Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.12.1

कथं हिंसितवान्सर्पान्स राजा जनमेजयः ।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम ॥ १.१२.१ ॥

那位国王阿难尼梅阳耶如何杀死了蛇?或者,最优秀的再生者啊,蛇为何在那里被杀?

1.12.2

किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता ।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः ॥ १.१२.२ ॥

那位智慧的阿斯蒂迦为何解救了蛇?最优秀的再生者啊,我想完整地听闻。

1.12.3

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् ।
ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम् ॥ १.१२.३ ॥

啰嚕啊,你将听闻婆罗门所讲述的阿斯蒂迦的伟大事迹。我实在急于启程。

1.12.4

इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ ।
संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम् ॥ १.१२.४ ॥

说完这些,那位强大的最优秀的仙人凭瑜伽之力隐去了。于是,心中满怀惊慌的啰嚕认为那奇迹十分奇异。

1.12.5

बलं परममास्थाय पर्यधावत्समन्ततः ।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥ १.१२.५ ॥

他竭尽全力,四处奔跑。寻找那位消失的仙人,他精疲力竭,倒在地上。

1.12.6

स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत् ।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः ॥ १.१२.६ ॥

他陷入极度的迷惘,仿佛失去了知觉。他一遍又一遍地思索那位仙人真实的话语。

1.12.7

लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा ।
पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत् ॥ १.१२.७ ॥

鲁鲁恢复知觉后便回来,把一切告诉了父亲;他对父亲讲述了一切,并转述了杜恩杜跋所说的有意义的话。

1.12.8

अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा ।
आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम् ॥ १.१२.८ ॥

随后他再次向父亲询问阿斯提迦的话,并让人讲述杜恩杜跋所叙述的那段故事。

1.12.9

तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः ।
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥ १.१२.९ ॥

尊者啊,我想如实听闻现在所讲述的内容。被问到时,他的父亲便把整个故事都告诉了他。