Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.121

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.121.1

सत्वरूपगुणोपेता धर्मारामा महाव्रता ।
दुहिता कुन्तिभोजस्य पृथा पृथुललोचना ॥ १.१२१.१ ॥

贡提跋阇之女普利陀,具足善性、美貌与德行,乐于法行,持守大愿,双目宽广。

1.121.2

तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् ।
व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम् ॥ १.१२१.२ ॥

某些国王欲选取那位光彩照人的少女,她容貌青春俱佳,具足女子之德。

1.121.3

ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् ।
पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम ॥ १.१२१.३ ॥

于是贡提跋阇王召集诸王,在自选夫婿的仪式上,父亲将女儿嫁出,王中之最啊。

1.121.4

ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी ।
ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम् ॥ १.१२१.४ ॥

于是那位聪慧的少女在场中央诸王之间,看见了王中之虎、婆罗多族最优者般度。

1.121.5

सिंहदर्पं महोरस्कं वृषभाक्षं महाबलम् ।
आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः ॥ १.१२१.५ ॥

他有狮子般的威严,胸膛宽阔,眼如公牛,力量强大,如太阳一般,遮掩了所有国王的光辉。

1.121.6

तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम् ।
तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा ॥ १.१२१.६ ॥

他站在诸王的集会中,如同另一位因陀罗。无瑕肢体的吉祥的贡提跋阇之女看见了他,

1.121.7

पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत् ।
ततः कामपरीताङ्गी सकृत्प्रचलमानसा ॥ १.१२१.७ ॥

她在场中见到人中之雄般尊贵的般度,心中便感到激动。于是她的肢体被欲望所笼罩,心神一时动摇。

1.121.8

व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत् ।
तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः ॥ १.१२१.८ ॥

羞怯的贡提将花环挂在国王的肩上。众王听说贡提选择了般度,

1.121.9

यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा ।
ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः ॥ १.१२१.९ ॥

众王如来时一般,乘象、马、车返回。于是,大王啊,她的父亲,那位有权势的君主,为她举行了婚礼。

1.121.10

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः ।
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥ १.१२१.१० ॥

这位俱卢族的喜悦、福运无量的人,与坤提菩阇之女结合,犹如因陀罗与补罗米结合。

1.121.11

कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः ।
कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम्।
स्वपुरं प्रेषयामास स राजा कुरुसत्तम ॥ १.१२१.११ ॥

坤提菩阇,大地之主,为贡提与般度完成婚礼后,大王啊,以众多财宝尊敬地送他回了自己的城邑,俱卢之最啊。

1.121.12

ततो बलेन महता नानाध्वजपताकिना ।
स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः ॥ १.१२१.१२ ॥

随后,他率领装饰着众多旗帜与幡幢的大军,受到婆罗门与大仙们的祝福与赞颂。

1.121.13

संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः ।
न्यवेशत तां भार्यां कुन्तीं स्वभवने प्रभुः ॥ १.१२१.१३ ॥

般度王是俱卢族的喜悦,他抵达城中后,以君主之尊将妻子贡蒂安置在自己的宫殿中。