摩诃婆罗多 · 章 1.123
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.123.1
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् ।
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥ १.१२३.१ ॥
在持国王许可之下,他将以自己臂力所得的财富献给毗湿摩和母亲萨蒂亚瓦蒂。
1.123.2
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् ।
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥ १.१२३.२ ॥
般度也将那笔财富送给维杜罗,这位心怀正法的人也以财富使朋友们心满意足。
1.123.3
ततः सत्यवतीं भीष्मं कौसल्यां च यशस्विनीम् ।
शुभैः पाण्डुर्जितैरर्थैस्तोषयामास भारत ॥ १.१२३.३ ॥
然后,婆罗多啊,般度以他所赢得的吉祥财富使萨蒂亚瓦蒂、毗湿摩和荣耀的考莎利雅感到欢喜。
1.123.4
ननन्द माता कौसल्या तमप्रतिमतेजसम् ।
जयन्तमिव पौलोमी परिष्वज्य नर्षभम् ॥ १.१२३.४ ॥
母亲考莎利雅拥抱这位光辉无比的人中雄牛而欢喜,正如宝罗米拥抱耶衍多而欢喜一样。
1.123.5
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः ।
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥ १.१२३.५ ॥
凭借那位英雄的英勇功绩,持国王举行了数百次马祭和大型祭祀,供奉的布施达数十万之多。
1.123.6
संप्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभ ।
जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥ १.१२३.६ ॥
婆罗多族的雄牛啊,般度与贡蒂和玛德里相会后,摆脱了倦怠,便成了林中的居住者。
1.123.7
हित्वा प्रासादनिलयं शुभानि शयनानि च ।
अरण्यनित्यः सततं बभूव मृगयापरः ॥ १.१२३.७ ॥
他舍弃宫殿与华美的床榻,终日居住在森林中,专心于狩猎。
1.123.8
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरः ।
उवास गिरिपृष्ठेषु महाशालवनेषु च ॥ १.१२३.८ ॥
他漫游于喜马拉雅山秀丽的南坡,居住在山脊之上与广大的娑罗树林中。
1.123.9
रराज कुन्त्या माद्र्या च पाण्डुः सह वने चरन् ।
करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः ॥ १.१२३.९ ॥
般度与贡蒂、玛德丽同行于林中,光彩如因陀罗那头居于两头母象之间的华美大象。
1.123.10
भारतं सह भार्याभ्यां खङ्गबाणधनुर्धरम् ।
विचित्रकवचं वीरं परमास्त्रविदं नृपम्।
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥ १.१२३.१० ॥
林中居民看到这位携二妃同行、手持剑、箭与弓、身披奇异铠甲、精通至上神兵的英勇婆罗多王,便以为:“此人是神。”
1.123.11
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः ।
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥ १.१२३.११ ॥
在持国的催促下,人们不知疲倦地始终将他所欲之物与享乐之物送到林中各处。
1.123.12
तदासाद्य महारण्यं मृगव्यालनिषेवितम् ।
तत्र मैथुनकालस्थं ददर्श मृगयूथपम् ॥ १.१२३.१२ ॥
随后,他来到那片有鹿群和猛兽栖息的大森林,在那里看见一头处于交配季节的鹿群首领。
1.123.13
ततस्तं च मृगीं चैव रुक्मपुङ्खैः सुपत्रिभिः ।
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥ १.१२३.१३ ॥
于是般度用五支锐利迅疾、金色箭杆、羽毛精美的箭射穿了那只公鹿和母鹿。
1.123.14
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः ।
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥ १.१२३.१४ ॥
大王啊,那位光辉卓越、以苦行为财富的仙人之子,正以鹿的形态与他的妻子交合。
1.123.15
स संयुक्तस्तया मृग्या मानुषीं वाचमीरयन् ।
क्षणेन पतितो भूमौ विललापातुरो मृगः ॥ १.१२३.१५ ॥
与那母鹿结合的公鹿以人言开口,瞬间倒地,痛苦地哀号起来。
1.123.16
काममन्युवशं प्राप्ता बुद्ध्यन्तरगता अपि ।
वर्जयन्ति नृशंसानि पापेष्वपि रता नराः ॥ १.१२३.१६ ॥
即便人陷入欲望与愤怒的支配,心智已离去,沉溺于罪恶之中,人仍会避免残忍的行为。
1.123.17
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः ।
विधिपर्यागतानर्थान्प्रज्ञावान्प्रतिपद्यते ॥ १.१२३.१७ ॥
智慧吞不下命运,而命运却会吞没智慧;智者面对命运带来的事物。
1.123.18
शस्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत ।
कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥ १.१२३.१८ ॥
婆罗多啊,你生于世代行法之人的尊贵家族,为何被欲望与贪婪所压倒,心志竟然动摇了?
1.123.19
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता ।
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥ १.१२३.१९ ॥
杀戮敌人的行为规范,同样适用于杀鹿。鹿啊,你因迷惑而不应责备我。
1.123.20
अच्छद्मनाऽमायया च मृगाणां वध इष्यते ।
स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे ॥ १.१२३.२० ॥
不以欺诈和诡计猎杀鹿是被认可的。这正是国王的本分,你为何还要非议它呢?
1.123.21
अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः ।
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥ १.१२३.२१ ॥
仙人阿伽斯蒂亚在祭祀法会中就座,在大森林中洒水祝圣那些献给诸神的野鹿后,进行了狩猎。
1.123.22
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे ।
अगस्त्यस्याभिचारेण युष्माकं विहितो वधः ॥ १.१२३.२२ ॥
依照被认为有权威的法,你怎能非议我们?你们的被杀乃是阿伽斯蒂亚的诅咒祭仪所规定的。
1.123.23
न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान् ।
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥ १.१२३.२३ ॥
人们不会只是瞄准敌人就射出箭矢;他们的弱点时刻被特别称赞为杀戮的良机。
1.123.24
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा ।
उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥ १.१२३.२४ ॥
人们以力量和各种锐利的计谋攻击粗心或警觉、暴露的敌人。鹿啊,你为何非议?
1.123.25
नाहं घ्न्तं मृगन्राजन्विगर्हे चात्मकारणात् ।
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः ॥ १.१२३.२५ ॥
国王啊,我并不谴责为自身而杀鹿的人;但今日出于怜悯,你应在此等待我交合。
1.123.26
सर्वभूतहिते काले सर्वभूतेप्सिते तथा ।
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥ १.१२३.२६ ॥
在对一切众生有利、为一切众生所愿的时节,哪位智者会杀死在林中行交合之事的鹿呢?
1.123.27
अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम् ।
पुरुषार्थफलं कर्तुं तत्त्वया विफलीकृतम् ॥ १.१२३.२७ ॥
王中之最啊,我在此猎场中因喜悦而行交合,以求成就人生目标之果;你却使它落空了。
1.123.28
पौरवाणां महाराज तेषामक्लिष्टकर्मणाम् ।
वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥ १.१२३.२८ ॥
大王啊,你生于行事无瑕的般婆罗家族,哦,俱卢之裔,这于你并不相称。
1.123.29
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् ।
अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत ॥ १.१२३.२९ ॥
这残忍之举极为严重,为一切世界所谴责,不通往天界,不带来名声,而且极为不义,婆罗多之后。
1.123.30
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् ।
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥ १.१२३.३० ॥
你精通女色之享乐的分别,通晓经典、法与利的真义,哦,如神一般的人啊,不应当做这种不通往天界的行为。
1.123.31
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः ।
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥ १.१२३.३१ ॥
最好的君王啊,应由你惩罚那些行残暴之事、作恶多端、失去三种人生目标的人。
1.123.32
किं कृतं ते नरश्रेष्ठ मामिहानागसं घ्नतः ।
मुनिं मूलफलाहारं मृगवेषधरं नृप ॥ १.१२३.३२ ॥
人中最好的人啊,你在这里杀害我这个无辜的、以根和果为食、披着鹿形的苦行者,究竟做了什么?
1.123.33
वसमानमरण्येषु नित्यं शमपरायणम् ।
त्वयाऽहं हिंसितो यस्मात्तस्मात्त्वामप्यनागसः ॥ १.१२३.३३ ॥
我常年居住在森林中,专心于寂静修行,你却伤害了我;因此我也认为你是无辜的。
1.123.34
द्वयोर्नृशंसकर्तारमवशं काममोहितम् ।
जीवितान्तकरो भावो मैथुने समुपैष्यति ॥ १.१२३.३४ ॥
二者之中行残暴之事、身不由己、为欲望所迷的那一个,在交合时将会陷入一种夺去生命的心境。
1.123.35
अहं हि किंदमो नाम तपसा भावितो मुनिः ।
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥ १.१२३.३५ ॥
我名为金达玛,是以苦行净化的圣者。因羞于被人看见,我在狩猎时与母鹿交合。
1.123.36
मृगो भत्वा मृगैः सार्धं चरामि गहने वने ।
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥ १.१२३.३६ ॥
我化为鹿,与鹿群一同徘徊在幽深的森林中。但你是在不知情中所为,因此这对你来说不算杀婆罗门之罪。
1.123.37
मृगरूपधरं हत्वा मामेवं काममोहितम् ।
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि ॥ १.१२३.३७ ॥
你因贪欲迷惑,杀了我这化为鹿形的人。愚人啊,因此你也必将得到同样的果报。
1.123.38
प्रियया सह संवासं प्राप्य कामविमोहितः ।
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥ १.१२३.३८ ॥
你与爱人结合,被欲望迷惑,你也将在这同样的境况中前往死者之界。
1.123.39
अन्तकाले हि संवासं यया गन्तासि कान्तया ।
प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम्।
भक्त्या मतिमतां श्रेष्ठ सैव त्वाऽनुगमिष्यति ॥ १.१२३.३९ ॥
智者中最优秀的人啊,你在临终时与之同往死王之城(一切众生都无法逃避)的那位爱人,她将出于虔诚而追随你。
1.123.40
वर्तमानः सुखे दुःखं यथाऽहं प्रापितस्त्वया ।
तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति ॥ १.१२३.४० ॥
我本安乐,你使我陷入苦难;同样,获得安乐的你,苦难也将降临到你身上。
1.123.41
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत ।
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत ॥ १.१२३.४१ ॥
说完这话,那鹿因极度悲痛而离开了人世;而同样为悲痛所苦的般度,也在片刻之间死去。