Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.126

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.126.1

अथ पारसवीं कन्यां देवकस्य महीपतेः ।
रूपयौवनसंपन्नां स सुश्रावापगासुतः ॥ १.१२६.१ ॥

此时,河流之子(毗耶娑)听说了提婆迦王的女儿帕拉萨维,她容貌与青春兼备。

1.126.2

ततस्तु वरयित्वा तामानीय भरतर्षभः ।
विवाहं कारयामास विदुरस्य महामतेः ॥ १.१२६.२ ॥

随后,婆罗多族的雄牛选定她并带来,为大智者维杜罗举行了婚礼。

1.126.3

तस्यां चोत्पादयामास विदुरः कुरुनन्दन ।
पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः ॥ १.१२६.३ ॥

俱卢族的欢乐者维杜罗在她身上生下了谦逊有礼、品性与自己相似的儿子。

1.126.4

ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय ।
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥ १.१२६.४ ॥

随后,诞生于甘陀利的有一百个儿子,而持国王从一位吠舍女子那里又生了一个,超过一百。

1.126.5

पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः ।
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥ १.१२६.५ ॥

般度王与贡蒂及玛德利生下五位大车战士之子,他们由诸神所赐,以延续家族血脉。

1.126.6

कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम ।
कियता चैव कालेन तेषामायुश्च किं परम् ॥ १.१२६.६ ॥

婆罗门中最优秀者啊,甘陀利如何生下一百个儿子?花了多少时间?他们的寿命又有多长?

1.126.7

कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् ।
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥ १.१२६.७ ॥

他如何从一位吠舍女子所生而成为持国之子?又如何得到遵循法道、相配的妻子甘陀利?

1.126.8

आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ।
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ॥ १.१२६.८ ॥

她恭顺而行,持国为何却背弃了她?那位大心者又如何对被诅咒的般度做出此事?

1.126.9

समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः ।
एतद्विद्वन्यथान्यायं विस्तरेण तपोधन ॥ १.१२६.९ ॥

五位由诸神所生的大车士之子。博学者啊,苦行之宝啊,请依次详细地为我讲述这一切。

1.126.10

कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ।
ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम् ॥ १.१२६.१० ॥

请讲述;即使讲述我族人的故事,我仍不满足。当饥饿疲惫的仙人德维帕亚纳(毗耶娑)前来时,发生了什么?

1.126.11

तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ।
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ॥ १.१२६.११ ॥

甘陀利使毗耶娑欢喜,毗耶娑便赐予她一个恩惠。她为自己选择了一百个配得上丈夫的儿子。

1.126.12

ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः ॥ १.१२६.१२ ॥

随后,时候到了,她从那位以智慧为眼的人(毗耶娑)处怀孕。

1.126.13

गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः ।
अगच्छत्परमं दुःखमपत्यार्थमरिन्दम ॥ १.१२६.१३ ॥

甘陀利怀孕后,安跋利迦之子般度因渴望子嗣而极为悲痛。啊,降伏敌人者!

1.126.14

गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः ।
मृगाभिशापादात्मानं शोचन्नुपरतक्रियः ॥ १.१२६.१४ ॥

甘陀利怀孕之时,般度极为悲伤;因鹿的诅咒而自怜自叹,他停止了一切事务。

1.126.15

स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि ।
देहान्यासे कृतमना इदं वचनमब्रवीत् ॥ १.१२६.१५ ॥

他如大地上的毗首密多罗一样,通过苦行而获得成就;决意舍弃身体,于是说出了这些话。

1.126.16

चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि ।
पितृदेवमनुष्याणामृषीणामथ भामिनि ॥ १.१२६.१६ ॥

如此,人在世间生来负有四种债:对祖先、天神、世人和仙人,啊,夫人。

1.126.17

एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित् ।
न तस्य लोकाः सन्तीति तता लोकविदो विदुः ॥ १.१२६.१७ ॥

若懂法之人不能按时偿清这些债,便无诸界;知世之人如是说。

1.126.18

यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन् ।
पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान् ॥ १.१२६.१८ ॥

以祭祀取悦诸天,以诵习与苦行取悦仙人;以子嗣与祭祀取悦祖先,以仁慈取悦世人。

1.126.19

ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः ।
पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते ॥ १.१२६.१९ ॥

我依法已免除对仙人、天神和人类的债务,但尚未免除对祖先的债务,而那一债务更为重要。

1.126.20

देहनाशे भवेन्नाशः पितॄणामेष निश्चयः ।
इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति ॥ १.१२६.२० ॥

身体毁坏时,祖先也随之毁灭,这是确定的。而其余三者毁灭时,自我本身确实也随之毁灭。

1.126.21

इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः ।
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना ॥ १.१२६.२१ ॥

因此这里的上等再生者努力求得子嗣,正如我当年由那位大德者在父亲的田地里所生。

1.126.22

तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा ।
स समानीय कुन्तीं च माद्रीं च भरतर्षभः ॥ १.१२६.२२ ॥

同样,在我的这块田里,子嗣如何能够产生呢?那位婆罗多族中的雄牛召来了贡蒂和玛德里,并……

1.126.23

आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् ।
उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि ॥ १.१२६.२३ ॥

他宣说了得子之果报,胜过一切祭仪;在困厄中渴望子嗣的低下之人,也从高贵者那里求取子嗣。

1.126.24

अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः ।
अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि।
ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित् ॥ १.१२६.२४ ॥

善人希望从至上之人处得到能结出法果的子嗣。随后,他在大婆罗门的集会中恳切请求,那位通晓法的人便想到了一位具备德行的婆罗门。

1.126.25

सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् ।
अपत्योत्पादने यत्नमापदि त्वं समर्थय ॥ १.१२६.२५ ॥

他私下对名声显赫的正妻贡蒂说:"在危难之中,你要使生育子嗣的努力成功。"

1.126.26

अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता ।
इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः ॥ १.१२६.२६ ॥

"子嗣在世间确是根基,由法所定。故此,贡蒂啊,阐述永恒法的智者知道这一点。"

1.126.27

इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः ।
सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥ १.१२६.२७ ॥

"祭祀、布施、修行的苦行与恰当遵守的誓戒,这一切据说都不能净化无子嗣之人。"

1.126.28

सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते ।
अनपत्यः शुभाँल्लोकान्नप्राप्स्यामीति चिन्तयन् ॥ १.१२६.२८ ॥

"我知此理,见此道理,纯净微笑的你啊,思量着:无子之身,我将不能获得吉祥的世界。"

1.126.29

अनपत्यो हि मरणं कामये नैव जीवितम् ।
मृगाभिशापं जानासि विजने मम केवलम्।
नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा ॥ १.१२६.२९ ॥

"无子之身,我愿求死而非生。独处之时,唯你知晓我被鹿所咒之事;因一桩残酷之业,我的全部生命便如此被毁了。"

1.126.30

इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने ।
षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे ॥ १.१२६.३० ॥

"从法的观点看,这些是六个与亲族同享继承的儿子。还有六个不与亲族同享继承的儿子;普利塔啊,关于他们,请听我说。"

1.126.31

स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः ।
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥ १.१२६.३१ ॥

自生之子、被收养之子、被买来之子、再嫁女之子、未婚所生之子,以及由放纵女子所生之子。

1.126.32

दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः ।
सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः ॥ १.१२६.३२ ॥

被给予之子、被买来之子、人造之子、自来之子、同娶之子、亲属,以及从卑贱之胎领养的儿子。

1.126.33

पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम् ।
उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि ॥ १.१२६.३३ ॥

认为前面更优的各类皆不可得,便应求子;遇到困境时,人们向最好的男子、向小叔求子。

1.126.34

अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः ।
आत्मशुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत् ॥ १.१२६.३४ ॥

世人获得能带来法果的优秀子嗣。普利塔啊,自生之子曼努说,即便是自己的种子所生也是如此。

1.126.35

तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ॥ १.१२६.३५ ॥

因此,今日我自己无力生育,便要派遣你去。

1.126.36

सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ।
शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति ॥ १.१२६.३६ ॥

光荣的女子啊,你应知道,你将从同等或更优之人那里得到子嗣。库提啊,请听这关于沙罗檀陀耶尼的故事。

1.126.37

या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी ।
अवाह तां तु कैकेयः शारदाण्डायनिर्महान् ॥ १.१२६.३७ ॥

你那贤德而有名望的妹妹室鲁多赛那,被羯迦耶王、伟大的沙丹达耶尼娶为妻。

1.126.38

सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि ।
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ॥ १.१२६.३८ ॥

那位英雄之妻,受老师指派为求子,用花朵净化并沐浴后,于夜间前往十字路口,啊,贡蒂。

1.126.39

वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ।
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् ॥ १.१२६.३९ ॥

她选定一位成就的婆罗门,在求男嗣仪式中向火献祭,仪式完成后,她便与他同住。

1.126.40

तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ।
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्।
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥ १.१२६.४० ॥

她在那里生下了杜尔贾耶等三位大战车武士。同样,啊,吉祥的女子,你也应依我的吩咐,尽快努力从苦行上超越的婆罗门那里求得子嗣。