Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.115

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.115.1

ततः सत्यवती काले वधूं स्नातामृतौ तदा ।
संवेशयन्ती शयने शनैर्वचनमब्रवीत् ॥ १.११५.१ ॥

此时,萨提亚瓦蒂在适当的时候,让刚完成月经沐浴的儿媳躺在床上,轻声说了这些话。

1.115.2

कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति ।
अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति ॥ १.११५.२ ॥

考萨利亚啊,你的小叔子在此;他今天会来到你身边。请保持警觉等待他,午夜时他必定会来。

1.115.3

श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे ।
साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥ १.११५.३ ॥

听了婆婆的话,她躺在美好的床上,便想起了毗湿摩和其他俱卢族的俊杰。

1.115.4

ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः ।
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥ १.११५.४ ॥

那时,午夜时分,人们大多已入睡,灯火仍在燃烧,尊贵的仙人走入了寝室。

1.115.5

ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः ।
जगाम तस्याः शयनं विपुले तपसि स्थितः ॥ १.११५.५ ॥

那时,这位言语真实、安住于广大苦行中、首先被指派给安比卡的仙人,走向她的床榻。

1.115.6

तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता ।
विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता ॥ १.११५.६ ॥

考萨利亚见到他,觉得与他不相配,又惊恐地想:“他丑陋不堪。”于是缩成一团,闭上了眼睛。

1.115.7

विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः ।
सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः ॥ १.११५.७ ॥

他形貌丑陋,满头乱发,颜色暗淡,粗糙消瘦,气味不香,且无论如何都难以接近。

1.115.8

तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने ।
बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत् ॥ १.११५.८ ॥

她看见他赤褐色的乱发、炯炯有神的双眼和棕色的胡须,便闭上了眼睛。

1.115.9

संभूव तया सार्धं मातुः प्रियचिकीर्षया ।
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥ १.११५.९ ॥

他为了讨母亲欢心,与她结合;但因为恐惧,迦尸王之女连看他一眼都不敢。

1.115.10

ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह ।
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥ १.११५.१० ॥

于是母亲来到已经走出的儿子身边,说道:“孩子,她会生下一位有德的王子吗?”

1.115.11

निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः ।
प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः ॥ १.११५.११ ॥

毗耶娑听了母亲的话——他是萨蒂亚瓦蒂之子,拥有超越感官的智慧,受命运驱使——便说道。

1.115.12

नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः ।
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥ १.११५.१२ ॥

“他将拥有万头象的生命力,博学,是王仙中最杰出者,大福大德,大勇大智。”

1.115.13

तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः ।
किंतु मातुः स वैगुण्यादन्ध एव भविष्यति ॥ १.११५.१३ ॥

这位大德之人也将有一百个儿子,但因母亲的缺陷,他将成为盲人。

1.115.14

तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत् ।
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥ १.११५.१४ ॥

母亲听了他的话,对儿子说:“苦行之财啊,盲人不适合做库鲁族的国王。”

1.115.15

ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् ।
अपरस्यामपि पुनर्मम शोकविनाशनम् ॥ १.११५.१५ ॥

一位守护宗族的人,一位增添祖先血脉的人,一位即使由另一位妻子所生也能消除我悲痛的人。

1.115.16

तस्मादवरजं पुत्रं जनयान्यं नराधिपम् ।
भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी ॥ १.११५.१६ ॥

因此,再生一个幼子,使他成为人主;而这位年轻的弟媳,容貌与青春俱全。

1.115.17

अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम् ।
द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥ १.११५.१७ ॥

奉我之命,让她生下德行更为优越的后代;你应当为库鲁族再赐予一位君王。

1.115.18

स तथेति प्रतिज्ञाय निश्चक्राम महायशाः ।
साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥ १.११५.१८ ॥

那位大名之人应许说:“就这样吧”,随即离去。那位女子也在适当的时候,生下了那个盲眼之子。

1.115.19

पुनरेव तु सा देवी परिभाष्य स्नुषां ततः ।
ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम ॥ १.११५.१९ ॥

于是女神萨蒂亚瓦蒂与儿媳交谈后,像先前一样召来了那位仙人,啊,降伏敌人者。

1.115.20

अम्बालिकां समाहूय तस्यां सत्यवती सुतम् ।
भूयो नियोजयामास सन्तानाय कुलस्य वै ॥ १.११५.२० ॥

萨蒂亚瓦蒂召来安巴利卡,为延续家族又让她再次生下一子。

1.115.21

विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे ।
कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते ॥ १.११५.२१ ॥

悲伤的贤德安巴利卡坐在最好的床上,思量着“谁会来呢?”,克制地等待着。

1.115.22

ततस्तेनैव विधिना महर्षिस्तामपद्यत ।
अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम् ॥ १.११५.२२ ॥

随后,大仙人依照同样的仪式来到她身边。安巴利卡见到这位仙人,也走近了。

1.115.23

विवर्णा पाण्डुसंकाशा समपद्यत भारत ।
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत ॥ १.११५.२३ ॥

婆罗多的后裔啊,她变得面色苍白、失去光彩。婆罗多啊,见她惊恐、苍白而忧伤。

1.115.24

व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ।
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥ १.११५.२४ ॥

萨蒂亚瓦蒂之子毗耶娑说了这些话:“因为你见到我这丑陋的模样,才变得面色苍白……”

1.115.25

तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति ।
नाम चास्यैतदेवेह भविष्यति शुभानने ॥ १.११५.२५ ॥

因此你的这个儿子必定名为般度。在此他的名字也正是如此,吉祥面的女子啊。

1.115.26

इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ।
ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत् ॥ १.११५.२६ ॥

说完这些,那位尊贵的圣者,诸仙中最优秀的,便离去了。随后,看到他离去,萨蒂亚伐蒂对她的儿子说道。

1.115.27

कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः ।
शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥ १.११५.२७ ॥

孩子啊,告诉我,儿子:这里是否也会有吉祥之事?他又向母亲说明了那个孩子的苍白之相。

1.115.28

भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः ।
पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति ॥ १.११५.२८ ॥

这个孩子将极为勇猛,名闻四方。他肤色的苍白将因母亲的过错而产生。

1.115.29

तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै ।
इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥ १.११५.२९ ॥

他将有五个儿子,都是伟大的射手。说完这些,他在那里向母亲行礼后便离去了。

1.115.30

तं माता पुनरेवान्यमेकं पुत्रमयाचत ।
तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥ १.११५.३० ॥

母亲又向他求另一个儿子。那位大仙对这位母亲说道:“就这样吧。”

1.115.31

ततः कुमारं सा देवी प्राप्तकालमजीजनत् ।
पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया ॥ १.११५.३१ ॥

那位天女在适当的时候生下一子,具有般度的相貌特征,光辉闪耀如同华彩。

1.115.32

यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ।
तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः ॥ १.११५.३२ ॥

她所生的五位大弓手,即般度五子,皆在其中;她二人的一切诞生礼仪都依法依次举行。

1.115.33

कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः ।
अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम् ॥ १.११५.३३ ॥

毗湿摩请精通吠陀的婆罗门主持仪式。见安比迦之子生而失明,萨提亚瓦蒂之子……

1.115.34

कौसल्यार्थे समाहूय पुत्रमन्यमयाचत ।
अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम् ॥ १.११५.३४ ॥

为了考萨利雅,她召来他,请求另一个儿子:“此子是盲人;我希望考萨利雅所生的吉祥之子。”

1.115.35

एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत ।
नियता यदि कौसल्या भविष्यति पुनःशुभा ॥ १.११५.३५ ॥

大仙听了她的话,回答那位母亲道:“若考萨利雅保持克己,她将再次获得吉祥。”

1.115.36

भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित् ।
तां समाधाय वै भूयः स्नुषां सत्यवती पुनः ॥ १.११५.३६ ॥

她将生一子,通晓法典的真义。其后萨提亚瓦蒂再次为儿媳做好准备……

1.115.37

ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् ।
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं ॥ १.११५.३७ ॥

随后在经期之时,她没有把长媳送到他那里;而是考虑到那位大仙的容貌与香气——

1.115.38

नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ।
ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम् ॥ १.११५.३८ ॥

因为害怕王后,这位如天神之女的媳妇没有听从她的话;于是她用自己的首饰把一名婢女装扮得如天女一般——

1.115.39

प्रेषयामास कृष्णाय ततः काशिपतेः सुता ।
सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च ॥ १.११५.३९ ॥

随后,迦尸王的女儿把那名婢女派往黑天(毗耶娑)处。那位仙人到来时,她迎上前去向他恭敬行礼。

1.115.40

संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ।
वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च ॥ १.११५.४० ॥

得到许可后,她进入他的居所,尊敬地侍奉他;以柔和的言语、姿态和身体的触碰,使他欢悦。

1.115.41

कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः ।
तया सहोषितो राजन्महर्षिः संशितव्रतः ॥ १.११५.४१ ॥

在私下的欢愉中,那位仙人在她身上获得了满足。国王啊,那位持守严谨誓愿的大仙与她同居。

1.115.42

उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि ।
अयं च ते शुभे गर्भः श्रेयानुदरमागतः।
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥ १.११५.४२ ॥

起身时他对她说:“你不会成为婢女,你将是自由之身。吉祥的女子啊,这个优秀的胎儿已进入你的腹中;他将心怀正法,在世间是一切智者中最杰出的。”

1.115.43

स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः ।
धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः ॥ १.११५.४३ ॥

他名为毗都罗,是黑仙(Kṛṣṇa Dvaipāyana)之子,实为持国之弟,也是大德般度之弟。

1.115.44

धर्मो विदुररूपेण शापात्तस्य महात्मनः ।
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥ १.११५.४४ ॥

因大德曼达维耶的诅咒,法(Dharma)自身化为毗都罗;他通晓义之真谛,离于欲与怒。

1.115.45

कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् ।
प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च ॥ १.११५.४५ ॥

黑仙也将此事告知萨蒂亚婆蒂:自己的欺骗,以及从首陀罗女子所生之子。

1.115.46

स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च ।
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥ १.११५.४६ ॥

他摆脱了对法的债务,再次与母亲相见,告知她腹中胎儿之事,随即就在那里隐没了。

1.115.47

एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि ।
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥ १.११५.४७ ॥

这些孩子也是在毗质罗婆利耶的妻子之田中,由黑仙所生,光彩如同天神的胎儿,增益了俱卢族。