摩诃婆罗多 · 章 1.124
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.124.1
तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥ १.१२४.१ ॥
国王走近那已逝之人,如同自己的亲人一般,被悲伤与痛苦所折磨,与妻子一同痛苦地哀悼。
1.124.2
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥ १.१२४.२ ॥
虽生于善人之家,可悲的是,不能克制自我、被欲望之网迷惑的人,因自己的行为而陷入厄运。
1.124.3
शश्वद्धर्मात्मना जातो बाल एव पिता मम ।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥ १.१२४.३ ॥
我的父亲始终如孩童般被一位正直之人抚育,然而我们听说他直到生命尽头仍是一个沉溺于欲望的人。
1.124.4
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥ १.१२४.४ ॥
在那位沉溺于欲望的国王的田野(妻子)中,言语克制的圣人,尊贵的黑仙(克利须那·二岛)亲自使我诞生。
1.124.5
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा ।
त्यक्तस्य देवैरनयान्मृगयां परिधावतः ॥ १.१२४.५ ॥
今日,在他的灾难中,我心中生起了关于他的这个卑劣念头——他被诸神抛弃,因不当行为而在狩猎中游荡。
1.124.6
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ १.१२४.६ ॥
我只决意求解脱,因为束缚就是巨大的灾难;我将遵循父亲那不朽的善行。
1.124.7
अतीव तपसात्मानं योजयिष्याम्यसंशयम् ।
तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ ॥ १.१२४.७ ॥
我将毫无疑问地全心投入苦行;因此,每天在每一棵树下。
1.124.8
चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान् ।
पांसुना समवच्छन्नः शून्यागारकृतालयः ॥ १.१२४.८ ॥
我将乞食流浪,作为光头的苦行者游历这些修行之地,身披尘土,以空屋为居所。
1.124.9
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ।
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ॥ १.१२४.९ ॥
以树根为居所,舍弃一切爱与不爱,既不忧伤也不欢喜,视自我的毁誉为相同。
1.124.10
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ।
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ॥ १.१२४.१० ॥
无求于回报,不求礼拜,超越对立之偶,无所执持;不嘲笑任何人,也从不皱眉。
1.124.11
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ।
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ॥ १.१२४.११ ॥
常怀欢颜,乐于一切众生之利,不伤害四类动与不动的众生。
1.124.12
स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति ।
एककालं चरन्भैक्षं कुलानि दश पञ्च च ॥ १.१२४.१२ ॥
对一切有生命者始终如一,犹如对待自己的子女,每次前往十五户人家乞食。
1.124.13
असंभवे वा भैक्षस्य चरन्ननशनान्यपि ।
अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित् ॥ १.१२४.१३ ॥
若乞食不可得,即便绝食也应四处行走;若先前毫无所得,则绝不可只少量进食。
1.124.14
अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन् ।
अलाभे यदि वा लाभे समदर्शी महातपाः ॥ १.१२४.१४ ॥
因贪求而也走访他家,若无所得,便在七家乞讨以充足;无论有所得与否,都保持平等之见,成为大苦行者。
1.124.15
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥ १.१२४.१५ ॥
对那两人,一人以斧斩其一臂,一人以檀香涂其一臂,他既不念恶,也不念善。
1.124.16
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।
जीवितं मरणं चैव नाभिन्दन्न च द्विषन् ॥ १.१२४.१६ ॥
行事不像想活的人,也不像想死的人;既不欢迎生,也不欢迎死,更不憎恨。
1.124.17
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः ॥ १.१२४.१७ ॥
超越活着之人所能做的一切世俗进取之事,他在一瞬间便安然稳立。
1.124.18
तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः ।
संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः ॥ १.१२४.१८ ॥
即使在那些不定的境况中,也应放下一切感官之事,彻底舍弃法与利,使自身之垢被充分洗净。
1.124.19
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ १.१२४.१९ ॥
脱离一切罪恶,超越一切罗网,不受任何人控制,依法如风般行走。
1.124.20
एतया सततं वृत्त्या चरन्नेवंप्रकारया ।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥ १.१२४.२० ॥
以这种生计方式常年生活,走上无畏的道路,我将维持我的身体。
1.124.21
नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते ।
स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः ॥ १.१२४.२१ ॥
我不会走上因失去自身勇力而令人悲叹的卑微之路;永远远离自身的法,失去勇力,我不会流浪。
1.124.22
सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा ।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥ १.१२४.२२ ॥
无论受尊敬还是被轻视,以卑怯的目光依附他人生计、心为欲所牵的人,便行走在狗的道路上。
1.124.23
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत ॥ १.१२४.२३ ॥
如此说罢,深陷悲痛,长叹不已,国王望着贡蒂和摩德利,对她们说了话。
1.124.24
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥ १.१२४.२४ ॥
憍舍利耶、毗杜罗、刹多,国王与亲族,尊贵的萨蒂亚瓦蒂,毗湿摩,以及那些王室祭司。
1.124.25
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः ।
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने ॥ १.१२४.२५ ॥
那些心胸高尚、饮苏摩、持守严格誓愿的婆罗门,以及依靠我们居住在那里的城中长老,应当一一安抚,并告诉他们:般度已被流放到森林中。
1.124.26
निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः ।
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥ १.१२४.२६ ॥
两位妻子听了丈夫的话,他的心志已专注于舍弃之法,于是昆缇与玛德丽也说了同样的话。
1.124.27
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ ।
आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम्।
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत् ॥ १.१२४.२७ ॥
婆罗多族的雄牛啊,还有其他的修行林,我们二人可以一同居住;请依凭法来考虑,让我们这两位法妻能够一同修大苦行。
1.124.28
शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम् ।
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः ॥ १.१२४.२८ ॥
即使为了身体的解脱,你获得能带来大果报的法,你自己也将成为天界的主宰,这毫无疑问。
1.124.29
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।
त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः ॥ १.१२४.२९ ॥
我们二人将收摄诸根,专一于夫君之世界,舍弃欲乐,必定修行广大的苦行。
1.124.30
यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते ।
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः ॥ १.१२४.३० ॥
大智者啊,人民之主!若你舍弃我们二人,今日我们二人必将舍弃性命,此事无疑。
1.124.31
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ १.१२४.३१ ॥
若你们二人此志合乎法义,我也将遵循父亲那不朽的生活之道。
1.124.32
त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः ।
वल्कली फलमूलाशी चरिष्यामि महावने ॥ १.१२४.३२ ॥
舍弃乡村的安乐与饮食,行持大苦行,身着树皮,以果实和根茎为食,我将在大森林中漫游。
1.124.33
अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥ १.१२४.३३ ॥
向火中献供,于晨昏两时漱水净身,身形消瘦,饮食有度,身披破衣、兽皮,顶结发髻。
1.124.34
शीतवातातपसहः क्षुत्पिपासानवेक्षकः ।
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥ १.१२४.३४ ॥
忍受寒冷、风吹与酷热,不顾饥渴,以此难行之苦行使这身躯枯槁。
1.124.35
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ १.१२४.३५ ॥
独居静修,沉思冥想,以熟食与生食维持生计,以林中之物、诵词与清水,使祖先与诸神得到满足。
1.124.36
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः ।
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥ १.१२४.३६ ॥
即使对林居者与居家之人,我也不做令人不悦之事;对村庄居民就更不必说了。
1.124.37
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात् ॥ १.१२४.३७ ॥
因此,我愿意奉行林中经典中最为严厉的戒律,直到此身终结。
1.124.38
इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः ।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥ १.१२४.३८ ॥
说完这话,库卢之喜的国王便把冠上的宝珠、项链、臂环和耳环赠给了你的两位妻子。
1.124.39
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ।
वाहनानि च मुख्यानि शस्त्राणि कवचानि च ॥ १.१२४.३९ ॥
贵重的衣服、女子的首饰、上好的车乘,以及武器和铠甲。
1.124.40
हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च ।
मणिमुक्ताप्रवालानि रत्नानि विविधानि च ॥ १.१२४.४० ॥
神妙的金器、床榻的罩布,以及珍珠、宝石、珊瑚和各种珠宝。
1.124.41
प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत ।
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने।
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ॥ १.१२४.४१ ॥
潘度把一切都施予婆罗门之后,对仆人们说道:“你们去那伽普尔,告诉众人:潘度已经入林出家;财富、欲望、快乐,以及至高的内在喜悦,也一并如此。”
1.124.42
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः ।
ततस्तस्यानुयातारस्ते चैव परिचारकाः ॥ १.१२४.४२ ॥
库禄族的欢乐者舍弃一切,与妻子一同出发。随后,他的随从与仆人也跟随其后。
1.124.43
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः ।
भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥ १.१२४.४३ ॥
听到婆罗多族雄狮种种悲切的言语,他们惶惑不已,以痛苦的声音大声哭喊:“哎呀!哎呀!”
1.124.44
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम् ॥ १.१२४.४४ ॥
洒下热泪,离开那位君王,他们带着所有财物迅速前往那伽补罗。
1.124.45
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः ।
कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः ॥ १.१२४.४५ ॥
他们来到城中,将那位大德者所遭遇的一切如实禀告国王,并把那些各式财物献给了国王。
1.124.46
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने ।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥ १.१२४.४६ ॥
从他们那里听闻大林中所发生的一切后,人中之最的持国只为般度而悲痛。
1.124.47
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन् ॥ १.१२४.४७ ॥
他被兄弟之忧所笼罩,在床榻、座位与享乐之中从未感到快乐,只是不停地思虑此事。
1.124.48
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः ।
जगाम सह पत्नीभ्यां ततो नागशतं गिरिम् ॥ १.१२४.४८ ॥
库鲁的后裔啊!王子般度以根和果为食,与他的两位妻子从那里前往百象之距的山岳。
1.124.49
स चैत्ररथमासाद्य कालकूटमतीत्य च ।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥ १.१२४.४९ ॥
他到达了恒河边的花车林,越过迦罗俱吒,跨过喜马拉雅,前往乾陀摩陀那。
1.124.50
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ।
उवास स महाराज समेषु विषमेषु च ॥ १.१२४.५० ॥
受大神灵、成就者和至高仙人护持,大王啊,他居住于平坦与险峻之地。
1.124.51
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समतप्यत ॥ १.१२४.५१ ॥
大王啊,他到达因陀罗迪由那湖,经过天鹅峰,在百峰山上苦修。