摩诃婆罗多 · 章 1.119
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.119.1
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् ।
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥ १.११९.१ ॥
我们这个家族充满美德而闻名,分享大地上的至上王权,超越其他大地的守护者。
1.119.2
रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः ।
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥ १.११९.२ ॥
往昔由知晓法的大德诸王所守护,我们这个家族从未走向衰亡。
1.119.3
मया च सत्यवत्या च कृष्णेन च महात्मना ।
समवस्थापित भूयो युष्मासु कुलतन्तुषु ॥ १.११९.३ ॥
由我、萨蒂亚瓦蒂以及大德的黑天,这个家族再次稳固地在你们这些家族之线中得以确立。
1.119.4
तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा ।
तथा मया विधातव्यं त्वया चैव न संशयः ॥ १.११९.४ ॥
此家族如大海般日益增长;因此我应当如此行,你也必定如此,此无疑问。
1.119.5
श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः ।
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥ १.११९.५ ॥
据说,一位耶达瓦族的少女很适合我们的家族,苏巴拉之女与摩德罗王之女亦然。
1.119.6
कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः ।
उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः ॥ १.११९.६ ॥
孩子,那些少女出身高贵、容貌美丽,各方面都很合适;诸刹帝利中的俊杰啊,她们适合与我们结成姻亲。
1.119.7
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर ।
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥ १.११९.७ ॥
毗湿摩说:智者中最优秀的人啊,我认为应当为了这个家族的子嗣而为她们择婿,维杜罗啊,或者按你认为适当的去做。
1.119.8
भवान्पिता भावन्माता भवान्नः परमो गुरुः ।
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥ १.११९.८ ॥
维杜罗说:您是我们的父亲,您是我们的母亲,您是我们最高的导师。因此,请您自己思量对这个家族有利的事,去做那最有益的。
1.119.9
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् ।
आराध्य वरदं देवं भगनेत्रहरं हरम् ॥ १.११९.९ ॥
随后他从婆罗门那里听说,苏跋罗之女甘陀利供奉了赐予恩惠的神哈罗(夺走薄伽眼睛者)。
1.119.10
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ।
इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः ॥ १.११९.१० ॥
吉祥的甘陀利确实得到了一百个儿子的恩惠;库鲁的祖父毗湿摩如实听闻了此事。
1.119.11
ततो गान्धारराजस्य प्रेषयामास भारत ।
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा ॥ १.११९.११ ॥
于是,婆罗多啊,他派人去告知犍陀罗王;在那里,苏跋罗思量那位新郎是否失明。
1.119.12
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ।
ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥ १.११९.१२ ॥
他以智慧仔细权衡了她的家世、名声和品行之后,便把遵循法义的甘陀利嫁给了德拉斯特拉。
1.119.13
गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम् ।
आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत ॥ १.११९.१३ ॥
此时甘陀利听闻,父母为盲人持国求娶她,婆罗多之子啊。
1.119.14
ततः सा पटमादाय कृत्वा बहुगुणं तदा ।
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥ १.११९.१४ ॥
于是她取来一块布,层层叠叠地折起,大王啊,她恪守对丈夫的贞节誓愿,蒙住了自己的双眼。
1.119.15
नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया ।
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् ॥ १.११९.१५ ॥
她如此决心:“我不会怨恨我的丈夫。”此时,甘达罗王之子沙恭尼前来。
1.119.16
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ।
तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्।
भीष्मस्यानुमते चैव विवाहं समकारयत् ॥ १.११९.१६ ॥
他将身具极盛光彩的妹妹带到俱卢族,随即将她嫁给持国。在毗湿摩的同意下,他以最隆重的礼遇安排了婚礼。
1.119.17
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् ।
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥ १.११९.१७ ॥
这位英雄将妹妹嫁出,并依礼备好嫁妆与随从,受到毗湿摩的回礼,便返回了自己的城邦。
1.119.18
गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः ।
तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥ १.११९.१८ ॥
腰身优美的甘陀利,也以her良好品性与德行的举止,让所有俱卢族人感到满意,婆罗多之子啊。
1.119.19
गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम् ।
अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत् ॥ १.११९.१९ ॥
甘陀利见到她的丈夫、那位盲目的主人,唯恐有所失礼,极为恐惧,于是思量起来。
1.119.20
सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ ।
नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा ॥ १.११९.२० ॥
她蒙住自己的眼睛,与丈夫达到了平等,从那时起,她连丝毫冒犯丈夫的过失也不曾犯。
1.119.21
वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा ।
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥ १.११९.२१ ॥
她专心侍奉丈夫,以品行使所有尊长喜悦;这位持守誓约的女子,即使口中也不提及其他男子的名字。
1.119.22
तस्याः सहोदरीः कन्याः पुनरेव ददौ दश ।
गान्धारराजः सुबलो भीष्मेण च वृतस्तदा ॥ १.११९.२२ ॥
甘陀罗国王苏婆罗又将十位少女——他自己的亲妹妹们——赠予,当时毗湿摩也选择了她们。
1.119.23
सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम् ।
तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम् ॥ १.११९.२३ ॥
萨提耶伐塔、萨提耶塞那、苏提什那与三希塔,德贾什罗瓦、苏什罗瓦,以及吉祥的尼克利提。
1.119.24
शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः ।
एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः ॥ १.११९.२४ ॥
三婆塔与达萨尔纳,这便是十位著名的甘陀利少女;人主持国的般度王妃……持国王在同一天接纳了她们。
1.119.25
ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः ।
अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम् ॥ १.११९.२५ ॥
于是,施陀奴之子、善射的毗湿摩从各处将她们聚集起来,把一百多位王室公主交给了持国。