Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.118.1

धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि ।
एषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्।
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥ १.११८.१ ॥

当三位王子持国、般度和大德的毗杜罗诞生时,俱卢-闍安伽罗之地、俱卢族与俱卢之野这三者都繁荣起来。

1.118.2

ऊर्ध्वसस्याऽभवद्भूमिः सस्यानि फलवन्ति च ।
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥ १.११८.२ ॥

大地生出高高的庄稼,庄稼也结出果实;云雨按时降落,树木开满繁花、结满硕果。

1.118.3

वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः ।
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ १.११८.३ ॥

车乘之畜欢欣雀跃,鹿与鸟也喜悦;花环变得芬芳,果实变得鲜美。

1.118.4

वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः ।
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥ १.११८.४ ॥

于是城市里挤满了商人与工匠;勇士、学者和善人都过得幸福。

1.118.5

नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः ।
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥ १.११८.५ ॥

既无盗贼,也无喜好不义之人;即便在诸国的各地,也是圆满之时代(克利塔时代)盛行。

1.118.6

धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः ।
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥ १.११८.६ ॥

行法事、好祭祀、专守真实誓愿、彼此相亲相爱的人民,那时便昌盛起来。

1.118.7

मानक्रोधविहीनाश्च नरा लोभविवर्जिताः ।
अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत ॥ १.११८.७ ॥

无慢无怒、远离贪欲之人彼此欢迎,法凌驾于一切之上而行。

1.118.8

तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत ।
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥ १.११८.८ ॥

那座城市如大海般充盈而光彩照人,门户、门楼与探出的檐廊宛如堆积的云朵。

1.118.9

प्रसादशतसंबाधं महेन्द्रपुरसन्निभम् ।
नदीषु वनखण्डेषु वापीपल्वलसानुषु।
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥ १.११८.९ ॥

这座城市拥有数百座殿堂,宛如因陀罗之城。居民欢欣地在河畔、林园、阶井与池塘岸边以及美丽的森林中游乐。

1.118.10

उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तथा ।
विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः ॥ १.११८.१० ॥

与北方的俱卢人、南方的俱卢人相互竞争而往来,与天仙和乾闼婆等也同样往来。

1.118.11

नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ।
तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते ॥ १.११८.११ ॥

在这由俱卢人使之富饶的美好国土中,没有一个可怜之人,妇女也没有寡居者。

1.118.12

कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ।
बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः ॥ १.११८.१२ ॥

在那个国家,井泉、园林、议会厅、池塘以及婆罗门的住所都充满各种繁荣,节日也总是不断。

1.118.13

भीष्मेण धर्मतो राजन्सर्वतः परिरक्षिते ।
बभूव रमणीयश्च चैत्ययूपशताङ्कितः ॥ १.११८.१३ ॥

君王啊,那片土地在毗湿摩依法周全四面守护之下,变得秀美,遍布数百座圣祠与祭柱。

1.118.14

स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः ।
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥ १.११८.१४ ॥

那片土地扫清了外国,大为兴盛;毗湿摩在国中所立的法轮得以持续运转。

1.118.15

क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् ।
पौरजानपदाः सर्वे बभूवुः परमोत्सुकाः ॥ १.११८.१५ ॥

在诸位大德王子举行各项仪式与职事之时,城中与乡间之人皆极为热切。

1.118.16

गृहेषु कुरुमुख्यानां पौराणां च नराधिप ।
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥ १.११८.१६ ॥

人主啊,在诸位俱卢首领与市民的家中,到处都听见人们说:“给予吧,吃吧。”

1.118.17

धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः ।
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥ १.११८.१७ ॥

自出生起,毗湿摩便如抚育亲子一般照护持养着持国、般度与大智的毗杜罗。

1.118.18

संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः ।
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥ १.११८.१८ ॥

他们受诸般仪式净化,专心于誓戒与诵习,精于勤劳与操练,终于步入青年。

1.118.19

धनुर्वेदे च वेदे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः ॥ १.११८.१९ ॥

他们精通弓箭之学与吠陀,精通棍棒战、剑与盾,同样精通驯象之术和政治学论著。

1.118.20

इतिहासपुराणेषु नानाशिक्षासु बोधिताः ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः ॥ १.११८.२० ॥

他们受教于史诗与往世书及诸般学问,通晓吠陀与吠陀支分的真义,处处意志坚定。

1.118.21

वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः ।
भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ॥ १.११८.२१ ॥

精研吠陀、精通政治学论著的俱卢王持国,由毗湿摩为之加冕。

1.118.22

धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायामस्त्रेषु विविधेषु च ॥ १.११८.२२ ॥

精于弓箭之学、骑术、棍棒战、剑与盾,同样精于驯象之术及各种兵器。

1.118.23

अर्थधर्मप्रधानासु विद्यासु विविधासु च ।
गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः ॥ १.११८.२३ ॥

当般度精通以利益与法为主的诸般学问之后,他被任命为军队统帅。

1.118.24

पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यदिकोऽभवत् ।
अन्येभ्यो बलवानासीद्धृतराष्ट्रो महीपतिः ॥ १.११८.२४ ॥

般度善射而勇猛,成为人中之最;而持国王则比其他人更为强大。

1.118.25

अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः ।
भीष्मेण सर्वधर्माणां प्रणेता विदुरः कृतः ॥ १.११८.२५ ॥

虽然年少,维杜罗已是尊贵人主的大臣;毗湿摩任命他为一切法的指导者。

1.118.26

सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा ।
भावेनागमयुक्तेन सर्वं वेदयते जगत् ॥ १.११८.२६ ॥

他通晓一切经典的真义,精于智慧与记忆,年轻的他凭其天性与合于传统的学识,向世间阐明一切。

1.118.27

त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः ।
धर्मनित्यस्तथा राजन्धर्मं च परमं गतः ॥ १.११८.२७ ॥

大王啊,三界之中没有能与维杜罗相比的人;他恒常安住于法,达到了至上之法。

1.118.28

प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् ।
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥ १.११८.२८ ॥

见到山塔努的王统几近覆灭而又重新兴起,于是在世间及一切国土中便颁布了决定。

1.118.29

वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् ।
सर्वध्रमविदां भीष्मः पुराणां गजसाह्वयम् ॥ १.११८.२९ ॥

迦尸公主之子啊:在出英雄之母的诸国中,有俱卢阇跋罗;在通晓一切法者所居的城市中,有象城(憍卢那伽罗,即象城 Hāstinapura)——这些是毗湿摩所选定的。

1.118.30

धृतराष्ट्रस्त्वचक्षुष्ट्वाद्रज्यं न प्रत्यपद्यत ।
पारसवत्वाद्विदुरो राजा पाण्डुर्बभूव ह ॥ १.११८.३० ॥

然而,因为失明,持国未能得到王位;因为是 pāraśava 出身,维杜罗也未能成为国王;于是般度成了国王。

1.118.31

अथ शुश्राव विप्रेभ्यः कुन्तिभोजमहीपतेः ।
रूपयौवनसंपन्नां सुतां सागरगासुतः ॥ १.११८.३१ ॥

此时恒河之子从婆罗门那里听说,大地之主군 Kuntibhoja 的女儿容貌青春兼备。

1.118.32

सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् ।
सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि ॥ १.११८.३२ ॥

他还听说了苏巴拉那位吉祥的女儿、犍陀罗之主的女儿,以及摩德罗王的女儿,她们在大地上的美貌无可比拟。

1.118.33

कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः ।
विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् ॥ १.११८.३३ ॥

有一次,在所有通晓治政之道的人中最为杰出的恒河之子毗湿摩,对通晓法之本义的维杜罗说了恰当的话。