Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.120

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.120.1

शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् ।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि ॥ १.१२०.१ ॥

名为舜罗(Śūra)的雅度族最优者成为婆苏提婆的父亲。他有一个女儿名叫普利塔(Pṛthā),她在大地上容貌无与伦比。

1.120.2

पितृष्वस्रीयाय स तामनपत्याय भारत ।
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक् ॥ १.१२०.२ ॥

婆罗多啊,他先前已许诺,要把自己的长子交给无子嗣的姑母之子。他言而有信。

1.120.3

अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे ।
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥ १.१२०.३ ॥

随后,舜罗把这位长女赠予了朋友、伟大的贡提婆阇,他正渴望得到恩惠。

1.120.4

नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने ।
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम् ॥ १.१२०.४ ॥

她在父亲家中被派去款待婆罗门与客人,在那里侍奉了一位誓愿严格、性情刚烈的婆罗门。

1.120.5

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥ १.१२०.५ ॥

那位在法中意志隐秘、被称为杜尔婆娑、性情刚烈凶猛的人,她以全部努力使其欢喜。

1.120.6

दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा ।
सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा ॥ १.१२०.६ ॥

她每天以凝乳、酥油等各种美食,成千上万地供养,那位吉祥的少女以无与伦比的侍奉服侍那位瑜伽之主。

1.120.7

दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम् ।
यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥ १.१२०.७ ॥

歲末,杜尔婆娑以灾难中的法则为念,将无上的咒语授予名声显赫的普利塔。仙人将这带有诅咒之力的咒语告诉了她。

1.120.8

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति ॥ १.१२०.८ ॥

你以此咒语所召唤的任何一位神明,都将以其神力使你生下一子。

1.120.9

तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता ।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ १.१२०.९ ॥

婆罗门如此告知,怀着好奇的贞洁少女、名声显赫的贡提便呼唤太阳神阿尔迦。

1.120.10

ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा ।
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् ॥ १.१२०.१० ॥

于是太阳穿过云层开辟自己的道路,来到那位大眼睛的少女普利塔身边。

1.120.11

सा ददर्श तमायान्तं भास्करं लोकभावनम् ।
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥ १.१२०.११ ॥

她看见太阳——世界的维系者——走来。无瑕肢体的贡提见到这大奇迹,惊讶不已。

1.120.12

साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः ।
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम्।
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते ॥ १.१२०.१२ ॥

她说:「尊贵的神啊,你是谁,竟在我面前显现?我受仙人咒语的驱使而召唤了你。纯净微笑的神啊,请知道,我是为了获得儿子才召唤阿尔迦神的。」

1.120.13

पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने ।
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् ॥ १.१२०.१३ ॥

美眉的女子,听着,大眼睛、面容吉祥的女子:为你创造了一个儿子。他将佩戴耳环和我自己的铠甲。

1.120.14

शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते ।
नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति ॥ १.१२०.१४ ॥

笑容纯净的女子,他将对兵器和投掷武器刀枪不入;他所拥有的东西,没有一样会不施予婆罗门。

1.120.15

चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति ।
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति ॥ १.१२०.१५ ॥

即使我催促他,他也不会考虑不当之事;他必定会施予婆罗门,并且他将是一个自尊自重的人。

1.120.16

एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह ।
कन्या पितृसा चाहं पुरुषार्थो न चैव मे ॥ १.१२०.१६ ॥

如此被召唤,贡提对牛主(太阳)说:我是未嫁的少女,也是我父亲的姐妹;这件事不是我的目的,不是男子的事务。

1.120.17

कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन् ।
तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो ॥ १.१२०.१७ ॥

灭敌者啊,某位婆罗门赐予我一个恩惠与一道咒语;我想要试验它,故而,主啊,我召唤了你。

1.120.18

एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये ।
योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः ॥ १.१२०.१८ ॥

为这过错,我低头向你求恕;女子应当时时受到保护,即使她们犯了过错,也应当始终受到保护。

1.120.19

वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ ।
संत्यज्य भयमेवेह क्रियतां सङ्गमो मम ॥ १.१२०.१९ ॥

此事我全都知道,即杜尔婆娑所赐的恩惠。此处且舍去恐惧,与我结合吧。

1.120.20

अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे ।
वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः ॥ १.१२०.२० ॥

我的显现并非徒然,你已召唤了我,吉祥的女子。胆怯的女子啊,即便是徒然召唤,你也会有过失,这一点毫无疑问。

1.120.21

यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् ।
यदि मामवजानासि ऋषिः स न भविष्यति ॥ १.१२०.२१ ॥

你若这样想,胆怯的女子啊,为何召唤太阳?你若轻视我,他便不是圣仙。

1.120.22

मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता ।
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा ॥ १.१२०.२२ ॥

你因获赐咒语而因傲慢自负,今日我将以愤怒燃烧的眼睛烧毁你的家族。

1.120.23

एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता ।
सा तु नैच्छद्वरारोहा कन्याहमिति भारत ॥ १.१२०.२३ ॥

毗婆娑以多种方式、温言安慰她,然而这位腰肢纤美的女子不愿,说:“我是处女。”婆罗多啊。

1.120.24

बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी ।
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ ॥ १.१२०.२४ ॥

这位因畏惧亲族、又因羞愧而心怀恐惧的名女子,太阳神又对她说道,婆罗多的雄牛啊。

1.120.25

मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत ॥ १.१२०.२५ ॥

凭我的恩典,王后,你将无过,诚如所言。

1.120.26

प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे ।
त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम् ॥ १.१२०.२६ ॥

请对我慈悲,尊者;我心中并无傲慢。少女身份的污点,唯有您能消除。

1.120.27

व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे ।
मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि ॥ १.१२०.२७ ॥

此刻你的恐惧应当消散;你将见到一个儿子。经我允许,你将再度成为少女。

1.120.28

एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा ।
सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना ॥ १.१२०.२८ ॥

如此说罢,库提喜悦得毛发竖起,眉目秀美,便与大德的太阳神结合。

1.120.29

प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः ।
तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः ॥ १.१२०.२९ ॥

光明作为的太阳神再次赐予少女以胎;于是诞生了一位英雄,为所有持兵器者中的最优秀者。

1.120.30

आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः ।
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥ १.१२०.३० ॥

身披铠甲,光彩焕发,生于天神之胎,充满荣光;穿戴与生俱来的甲胄,面庞被耳环照得光明。

1.120.31

अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ।
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः ॥ १.१२०.३१ ॥

生下一子名为迦尔纳,闻名于三界。那位光辉至上者又使她恢复了处女之身。

1.120.32

दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः ।
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा ॥ १.१२०.३२ ॥

赐予之后,苦行者中最杰出者便升上天界。见到所生的男孩,那位韦湿尼之女心中忧伤。

1.120.33

एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् ।
गूहमानापचारं सा बन्धुपक्षभयात्तदा ॥ १.१२०.३३ ॥

她专心思索,何事才能成就善行。那时,因惧怕亲族,她隐瞒自己的过失,

1.120.34

मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम् ।
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम् ॥ १.१२०.३४ ॥

她制作了一只装满珠宝的木箱,将婴儿安置于其中,贡蒂便把那位大力的男孩放入水中。

1.120.35

तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः ।
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥ १.१२०.३५ ॥

那被投入水中的胎儿,被罗陀之夫、大名的御者之子与其妻一同收为儿子。

1.120.36

नामधेयं च चक्राते तस्य बालस्य तावुभौ ।
वसुना सह जातोऽयं वसुषेणो भवत्विति ॥ १.१२०.३६ ॥

二人为这个男孩取名:"他与婆苏一同出生,故名婆苏舍那。"

1.120.37

स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् ।
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान् ॥ १.१२०.३७ ॥

他茁壮成长,精通一切兵器;这位勇武者面向太阳而立。

1.120.38

तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः ।
नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले ॥ १.१२०.३८ ॥

那时,这位智慧的英雄正在念诵咒语,他在大地上竟没有任何财富可以布施给婆罗门。

1.120.39

ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् ।
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम ॥ १.१२०.३९ ॥

后来某一时刻,在梦的末尾,太阳神化作婆罗门对迦尔纳说:“英雄,请听我的话。”

1.120.40

प्रभातायां रजन्यां त्वामागमिष्यति वासवः ।
न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति ॥ १.१२०.४० ॥

待黎明来临、夜晚过去,伐娑婆将来到你这里。不要布施给他,因为他将化作婆罗门的模样。

1.120.41

निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा ।
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम ॥ १.१२०.४१ ॥

他的意图是夺走你的铠甲和耳环,所以我提醒你。请记住我的话。

1.120.42

शक्रो मां विप्ररूपेण यदि वै याचते द्विज ।
कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः ॥ १.१२०.४२ ॥

如果帝释天化作婆罗门向我乞求,哦再生者,既然已被提醒,我怎能不给他呢?

1.120.43

विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् ।
तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे ॥ १.१२०.४३ ॥

常愿诸神之喜的婆罗门应当受到尊敬。我知道他是神中之神,我不能轻慢他。

1.120.44

यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति ।
शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम् ॥ १.१२०.४४ ॥

若是如此,听我说,英雄:他也会赐你一个恩惠。你也应求那能压制一切敌人的力量。

1.120.45

एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत ।
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा ॥ १.१२०.४५ ॥

婆罗门说完这些话,便在梦中就地消失了。迦尔纳醒来,便思索那个梦。

1.120.46

तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः ।
कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥ १.१२०.४६ ॥

为了儿子,护持众生的大光明因陀罗化作婆罗门,向他乞求耳环和铠甲。

1.120.47

उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम् ।
कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥ १.१२०.४७ ॥

他毫不犹豫地从自己身上割下流血的铠甲;割下双耳和两侧的耳环,合掌将它们奉上。

1.120.48

प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा ।
अहो साहसमित्याह मनसा वासवो हसन् ॥ १.१२०.४८ ॥

天神之主接受了它们;他对这一行为感到满意,笑着在心中说道:“啊,何等的勇气!”

1.120.49

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति ॥ १.१२०.४९ ॥

在天神、檀那婆、夜叉、乾闼婆、龙蛇与罗刹之中,我看不到将会做此事的人。

1.120.50

प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि ।
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् ॥ १.१२०.५० ॥

"我因此事而欢喜;你想要什么恩赐,就说吧。"“我想要世尊所赐、能摧毁敌人的力量(投枪)。”

1.120.51

शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत् ।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ १.१२०.५१ ॥

帝释天把那件兵器赐给他,并因惊叹而说出了关于天神、檀那婆、夜叉、乾闼婆、龙蛇与罗刹的这番话。

1.120.52

यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ।
हत्वैकं समरे शत्रुं ततो मामागमिष्यति।
इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै ॥ १.१२०.५२ ॥

“你若怀怒将它投向谁,此物便不会放过那人;在战斗中杀死一个敌人后,它就会回到我这里。”说罢,帝释天赐予他恩惠后便隐去了。

1.120.53

प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ ।
कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत् ॥ १.१२०.५३ ॥

他在大地上的旧名被称为“婆苏舍那”;因那件功业,他又成为“迦尔纳”,也称“毗迦尔塔那”。