摩诃婆罗多 · 章 1.128
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.128.1
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् ।
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥ १.१२८.१ ॥
王者深知法,闻其此言,复对那位女神说了这番与法相应的殊胜之语。
1.128.2
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह ।
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥ १.१२८.२ ॥
贡蒂啊,往昔的俱舍多舍瓦正如你所说那样行事,吉祥者啊;他如同天神一般。
1.128.3
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे ।
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥ १.१२८.३ ॥
现在我要讲述这法之真谛,请从我这里听取。这是知法的大德仙人所见的古老教义。
1.128.4
अनावृताः किल पुरा स्त्रिय आसन्वरानने ।
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि ॥ १.१२८.४ ॥
往昔,美颜者啊,妇女确实不受拘束,随意游历,自由自在,笑容甜美者啊。
1.128.5
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् ।
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत् ॥ १.१२८.५ ॥
幸福者啊,那些从少女时起便更换丈夫四处游走的女子,并无不法;美臀者啊,那正是往昔的法。
1.128.6
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः ।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥ १.१२८.६ ॥
这古老的法,即便今日,生于畜生胎中的众生也仍然遵循,远离欲望与愤怒。
1.128.7
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ।
उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते।
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥ १.१२८.७ ॥
此法被视为权威,为大仙所尊奉;啊,你这芭蕉般大腿的女子,即使在后来的俱卢族中至今仍被尊奉。那使女人蒙受恩惠的,正是这永恒之法。
1.128.8
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १.१२८.८ ॥
火不会因柴薪而满足,大海不会因河流而满足,死亡不会因众生而满足;同样,明眸的女子也不会因男子而满足。
1.128.9
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति ।
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥ १.१२८.९ ॥
女子的渴求便是这样,从一个男子转向另一个男子;啊,你这纯净微笑的女子,女人并非总有与不可接近者相会的情形。
1.128.10
पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा ।
रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा ॥ १.१२८.१० ॥
在隐秘处见到一名男子独处,无论他是儿子、孙子,还是某人的兄弟,女子的阴部便会湿润起来。
1.128.11
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे ।
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते ॥ १.१२८.११ ॥
这是女子的天性,并非由外在缘由造成;啊,吉祥的女子,然而在这世上不久之后,这一规矩便确立了,啊,你这纯净微笑的女子。
1.128.12
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ।
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ॥ १.१२८.१२ ॥
此规由谁、从谁而立,你且听我详细说来。我们听闻,曾有一位名叫优达罗迦的大仙。
1.128.13
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ।
मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना ॥ १.१२८.१३ ॥
他的儿子成为名为Śvetaketu的圣人。正是Śvetaketu确立了这一合乎法度的规矩。
1.128.14
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥ १.१२८.१४ ॥
莲花瓣般眼睛的女子啊,请听我说,它因何而因愤怒发生。
1.128.15
श्वेतकेतोः पिता देवि तप उग्रं समास्थितः ।
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत् ॥ १.१२८.१५ ॥
女神啊,Śvetaketu的父亲开始了严苛的苦行。夏天他行五火之修,雨季时他成为了在空中行走的人。
1.128.16
शिशइरे सलिलस्थायी सह पत्न्या महातपाः ।
उद्दालकं तपस्यन्तं नियमेन समाहितम् ॥ १.१२८.१६ ॥
寒冷季节,一位站在水中的大苦行者,与他的妻子一同,看见正按照戒律专心修行的乌达拉迦。
1.128.17
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह ।
अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः ॥ १.१२८.१७ ॥
他的儿子Śvetaketu侍奉他。这时来了一位婆罗门,满脸皱纹,头发花白。
1.128.18
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः ।
स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत ॥ १.१२८.१८ ॥
圣人一见他便欢喜,依照经典以欢迎、足水和温和的言辞礼敬他,婆罗多啊。
1.128.19
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् ।
क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा ॥ १.१२८.१९ ॥
他用野菜、根茎、果实和其他野物款待他;他因饥渴的疲惫而困顿,却受到大仙人的敬重。
1.128.20
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा ।
उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम् ॥ १.१२८.२० ॥
那位再生者休息之后,走近仙人,问道:“大仙人乌达拉迦啊,请告诉我真相,不要说谎。”
1.128.21
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः ।
तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद ॥ १.१२८.२१ ॥
这位少年是仙人之子,尤其俊美。我认为他是你的儿子;你若已完成使命,就请说出来。
1.128.22
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता ।
मामेवानुगता पत्नी मम नित्यमनुव्रता ॥ १.१२८.२२ ॥
大智者啊,我的妻子被认为是俱init迦(Kuśika)之女。她始终跟随我,是对我忠贞不渝的妻子。
1.128.23
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी ।
अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः ॥ १.१२८.२३ ॥
她在妻子中如同阿伦达蒂,因苦修而双乳消瘦。我那位大苦行的儿子白发(Śvetaketu)便是从她所生。
1.128.24
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः ।
लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी ॥ १.१२८.२४ ॥
婆罗门啊,他精通吠陀及其支分,遵从我的教导,通晓诸界,在所有世界中享有盛名,言语真实,心怀慈悲。
1.128.25
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः ।
पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः ॥ १.१२८.२५ ॥
我无子嗣,渴望妻子,年老且目力昏花;因为先前未娶妻,我尚未偿还祖先之债。
1.128.26
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता ।
सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे ॥ १.१२८.२६ ॥
你的妻子是子嗣的钻木(arani),出身与品行俱佳,与我的宗族相配;我将带走她,请原谅我。
1.128.27
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् ।
यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् ॥ १.१२८.२७ ॥
说罢,他(婆罗门)拄着杖,四肢无力,目光昏花,缺乏智慧,带走了那位鹿眼女子,她身着树皮衣与黑鹿皮。
1.128.28
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः ।
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ॥ १.१२८.२८ ॥
那位不能忍受自己所为、心神不定的婆罗门,昔日竟当着室伟多基的面,将父亲的贤妻——他自己的母亲——带走了。
1.128.29
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत् ।
ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा ॥ १.१२८.२९ ॥
婆罗门抓住她说:“我们二人作为罪人一同走吧。”于是仙人之子愤懑不已,怒火中烧。
1.128.30
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ।
तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे ॥ १.१२८.३० ॥
室伟多基看到母亲就这样被强行带走,他因苦行而光芒炽盛,无法忍受这一切。
1.128.31
संगृह्य मातरं हस्ते श्वेतकेतुरभाषत ।
दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् ॥ १.१२८.३१ ॥
श्वेतकेतु抓住母亲的手说:"邪恶的婆罗门,放开我那忠于丈夫的母亲。"
1.128.32
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः ।
शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः ॥ १.१२८.३२ ॥
我的父亲本身是梵仙,宽容而最通晓梵,能诅咒也能赐福,却保持沉默,是持大誓者。
1.128.33
तस्य पत्नी दमोपेता मम माता विशेषतः ।
पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम् ॥ १.१२८.३३ ॥
他的妻子,具备克己之德,尤其是我的母亲:忠于丈夫,在苦行中年长,以善行为饰。
1.128.34
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै ॥ १.१२८.३४ ॥
婆罗门啊,不可疏忽,务必放开她,她对你来说如同母亲。
1.128.35
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः ।
प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः ॥ १.१२८.३५ ॥
国王啊,对那一再恳求"放开她"的人,那位再生者以这不成熟的话回答。
1.128.36
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः ।
पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप ॥ १.१२८.३६ ॥
白亨多啊,我渴望子嗣,我年老且视力昏花。迦叶波啊,你作为儿子,你的父亲已从债务中解脱。
1.128.37
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः ।
मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम् ॥ १.१२८.३७ ॥
我仍未还清债务;我年老,已无欲求。谁会把我那已到青春年华的女儿嫁给我?
1.128.38
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः ।
एकया प्रजया प्रीतो मातरं ते ददाम्यहम् ॥ १.१२८.३८ ॥
伟大的苦行者啊,请你使这妻子摆脱子嗣之债。我只要一个孩子便已满足,我会把你的母亲交给你。
1.128.39
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान् ।
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ॥ १.१२८.३९ ॥
听罢此言,白发王子因羞愧而生怒。父亲见他愤怒,便对白发王子说道。
1.128.40
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ।
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ॥ १.१२८.४० ॥
孩子,不要生气。这是永恒的法则:在大地上,各种姓氏的女子都是不受束缚的。
1.128.41
यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः ।
तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् ॥ १.१२८.४१ ॥
孩子,正如牛各自归于其群,女子亦然;在家中她们也从不失德。
1.128.42
ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा ।
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ॥ १.१२८.४२ ॥
到了经期之时,她们当时不离开丈夫;然而仙人之子白发王子却不能容忍那种习俗。
1.128.43
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ।
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ॥ १.१२८.४३ ॥
大福之人啊,他在大地上为男女确立了这一规范,仅限于人类,而非其他生物。
1.128.44
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥ १.१२८.४४ ॥
我们听说,从那时起便确立了此规范:对于背离丈夫的女子,从今以后这便是罪过。
1.128.45
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥ १.१२८.४५ ॥
它将如同杀胎一般可怕,并带来不幸;即便至今,摆脱欲望与愤怒者仍然遵守它。
1.128.46
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि ।
पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥ १.१२८.४६ ॥
大福而荣耀之人啊,后世的俱卢族中也是如此。这一法在古老传说中可见,并受到大仙们的尊崇。
1.128.47
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।
पतिव्रतामेतदेव भविता पातकं भुवि ॥ १.१२८.४७ ॥
同样,抛弃一位自幼守梵行、忠于丈夫的妻子,在世间也将是罪过。
1.128.48
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् ।
न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात्।
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ॥ १.१२८.४८ ॥
若丈夫为子嗣所指定的妻子不这样做,胆怯者啊,她也将负上极大的罪过。胆怯者啊,往昔他曾以强力确立此规范。
1.128.49
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ।
सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि ॥ १.१२८.४९ ॥
乌达拉迦之子白优多与萨乌达萨,哦,美腿女子,依法受命以生育子嗣。
1.128.50
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ।
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ॥ १.१२८.५० ॥
我们听说摩陀延提前往仙人跋私吒处;因此,那位光彩照人的女子得到了名叫阿什迦的儿子。
1.128.51
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया ।
अस्माकमपि ते जन्म विदितं कमलेक्षणे ॥ १.१२८.५१ ॥
同样,她也出于想取悦丈夫的心愿而这样做了;哦,莲花眼女子,你自己的出生我们也是知道的。
1.128.52
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ।
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ॥ १.१२८.५२ ॥
哦,怯弱者,为了繁衍俱卢族,应当从黑仙毗耶娑处得子;因此,仔细考虑这一切理由之后……
1.128.53
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ।
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते ॥ १.१२८.५३ ॥
哦,无可指责的女子,你应当遵行我这依法的话;哦,公主,每个受孕的时节,丈夫便是妻子的依靠,哦,忠贞的妻子。
1.128.54
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ॥ १.१२८.५४ ॥
“不可违越”——知法者便如此宣示法;而在其余的时节,女子确实有权自主。
1.128.55
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते ।
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा ॥ १.१२८.५५ ॥
公主啊,善人自古如此宣说法:丈夫对妻子,无论合法与否,皆可任意而为。
1.128.56
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः ।
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् ॥ १.१२८.५६ ॥
通晓吠陀者知道:所说之事应当照做,尤其是渴望儿子、自己又无法生育之人。
1.128.57
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः ।
अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे ॥ १.१२८.५७ ॥
无瑕肢体的女子啊,我渴望见到儿子。吉祥的女子啊,这只手指甲和指头发红,如莲花瓣一般。
1.128.58
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः ।
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात् ॥ १.१२८.५८ ॥
美臀的女子啊,我合掌高举于头顶,祈求你的恩宠。美发的女子啊,依我之命,为了一位苦行胜过他人的再生者。
1.128.59
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ।
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥ १.१२८.५९ ॥
你应当生育具备德行的儿子。宽臀的女子啊,因你的缘故,我可以到达有子者的归宿。
1.128.60
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् ।
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥ १.१२८.६० ॥
如此说完,Kuntī 回答了征服敌城的 Pāṇḍu。这位美臀的女子,一心专注于丈夫的喜乐与利益。
1.128.61
अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम ।
यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ।
शृणु चेदं महाबाहो मम प्रीतिकरं चः ॥ १.१२८.६१ ॥
婆罗多中最优秀者啊,在这些事情上,女人最大的不义在于,本应取悦丈夫的人,却要由丈夫来取悦她。刺利中的雄牛、大臂者啊,也请听我这句令我欢喜的话。
1.128.62
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने ।
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥ १.१२८.६२ ॥
我还是少女时在父亲家中,被派去款待客人,在那里侍奉了一位持严格誓戒的婆罗门。
1.128.63
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥ १.१२८.६३ ॥
那在法中决心隐秘、人称杜尔婆娑的人,那修身克己之人,我以全力使他欢喜。
1.128.64
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् ।
मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम् ॥ १.१२८.६४ ॥
那位尊者向我宣示了与咒术相关的恩赐,又把这咒语交给我,并对我说了这些话。
1.128.65
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
अकामो वा सकामो वा वशं ते समुपैष्यति ॥ १.१२८.६५ ॥
你以此咒语召唤任何一位天神,他都会归你所控,无论他愿意与否。
1.128.66
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति ।
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत ॥ १.१२८.६६ ॥
借着每一位神的恩典,王后啊,你将会有一子。当时他在我父亲的家中这样对我说,婆罗多的后裔啊。
1.128.67
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः ।
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ॥ १.१२८.६७ ॥
婆罗门的话是真实的,其时已经到来。大王啊,蒙您允许,我将召唤那位天神。
1.128.68
यां मे विद्यां महाराज अददात्स महायशाः ।
तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम्।
अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ॥ १.१२८.६८ ॥
大王啊,那位大名鼎鼎者传授给我的那门知识,将召唤天神赐予您一个如神一般的儿子;英雄啊,他将消除您因无子而生的悲伤。