शापभीता च पितुर्भीता च भारत ।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥ १.११४.२६ ॥
婆罗多啊,我害怕他的诅咒,也害怕父亲,被他以难得的恩惠所打动,我不敢拒绝他。
1.114.27
प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान् ।
यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान् ॥ १.११४.२७ ॥
看见那些立于亚穆纳河对岸、如同燃烧之火般排列在河岸的大福之仙人。
1.114.28
पुरस्तादरुणश्चैव तरुणः संप्रकाशते ।
येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता ॥ १.११४.२८ ॥
东方,年轻的阿鲁那正在升起,这片天空因而展开,仿佛披上了铜色的衣裳。
1.114.29
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः ।
पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि ॥ १.११४.२९ ॥
我话音刚落,坚守真实的全能者婆罗舍罗便在亚穆纳河水中的小岛上降下了迷雾。
1.114.30
अभिभूय स मां बालां तेजसा वशमानयत् ।
तमसा लोकमावृत्य नौगतामेव भारत ॥ १.११४.३० ॥
他以光辉压倒我这少女,使我屈服;婆罗多啊,他以黑暗笼罩世界,将坐在船上的我征服。
1.114.31
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः ।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥ १.११४.३१ ॥
从前我身上的鱼腥味浓烈而令人厌恶。那位仙人除去了它,赐给我这吉祥的香气。
1.114.32
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् ।
द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥ १.११४.३२ ॥
于是那位仙人对我说:“你留下我的这个胎儿之后,在这条河的岛上你仍将是一个少女。”
1.114.33
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः ।
तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः ॥ १.११४.३३ ॥
那位博学而苦修丰厚的仙人欢喜,又赐我少女之身。我看见自己已充满了那位大德者的精气。
1.114.34
विस्मिता व्यथिता चैव प्रादामात्मानमेव च ।
ततस्तदा महात्मा स कन्यायां मयि भारत।
प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः ॥ १.११४.३४ ॥
我既惊讶又忧伤,便把自己交付出去。那时,婆罗多啊,那位大德的婆罗奢罗因我以少女之身而欢喜,便在这岛上生下了一个儿子。
1.114.35
पाराशर्यो महायोगी स बभूव महानृषिः ।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ॥ १.११४.३५ ॥
那位波罗奢罗之子成为伟大的瑜伽士和大仙。我这位少女所生之子,从前被称为二岛仙。
1.114.36
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥ १.११४.३६ ॥
那位以苦行分判四吠陀的尊贵大仙,在世间获得了毗耶娑之称;又因肤色黝黑,也得名黑天。
1.114.37
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः ।
सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः ॥ १.११४.३७ ॥
他诚实守信,专注于寂静自持,是苦行者,罪业已被焚尽。刚一出生,这位伟大者便与父亲一同离开了那里。
1.114.38
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः ।
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥ १.११४.३८ ॥
我与你明确指定的他,光辉无比,将在其兄的妻子们中生育吉祥的子嗣。
1.114.39
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति ।
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥ १.११४.३९ ॥
他在那里对我说:'遇到困难时要想起我。'大臂的毗湿摩啊,若你愿意,我便会想起他。
1.114.40
तव ह्यनुमते भीष्म नियतं स महातपाः ।
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥ १.११४.४० ॥
毗湿摩啊,若得你的同意,那位大苦行者必定会在毗湿多罗婆利耶的妻子们中生下儿子。
1.114.41
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् ।
देशकालौ च जानासि क्रियतामर्थसिद्धये। ॥ १.११४.४१ ॥
听到那位大仙的名字,毗湿摩合掌说道:'你知道地点与时机;为成就此事,就请去做吧。'
1.114.42
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् ।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥ १.११४.४२ ॥
利、利之关联,法、法之关联,欲、欲之关联,以及它们的反面——各自分别了知。
1.114.43
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान् ।
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ॥ १.११४.४३ ॥
能够深思熟虑、以坚定智慧作出决断的人,才是智者。此决定合乎法(dharma),也对我们的家族有益。
1.114.44
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम् ।
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन ॥ १.११४.४४ ॥
您所说的善言,深得我心。那时,毗湿摩做出了那项誓言,哦,俱卢族的喜悦者。
1.114.45
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ।
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् ॥ १.११४.४५ ॥
迦利(Kālī)思念着牟尼黑衣·二生(Kṛṣṇa Dvaipāyana)。那位智慧的仙人正在整理吠陀,明白了母亲的心意,
1.114.46
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ।
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम् ॥ १.११४.४६ ॥
他转瞬之间无声无息地显现。哦,俱卢族的喜悦者,随后母亲依仪轨向其子致以礼敬。
1.114.47
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत ।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु ॥ १.११४.४७ ॥
她以双臂拥抱他,泪如泉涌浸湿了他。久别之后见到儿子,渔家女达舍伊(Dāśeyī)潸然泪下。
1.114.48
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च ।
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥ १.११४.४८ ॥
他以水洒向悲伤的母亲,又向大仙礼拜,长子毗耶娑(Vyāsa)于是说了这些话。
1.114.49
भवत्या यदभिप्रेतं तदहं कर्तुमागतः ।
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥ १.११४.४९ ॥
你所愿者,我来为你成就。精通法之真义者啊,请吩咐我,我必为你做你所喜欢的事。
1.114.50
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये ।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम् ॥ १.११४.५० ॥
于是祭司向那位大仙致敬,大仙依照规仪,伴随咒语接受了这份供养。
1.114.51
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः ।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ॥ १.११४.५१ ॥
依照规仪、伴随咒语受到供养后,他十分欢喜。母亲见他坐在座上,便问候他那永不衰减的安好。
1.114.52
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम् ।
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे ॥ १.११४.५२ ॥
于是萨蒂亚瓦蒂看着他,说道:智者啊,儿子同样从母亲与父亲而生。
1.114.53
तेषां पिता यथा स्वीमी तथा माता न संशयः ।
विधानविहितः स त्वं यथा मे प्रथमः सुतः ॥ १.११४.५३ ॥
正如父亲是他们的主人,母亲也是,这毫无疑问。你依规仪而生,是我的长子。
1.114.54
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ।
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः ॥ १.११४.५४ ॥
梵仙啊,毗质多毗耶是我的幼子。正如毗湿摩出自父亲一方,你也同样出自母亲一方。
1.114.55
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ।
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः ॥ १.११४.५५ ॥
无论你视他为毗奇特拉维利亚的兄弟还是儿子,此人乃檀努之子,持守真理,具真正的勇力。
1.114.56
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने ।
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च ॥ १.११४.५६ ॥
他既不在意子嗣,也不关心治理王国;因此,出于对兄弟的敬重,也为了家族的延续,你应当如此行事。
1.114.57
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ।
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च ॥ १.११४.५७ ॥
无罪之人啊,依从毗湿摩之言,遵我之命,出于对一切众生的怜悯,也为了保护他们。
1.114.58
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ।
यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे ॥ १.११४.५८ ॥
我出于慈悲所言,你听后应当照做:那位幼弟的两位妻子,犹如天神之女。
1.114.59
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः ।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ॥ १.११४.५९ ॥
与那两位容貌青春、渴望子嗣的女子,依法生育子嗣吧;儿啊,你确实有此能力。
1.114.60
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च ।
वेत्थ धर्मं सत्यवति परं चापरमेव च ॥ १.११४.६० ॥
这合乎此家族的延续与降生;萨提雅瓦蒂啊,你明了高低两种法。
1.114.61
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः ।
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ॥ १.११४.६१ ॥
同样,大智慧者啊,你的心志专注于法。因此,依你之命,我将以法为目的而行此事。
1.114.62
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम् ।
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् ॥ १.११४.६२ ॥
你所愿望的,我必定做到,因为这一古老之法已被见证。为兄长,我将赐予与弥陀罗、伐楼那相等的诸子。
1.114.63
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ।
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः ॥ १.११४.६३ ॥
让你的两位王后在此依法奉行我所规定的誓戒满一年;之后她们便会清净。
1.114.64
नहि मामव्रतोपेता उपेयात्काचिदङ्गना ।
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु ॥ १.११४.६४ ॥
未持誓戒的女子不可来近我;使两位王后立刻受孕吧。
1.114.65
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति ।
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता ॥ १.११४.६५ ॥
无王之国,百姓失所庇护而灭亡;一切祭祀皆废,既无雨水,也无诸神的恩惠。
1.114.66
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो ।
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति ॥ १.११४.६६ ॥
主啊,无王之国如何能够维持?所以请受孕吧;毗湿摩会抚育他。
1.114.67
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः ।
विरूपतां मे सहतां तयोरेतत्परं व्रतम् ॥ १.११४.६७ ॥
“若我须在适当时候为我的兄弟生子,那么你们二人应当忍受我的丑陋;这便是你们最高的誓愿。”
1.114.68
यदि मे सहते गन्धं रूपं वेषं तथा वपुः ।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥ १.११४.६८ ॥
“若她能忍受我的气味、形貌、衣着和身体,那么,考萨利亚啊,她今日便应怀上一个卓越的胎儿。”
1.114.69
तस्यापि च शतं पुत्रा भवितारो न संशयः ।
गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः ॥ १.११४.६९ ॥
“他也将有一百个儿子,毫无疑问。他们将是库鲁族的守护者,也是你悲伤的消除者。”
1.114.70
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा ।
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता ॥ १.११४.७० ॥
大光明的毗耶娑如此对萨提婭瓦蒂说完之后,考萨利亚身穿洁净的衣裳、盛装打扮,正躺在床榻上。
1.114.71
समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः ।
ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् ॥ १.११४.७१ ॥
“愿她愿与我相合。”说完此话,那位仙人便隐去了。随后,那位天后走向她的儿媳,在僻静处与她相见。
1.114.72
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ।
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत् ॥ १.११४.७२ ॥
她说出了合乎法义、有利于事、对人有益的话:“考萨利亚啊,请理解我要告诉你的法之道理。”
1.114.73
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् ।
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् ॥ १.११४.७३ ॥
显然,婆罗多族因我的命运衰败而将被断绝。见我悲痛,见父族受难,
1.114.74
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये ।
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा ॥ १.११४.७४ ॥
为了这个家族的兴盛,毗湿摩给了我明智的建议。而这智慧取决于你,女儿;请这样助我实现。
1.114.75
नष्टं च भारतं वंशं पुनरेव समुद्धऱ ।
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ॥ १.११४.७५ ॥
请重新振兴已经灭绝的婆罗多族。美腰的女子啊,生下一个如天王般光彩的儿子吧。
1.114.76
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ।
एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा ॥ १.११४.७६ ॥
他将承担我们家族沉重的王国重担。说完这话,女神萨提亚瓦蒂便对她的儿媳说道。
1.114.77
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् ।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ १.११४.७७ ॥
她依法想方设法劝说这位行法的女子,然后供养了婆罗门、天仙和客人。