マハーバーラタ · 章 1.122
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.122.1
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः ।
विवाहस्यापरस्यार्थे चकार मतिमान्मतिम् ॥ १.१२२.१ ॥
そこで、シャーンタヌの子ビーシュマは賢明にも、名高いパーンドゥ王のための別の結婚を決意した。
1.122.2
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः ।
बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम् ॥ १.१२२.२ ॥
彼は大臣、長老、バラモン、偉大な聖仙たちと共に、四軍の兵を率いてマドラ王の都へ向かった。
1.122.3
तमागतमभिश्रुत्य भीष्मं वाहीकपुङ्गवः ।
प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः ॥ १.१२२.३ ॥
ビーシュマが到着したと聞いた、ヴァーヒーカの雄牛のような王は、出迎えて敬意を表し、彼を都へ招き入れた。
1.122.4
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च ।
मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम् ॥ १.१२२.४ ॥
白い座席、足を洗う水、敬意の供物、蜜の饗応を与えてから、マドラの主は彼の来訪の目的を尋ねた。
1.122.5
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः ।
आगतं मां विजानीहि कन्यार्थिनमरिन्दम ॥ १.१२२.५ ॥
クル族の最上の人ビーシュマはマドラの王に答えた。「敵を制する者よ、知れ、私は娘を求めて来たのだ。」
1.122.6
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी ।
तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम् ॥ १.१२२.६ ॥
あなたには徳高く名高い妹マードリーがいると聞いた。パーンドゥのために、その名高い女性を妻に求めよう。
1.122.7
युक्तरूपो हि संबन्धे त्वं नो राजन्वयं तव ।
एतत्संचिन्त्य मद्रेश गृहाणास्मान्यथाविधि ॥ १.१२२.७ ॥
王よ、この縁組においてあなたは我らにふさわしく、我らもあなたにふさわしい。マドラの主よ、よく考えて、規定どおりに我らを受け入れられよ。
1.122.8
तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः ।
न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम ॥ १.१२२.८ ॥
このように語るビーシュマに、マドラの主は答えた。「あなたより勝れた婿は私には他にいない、それが私の考えだ。」
1.122.9
पूर्वैः प्रवर्तितं किंचित्कुलेऽस्मिन्नृपसत्तमैः ।
साधु वा यदि वाऽसाधु तन्नातिक्रान्तुमुत्सहे ॥ १.१२२.९ ॥
この家系では、昔の最も優れた王たちがある慣習を定めた。それが善であれ不善であれ、私はそれを踏み越える勇気がない。
1.122.10
व्यक्तं तद्भवतश्चापि विदितं नात्र संशयः ।
न च युक्तं तथा वक्तुं भवान्देहीति सत्तम ॥ १.१२२.१० ॥
このことはあなたにも明らかに知られている、疑いはない。そして善き者の中の最も優れた方よ、「私に与えよ」とそのように言うのはあなたにふさわしくない。
1.122.11
कुलधर्मः स नो वीर प्रमाणं परमं च तत् ।
तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन् ॥ १.१२२.११ ॥
勇士よ、それは我らの家系の習いであり、至上の権威である。ゆえに敵を討つ者よ、私はあなたにこの曖昧さのない言葉を告げるのではない。
1.122.12
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः ।
धर्म एष परो राजन्स्वयमुक्तः स्वयंभुवा ॥ १.१२२.१२ ॥
するとジャナーディパ(民の主)のビーシュマは、そのマドラの王に答えた。「王よ、これこそ至上のダルマであり、自生なる御方ご自身が説かれたものだ。」
1.122.13
नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः ।
विदितेयं च ते शल्य मर्यादा साधुसंमता ॥ १.१२२.१३ ॥
これに何の過ちもない。この定めは先祖が作ったものだ。シャリヤよ、善人が認めたこの慣習を、お前は知っている。
1.122.14
इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम् ।
रत्नानि च विचित्राणि शल्यायादात्सहस्रशः ॥ १.१२२.१४ ॥
こう言って、その大いなる輝きの人は、加工したものと未加工のものの黄金、そして様々な宝玉を数千もシャリヤに与えた。
1.122.15
गजानश्वान्रथांश्चैव वासांस्याभरणानि च ।
मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम् ॥ १.१२२.१५ ॥
象、馬、戦車、衣服、装身具、宝玉、真珠と珊瑚——これら吉祥の贈り物をガーンゲーヤが与えた。
1.122.16
तत्प्रगृह्य धनं सर्वं शल्यः संप्रतीमानसः ।
ददौ तां समलङ्कृत्य स्वसारं कौरवर्षभे ॥ १.१२२.१६ ॥
シャリヤはその富をすべて受け取り、心喜んで妹を美しく飾り、クルの牡牛に与えた。
1.122.17
स तां माद्रीमुपादाय भीष्मः सागरगासुतः ।
आजगाम पुरीं धीमान्प्रविष्टो गजसाह्वयम् ॥ १.१२२.१७ ॥
その妃マードリーを伴って、海へ流れる川(ガンガー)の賢き子ビーシュマは都に来て、ガジャサーヴァヤ(ハースティナプラ)に入った。
1.122.18
तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसंमते ।
विवाहं कारायामास भीष्मः पाण्डोर्महात्मनः।
जग्राह विधिवत्पाणिं माद्र्याः पाण्डुर्नराधिपः ॥ १.१२२.१८ ॥
やがて吉日が来て、善人が認めた良き時刻に、ビーシュマは偉大な魂のパーンドゥの婚礼を行わせた。人の主パーンドゥは、定めに従ってマードリーの手を取った。
1.122.19
ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः ।
स्थापयामास तां भार्यां शुभे वेश्मनि भामिनीं ॥ १.१२२.१९ ॥
婚礼が終わると、クル族の喜びであるその王は、その輝く女性を吉祥の館に妻として迎え入れた。
1.122.20
स ताभ्यां व्यचरत्सार्धं भार्याभ्यां राजसत्तमः ।
कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् ॥ १.१२२.२० ॥
その王の中の最良者、王の王パーンドゥは、二人の妻クンティーとマードリーとともに、望むままに、心地よく過ごした。
1.122.21
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः ।
जिगीषया महीं पाण्डुर्निरक्रामत्पुरात्प्रभो ॥ १.१२२.२१ ॥
そしてそのカウラヴァの王パーンドゥは、三十の夜を楽しんだ後、主よ、大地を征服する望みを抱いて都を出発した。
1.122.22
स भीष्मप्रमुखान्वृद्धानभिवाद्य प्रणम्य च ।
धृतराष्ट्रं च कौरव्यं तथान्यान्कुरुसत्तमान्।
आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोजितः ॥ १.१२२.२२ ॥
その王はビーシュマを筆頭とする長老たちに挨拶して礼拝し、カウラヴァのドリタラーシュトラおよび他のクル族の最良の人々に別れを告げて出発した。彼らもまた王の出立を承認した。
1.122.23
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः ।
गजवाजिरथौघेन बलेन महताऽगमत् ॥ १.१२२.२३ ॥
吉祥の儀礼を伴う祝福に迎えられ、象と馬と戦車の大軍を率いて彼は出発した。
1.122.24
स राजा देवगर्भाभो विजिगीषुर्वसुन्धराम् ।
हृष्टपुष्टबलैः प्रायात्पाण्डुः शत्रूननेकशः ॥ १.१२२.२४ ॥
神の種子のように輝くそのパーンドゥ王は、大地を征服する望みを抱き、喜びと力に満ちた軍勢を率いて、多くの敵へと向かって進んだ。
1.122.25
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः ।
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥ १.१२२.२५ ॥
以前に過ちを犯したダシャールナ族は、人獅子のパーンドゥに戦いで打ち破られた。彼はクル族の名誉を担っていた。
1.122.26
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।
प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम् ॥ १.१२२.२६ ॥
そこでパーンドゥは、様々な旗を掲げ、多くの象と馬を備え、歩兵と戦車に満ちた軍を率いた。
1.122.27
आगस्कारी महीपानां बहूनां बलदर्पितः ।
गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः ॥ १.१२२.२७ ॥
多くの王に罪を犯し、力に驕っていたマガダ国の守護者ディールガは、ラージャグリハで殺された。
1.122.28
ततः कोशं समादाय वाहनानि च भूरिशः ।
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ १.१२२.२८ ॥
そしてパーンドゥは宝庫と多くの乗り物を携え、ミティラーに赴き、戦いでヴィデーハ族を征服した。
1.122.29
तथा काशिषु सुह्मेषु पुण्ड्रेषु च नरर्षभ ।
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥ १.१२२.२९ ॥
同様に、人中の牡牛よ、カーシ族、スフマ族、プンドラ族の間で、自らの腕の力と勇気によって、彼はクル族の名誉を高めた。
1.122.30
तं शरौघमहाज्वालं शस्त्रार्चिषमरिन्दमम् ।
पाण्डुपावकमासाद्य व्यवह्यन्त नराधिपाः ॥ १.१२२.३० ॥
矢の雨の大火焔と武器の輝きをもつ、敵を制するパーンドゥという火に近づいて、人の王たちは焼き尽くされた。
1.122.31
ते ससेनाः ससेनेन विध्वंसितबला नृपाः ।
पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः ॥ १.१२२.३१ ॥
軍勢とともにそれらの王たちは、パーンドゥの軍に力を砕かれ、パーンドゥの支配下に置かれ、クルの務めに任じられた。
1.122.32
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः ।
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् ॥ १.१२२.३२ ॥
彼に打ち負かされた地上のすべての王たちは、神々の中のインドラのように、彼だけを英雄と見なした。
1.122.33
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः ।
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥ १.१२२.३३ ॥
合掌し深く礼をした地上のすべての主君たちは、財宝と様々な宝玉を携えて彼のもとへ来た。
1.122.34
मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु ।
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ १.१२२.३४ ॥
宝玉、真珠、珊瑚、多くの金と銀、優れた牛、優れた馬、優れた戦車、そして象。
1.122.35
खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम् ।
कम्लाजिनरत्नानि राङ्कवास्तरणानि च।
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ १.१२२.३५ ॥
ロバ、ラクダ、水牛、そして山羊や羊のいるだけ、毛布と皮の宝、ランク鹿の皮の敷物、これらすべてをナーガプラの王が受け取った。
1.122.36
तदादाय ययौ पाण्डुः पुनर्मदितवाहनः ।
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ १.१२२.३६ ॥
それを携えてパーンドゥは再び出発した。乗り物は疲れ果てていたが、自国とガジャサーヴァヤの都を喜ばせようとしていた。
1.122.37
शान्तनो राजसिंहस्य भरतस्य च धीमतः ।
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः ॥ १.१२२.३७ ॥
王獅子シャーンタヌと賢者バラタの失われた名声の響きを、パーンドゥが再び取り戻した。
1.122.38
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च ।
ते नागपुरसिंहेन पाण्डुना करदीकृताः ॥ १.१२२.३८ ॥
かつてクル国とクルの財宝を奪った者たちは、ナーガプラの獅子パーンドゥによって貢納者とされた。
1.122.39
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः ।
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ १.१२२.३९ ॥
このように集まった王たちと大臣たちは、心晴れやかに喜んで、都の人々や地方の民とともに語った。
1.122.40
प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः ।
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ॥ १.१२२.४० ॥
ビーシュマを先頭に全員が到着した彼を迎えに出た。ナーガプラの住民は、遠い道のりを歩いてきたかのように、彼のもとへ向かった。
1.122.41
आवृतं ददृशुर्हृष्टा लोकं बहुविधैर्धनैः ।
नानायानसमानीतै रत्नैरुच्चावचैस्तदा ॥ १.१२२.४१ ॥
そのとき彼らは喜びのうちに、多種多様な財宝に満ちた世界を見た。さまざまな乗り物で運ばれた、上等のものも並のものも含む宝玉が溢れていた。
1.122.42
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथाऽऽविभिः ।
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥ १.१२२.४२ ॥
ビーシュマとともに到着したクルの人々は、象・馬・戦車という宝、そして牛・ラクダ・羊の果てしない広がりを見た。
1.122.43
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः ।
यथाऽर्हं मानयामास पौरजानपदानपि ॥ १.१२२.४३ ॥
カウサリヤーの喜びを増す彼は父の足に礼拝し、都の人々と地方の人々にもふさわしく敬意を示した。
1.122.44
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् ।
पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥ १.१२२.४४ ॥
敵国を打ち砕き、目的を果たして再び戻った息子を、ビーシュマは抱きしめた。喜びのあまり、彼の目から涙があふれた。
1.122.45
स तूर्यशतशङ्खानां भेरीणां च महास्वनैः ।
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥ १.१२२.४५ ॥
数百の角笛、法螺貝、太鼓の大音響の中、あちこちで市民を喜ばせながら、彼はガジャサーフヴァヤ(ハスティナプラ)に入った。