摩诃婆罗多 · 章 1.129
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.129.1
कुन्त्युवाच ।
अपत्यकाम एवं स्यान्ममापत्यं भवेदिति।
विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम् ॥ १.१२९.१ ॥
贡蒂说:“愿想要子嗣的人如此:愿我有子嗣——或从一位具足德行、专心于一切众生福利的婆罗门那里(得子)。”
1.129.2
अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः ।
यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च ॥ १.१२९.२ ॥
“愿你安康,请允许我;因为丈夫就是妇人的神明。精通法者啊,你所说的那位神明或婆罗门,我便去召唤。”
1.129.3
यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज ।
देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत् ॥ १.१२९.३ ॥
“英雄啊,我会按你所吩咐的去做,大臂者。从神明得子的果报会立即到来;从婆罗门得子则在日后。”
1.129.4
आवाहयामि कं देवं कदा वा भरतर्षभ ।
त्वत्त आज्ञां प्रतीक्षन्तीं विद्ध्यस्मिन्कर्मणीप्सिते ॥ १.१२९.४ ॥
“伟大的婆罗多之牛啊,我该召唤哪位神明,何时召唤?我正等待你的命令,请委派我行此所愿之仪。”
1.129.5
पाण्डुरुवाच ।
धन्योऽञस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि।
नमो महर्षये तस्मै येन दत्तो वरस्तव ॥ १.१२९.५ ॥
般度说:“我是有福的,蒙受了恩典;你确实是我们家族的养育者。向那位赐予你恩惠的大仙致敬。”
1.129.6
न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः ।
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च ॥ १.१२९.६ ॥
“精通法者啊,臣民不可以非法来守护。因此,为了得子,也为了我的子嗣,你应当行动。”
1.129.7
प्रवरं सर्वदेवानां धर्ममावाहयाबले ।
पाण्डुना समनुज्ञाता भारतेन यशस्विना।
मतिं चक्रे महाराज धर्मस्यावाहने तदा ॥ १.१२९.७ ॥
柔弱的女子啊,得到般度许可的名闻天下的婆罗多,大王啊,那时决定呼唤在诸神中最为殊胜的法神。
1.129.8
पाण्डुरुवाच ।
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि।
धार्मिकश्च कुरूणां हि भविष्यति न संशयः ॥ १.१२९.८ ॥
般度说:美腰的女子啊,你现在就依照规矩准备吧。他在俱卢族中必定会成为正法之人,毫无疑问。
1.129.9
दत्तस्य तस्य धर्मेण नाधर्मे रंस्यते मनः ।
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् ॥ १.१२९.९ ॥
毗舍耶那说:那位被赐予的儿子之心只会因法而欢喜,不会因非法而欢喜。知法的女子啊,法在开始,法在终结,法也在中间。
1.129.10
अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम् ।
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते ॥ १.१२९.१० ॥
毗舍耶那说:子嗣在世间为人所愿,能增长名声与荣耀。因此,笑容纯净的女子啊,请以法为先,自我克制。
1.129.11
आकाराचारसंपन्ना भजस्वाराधय स्वयम् ॥ १.१२९.११ ॥
毗舍耶那说:你容貌端正、德行兼备,应亲自侍奉他并使他欢喜。
1.129.12
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना ।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमथाकरोत् ॥ १.१२९.१२ ॥
丈夫如此吩咐,美貌的女子说:“就这样吧。”她行礼,得到允许后,便右绕而行。
1.129.13
संवत्सरोषिते गर्भे गान्धार्या जनमेजय ।
आजुबहाव ततो धर्मं कुन्ती गर्भार्थमच्युतम् ॥ १.१२९.१३ ॥
惟阇那美阇耶,甘陀利怀孕满一年,贡蒂为求子嗣,召请了不朽的达磨。
1.129.14
सा बलिं त्वरिता देवी धर्मायोपजहार ह ।
जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा ॥ १.१२९.१४ ॥
那位女神贡蒂急忙向达磨献上供物,并依礼诵念昔日杜尔婆娑所授的咒语。
1.129.15
जानन्ती धर्ममग्र्यं वै धर्मं वशमुपानयत् ।
आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः ॥ १.१२९.१५ ॥
贡蒂知晓至高的达磨,便使达磨受其驾驭;依照仪轨被贡蒂召请,受一切众生礼敬的达磨便来到了。
1.129.16
आजगाम ततो देवीं धर्मो मन्त्रबलात्ततः ।
विमाने सूर्यसङ्काशे कुन्ती यत्र जपस्थिता ॥ १.१२९.१६ ॥
于是达磨凭借咒语之力,乘坐如太阳般光辉的天车来到女神身边,来到贡蒂正坐着诵咒的地方。
1.129.17
ददृशे भगवान्धर्मः सन्तानार्थाय पाण्डवे ।
विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम्।
सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम् ॥ १.१२९.१७ ॥
为了般度一族的子嗣,尊贵的达磨显现了;他微笑着对她说:"贡蒂,我该给你什么?"她也微笑着回答:"请给我一个儿子。"
1.129.18
तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे ।
पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत् ॥ १.१२९.१८ ॥
在那片多鹿的森林里,在百峰的最高山上,极有福德的贡蒂为般度的缘故来到达磨面前。
1.129.19
ऋतुकाले शुचिः स्नाता शुक्लवस्त्रा यशस्विनी ।
शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता ॥ १.१२९.१९ ॥
在经期之后,她洁净沐浴,身着白衣,名闻天下的贡蒂,腰肢优美,持守善誓,与法神同寝。
1.129.20
धर्मेण सह संगम्य योगमूर्तिधरेण सा ।
लेभे पुत्रं महाबाहुं सर्वप्राणभृतां वरम् ॥ १.१२९.२० ॥
她与化作瑜伽之形的法神结合,得一子,臂力强大,乃众生中之最优者。
1.129.21
ऐन्द्रे चन्द्रमसा युक्ते मुहूर्तेऽभिजितेऽष्टमे ।
दिवा मध्यगते सूर्ये तिथौ पूर्णे हि पूजिते ॥ १.१२९.२१ ॥
月亮与因陀罗星宿相合之时,在阿比吉特的第八刻,白日太阳正当中天,在满月之日,于受尊崇之时辰。
1.129.22
समृद्धयसशं कुन्ती सुषाव प्रवरं सुतम् ।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥ १.१२९.२२ ॥
贡蒂名望显赫,生下了那位杰出的儿子。儿子刚一出生,便有一个无形之声说道。
1.129.23
एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ।
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति ॥ १.१२९.२३ ॥
此子将为持法者中之最优,人中之至尊。他勇武而诚实,将在大地上成为国王。
1.129.24
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ।
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः।
यशसा तेजसा चैव वृत्तेन च समन्वितः ॥ १.१२९.२४ ॥
名为坚战的般度长子,将成为著名的国王,名闻三界,具备名望、光辉与善行。
1.129.25
संवत्सरे द्वितीये तु गान्धार्या उदरं महत् ।
न च प्राजायत तदा ततस्तां दुःखमाविशत् ॥ १.१२९.२५ ॥
第二年,甘陀利的腹部变得十分庞大,但那时并未有所生;于是悲伤侵入了她。
1.129.26
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ।
उदस्यात्मनः स्थैर्यमुपालभ्य च सौबली ॥ १.१२९.२६ ॥
听闻昆提之子已经降生,其光辉如同初升的太阳,萨跋罗(甘陀利)失去了镇定,自责起来。
1.129.27
कौरवस्यापरिज्ञातं यत्नेन महता स्वयम् ।
उदरं घातयामास गान्धारी शोकमूर्छिता ॥ १.१२९.२७ ॥
甘陀利在不让俱卢王知晓的情况下,竭力地、亲自让人击打自己的腹部,她因悲痛而昏厥。
1.129.28
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ।
द्विवर्षसंभृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥ १.१२९.२८ ॥
于是生出一团肉块,坚硬如铁球,在腹中已怀了两年;她便开始要将它排出。
1.129.29
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ।
तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥ १.१२९.२९ ॥
于是德瓦帕雅那(毗耶娑)得知后急速赶来;诵经者中最杰出的他看见了那团肉块。
1.129.30
ततोऽवदत्सौबलेयीं किमिदं ते चिकीर्षितम् ।
सा चात्मनो मतं सर्वं शशंस परमर्षये ॥ १.१२९.३० ॥
于是他对苏跋罗之女说:“你打算做什么?”她便将自己的全部想法告诉了这位大仙。
1.129.31
गान्धार्युवाच ।
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्।
दुःखेन परमेणेदमुदरं घातितं मया ॥ १.१२९.३१ ॥
甘陀利说:听闻昆提之子、光辉如日的长子已经降生,我因极大的悲痛,击打了自己的这个腹部。
1.129.32
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा ।
इयं च मे मांसपेशी जाता पुत्रशताय वै ॥ १.१२९.३२ ॥
你从前曾赐予我一百个儿子,而我的这团肉块确实是为一百个儿子而生的。
1.129.33
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् ।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ १.१२९.३३ ॥
就是这样,苏跋罗之女;此事绝不会有别的结果。我从前从未说过假话,又怎会在戏言中说别的?
1.129.34
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् ।
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम् ॥ १.१२९.३४ ॥
应迅速准备一百个盛满酥油的器皿,并在守卫严密的地方安排好对它们的看护。
1.129.35
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चय ॥ १.१२९.३५ ॥
并用冷水洒在这团肉块上。
1.129.36
सा सिच्यमाना ह्यष्ठीला ह्यभवच्छतधा तदा ।
अङ्गुष्ठपर्वमात्राणां गर्भाणां तत्क्षणं तथा ॥ १.१२९.३६ ॥
被洒水之后,那团肉块立即分成一百份,就在那一刻,一百个胚胎产生了,每个都有拇指关节那么大。
1.129.37
एकाधिकशतं पूर्णं यथायोगं विशांपते ।
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः ॥ १.१२९.३७ ॥
人民之主啊,一百零一个依时圆满。于是大仙在那里令人取来一百个陶瓮。
1.129.38
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ।
ततस्तांस्तेषु कुण्डेषु गर्भान्सर्वान्समादधत् ॥ १.१२९.३८ ॥
国王啊,随着时间推移,肉团依次成形。于是他把所有胎儿放入那些陶瓮之中。
1.129.39
स्वनुगुप्तेषु देशेषु रक्षां चैषां व्यधापयत् ।
शशास चैव कृष्णो वै गर्भाणां रक्षणं तथा ॥ १.१२९.३९ ॥
他在妥善守护的地方安排了对它们的保护,克里希那也同样吩咐保护胎儿。
1.129.40
उवाच चैनां भगवान्कालेनैतावता पुनः ।
स्फुटमानेषु कुण्डेषु जाताञ्जानीहि शोभने ॥ १.१२९.४० ॥
世尊经过这么久之后又对她说:'美丽的人啊,当陶瓮开始裂开时,你就知道那些已经降生的人已经出生了。'
1.129.41
उद्धाटनीयान्येतानि कुण्डानीति च सौबलीम् ।
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च ॥ १.१२९.४१ ॥
他对Saubalī(甘陀利)说:'这些陶瓮应当打开。'世尊毗耶娑便这样安排妥当。
1.129.42
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ।
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः ॥ १.१२९.४२ ॥
智慧的毗耶娑为修苦行而前往雪山,那堆积如山的岩石之地。之后过了一天,那些王子从陶瓮中站起身来。
1.129.43
तेनैवैषां क्रमेणासीज्ज्योष्ठानुज्येष्ठता तदा ।
जन्मतश्च प्रमाणेन ज्येष्ठः कुन्तीसुतोऽभवत् ॥ १.१२९.४३ ॥
依照这一次序,他们之间的长幼便当时确定下来;按出生先后与年龄,俱卢之母(贡蒂)的儿子成为长子。
1.129.44
धार्मिकं च सुतं दृष्ट्वा पाण्डुः कुन्तीमथाऽब्रवीत् ।
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥ १.१२९.४४ ॥
般度见到这位正法之子,便对贡蒂说:"人们说刹帝利以力量为长;你就选择力量最长的儿子吧。"
1.129.45
ततः कुन्तीमभिक्रम्य शशासातीव भारत ।
वायुमावाहयस्वेति स देवो बलवत्तरः ॥ १.१२९.४५ ॥
于是,婆罗多之子啊,他走近贡蒂,极力劝说:"你去召唤风神婆由;那位天神最为强大。"
1.129.46
अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः ।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः ॥ १.१२९.४६ ॥
马祭是诸祭中最殊胜者,太阳是诸光中最殊胜者,婆罗门是两足者中最殊胜者,摩录多是诸天中最殊胜者。
1.129.47
मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम् ।
आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि ॥ १.१२९.४७ ॥
请你依规矩召唤摩录多——诸摩录多中最殊胜者,为一切众生所赞颂。美丽的女子啊,为了求子,你当虔诚地召唤他。
1.129.48
स नो यं दास्यति सुतं स प्राणबलवान्नृषु ।
भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः ॥ १.१२९.४८ ॥
他所赐予我们的儿子,将在人间以生命之力而强盛;美丽腰身的女子啊,因为诸王确实以力量最长者为所求。
1.129.49
तथोक्तवति सा काले वायुमेवाजुहाव ह ।
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः ॥ १.१२९.४९ ॥
她如此说罢,在适当的时候便召唤了风神伐由本身。以第二次供品,并依照所说的仪轨,再次行之。
1.129.50
तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत् ।
आजगाम ततो वायुः किं करोमीति चाब्रवीत् ॥ १.१२९.५० ॥
她坚守同样的戒律,诵出了众多咒语。于是伐由前来,说道:“我该做什么?”
1.129.51
लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम् ।
तथास्त्विति च तां वायुः समालभ्य दिवं गतः ॥ १.१२९.५१ ॥
于是贡蒂满怀羞愧,希望得到一个大力之子。伐由说“就这样吧”,触碰了她,便升天而去。
1.129.52
तस्यां जज्ञे महावीर्यो भीमो भीमपराक्रमः ।
तमप्यतिबलं जातं वागुवाचाशरीरिणी ॥ १.१२९.५२ ॥
她生下了大勇的毗摩,其威力可怖。这位大力之子降生时,一个无形之声说话了。
1.129.53
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ।
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः ॥ १.१२९.५३ ॥
“婆罗多子孙啊,此子生为一切强者之最。”王子一出生,天下诸王……
1.129.54
मूत्रं प्रसुस्रुवुः सर्वे व्यथां चापि प्रपेदिरे ।
वाहनानि व्यशीर्यन्त व्यमुञ्चन्नश्रुबिन्दवः ॥ १.१२९.५४ ॥
众人皆失禁,也感到痛苦。车乘皆碎裂,泪珠纷纷落下。
1.129.55
यथाऽनिलः समुद्भूतः समर्थः कम्पने भुवः ।
तथा ह्युपचिताङ्गो वै भीमो भीमपराक्रमः ॥ १.१२९.५५ ॥
如同风起之时能够撼动大地,身躯健壮、勇猛可怖的婆罗摩之子毗摩也逐渐长大。
1.129.56
इदं चाद्भुतमत्रासीज्जातमात्रे वृकोदरे ।
यदऱ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥ १.१२९.५६ ॥
还有一件奇事:毗摩刚一出生,就从母亲身上跌落在石头上,他以身体将那块石头碾成了粉末。
1.129.57
कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः ।
स्नात्वा च सुतमादाय दशमेऽहनि यादवी ॥ १.१२९.५७ ॥
贡蒂与儿子一同前往一座极其美丽的湖;第十天,这位耶达瓦女子沐浴之后,抱起了儿子。
1.129.58
दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा ।
शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम ॥ १.१२९.५८ ॥
普利塔为了供奉诸神,从修道院走了出来;当她走近山边时,哦,婆罗多族中最优秀者。
1.129.59
निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात् ।
तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम् ॥ १.१२९.५९ ॥
一只大老虎从山洞中走出,想要杀害人;般度拉开他那张上好的弓,对准扑来的老虎……
1.129.60
निर्बिभेद शरैः पाण्डुस्त्रिभिस्तिरदशविक्रमः ।
नादेन महता तां तु पूरयन्तं गिरेर्गुहाम् ॥ १.१२९.६० ॥
般度以三支箭射穿了它,他的威力足以劈开敌人;而那老虎以巨大的吼声充满了山中的洞穴。
1.129.61
दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा ।
त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ ॥ १.१२९.६१ ॥
昆提见到山岳,因恐惧而想要攀登;然而因惊恐,她的儿子从她的膝上跌落,婆罗多之牛啊。
1.129.62
पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः ।
स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः ॥ १.१२९.६२ ॥
孩子从站在山顶的母亲下方坠落。受因陀罗驱使,他如金刚杵一般将岩石砸得粉碎。
1.129.63
पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम् ।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥ १.१२९.६३ ॥
于是,般度出于对儿子的爱,奔向山坡;孩子坠落时,岩石碎裂成百块,并被他的身体压碎。
1.129.64
शिलां च चूर्णितां दृष्ट्वा परं विस्मयमागमत् ।
स तु जन्मनि भीमस्य विनदन्तं विनादितम् ॥ १.१२९.६४ ॥
般度见到岩石被碎成粉末,心中十分惊异——他在婆罗多之子怖军出生时吼叫,又被使之吼叫。
1.129.65
ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः ।
दारसंरक्षणार्थाय पुत्रसंरक्षणाय च ॥ १.१२९.६५ ॥
般度如虎般勇猛,看见一只老虎站在山峰上,为了保护妻子和儿子。
1.129.66
सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः ।
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ ॥ १.१२९.६६ ॥
俱卢之喜悦者总是手持弓箭;当月亮与魔伽宿相会,木星升起于狮子宫时。
1.129.67
दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे ।
पित्र्ये मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम् ॥ १.१२९.६७ ॥
正午太阳当空之时,在吉祥的十三日,祖先之时辰,贡蒂生下了坚定不移的怖军。
1.129.68
यस्मिन्नहनि भमस्तु जज्ञे भीमपराक्रमः ।
तामेव रात्रिं पूर्वां तु जज्ञे दुर्योधनो नृपः ॥ १.१२९.६८ ॥
就在勇猛的怖军诞生的那一天,其前一夜,国王难敌降生了。
1.129.69
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप ।
रासभारावसदृशं रुराव च ननाद च ॥ १.१२९.६९ ॥
大王啊,持国王之子一出生便如驴鸣般嘶叫,并且咆哮起来。
1.129.70
तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः ।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः ॥ १.१२९.७० ॥
驴、秃鹫、豺狼和乌鸦都回应他;可怖的食肉者,雌豺,以不祥之声嚎叫。
1.129.71
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा ।
ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ १.१२९.७१ ॥
狂风大作,四方仿佛燃起大火。持国王如受惊吓一般,说出了这些话。
1.129.72
समानीय बहून्विप्रान्भीष्मं विदुरमेव च ।
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च ॥ १.१२९.७२ ॥
大王啊,他召集了许多婆罗门,还有毗湿摩、维杜罗、其他朋友,以及所有的俱卢人。
1.129.73
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः ।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्तिनः ॥ १.१२९.७३ ॥
王子般遮罗(不,此处为)优地希特拉,我们的长兄、家族的光大者,凭自身的德行获得了王国;对他没有什么可以非议的。
1.129.74
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति ।
एतद्विब्रूत मे तथ्यं यदत्र भविता ध्रुवम् ॥ १.१२९.७४ ॥
然而在他之后,此人(难敌)将成为国王。请如实告诉我,此处必定会发生什么。
1.129.75
अस्मिञ्जाते निमित्तानि शंसन्ती हाशिवं महत् ।
अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत् ॥ १.१२९.७५ ॥
他出生时出现了巨大的不祥征兆,预示着大祸。因此,维杜罗啊,我要说:恐惧已迅速侵入我心。
1.129.76
वाक्यस्यैतस्य निधेन दिक्षु सर्वासु भारत ।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः ॥ १.१२९.७६ ॥
婆罗多啊,这些话刚一说完,四面八方便有可怕的食肉之兽嚎叫起来,豺狼也发出不祥的哀鸣。
1.129.77
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥ १.१२९.७७ ॥
大王啊,他们遍观这些可怕的征兆之后,婆罗门和智慧的维杜罗便开口说道。
1.129.78
यथेमानि निमित्तानि घोराणि मनुजाधिप ।
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ ॥ १.१२९.७८ ॥
人主啊,这些可怕的征兆,正如在你长子出生之时显现的那样,人中雄牛啊。
1.129.79
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव ।
तस्य शान्तिः परित्यागे गुप्तावपनयो महान् ॥ १.१२९.७९ ॥
显然,你的这个儿子将成为家族的毁灭者;舍弃他则有和平,保护他则有大损失。
1.129.80
एष दुर्योधनो राजा मधुपिङ्गललोचनः ।
न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति ॥ १.१२९.८० ॥
这位国王难敌双眼如蜜般棕黄,他将带来的不仅是家族的终结,也是刹帝利的终结。
1.129.81
शतमेकोनमप्यस्तु पुत्राणां ते महीपते ।
त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत ॥ १.१२९.८१ ॥
婆罗多啊,大地之主!即使你的一百个儿子少一个也可以;若你想要家族的和平,就舍弃这一个。
1.129.82
एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा ।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ॥ १.१२९.८२ ॥
为了一个人,就应使家族与世界都安宁。为了家族,应舍弃一人;为了村庄,应舍弃家族。
1.129.83
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ॥ १.१२९.८३ ॥
为了国家应舍弃村庄,为了自身应舍弃大地。维杜罗如此说过,所有最优秀的再生者也都这样说。
1.129.84
न चकार तथा राजा पुत्रस्नेहसमन्वितः ।
ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव ॥ १.१२९.८४ ॥
国王充满对儿子的爱,没有这样做。于是,国王啊,持国的一百个儿子终于凑齐了。
1.129.85
अह्नांशतेन संजज्ञे कन्या चैका शताधिका ।
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता ॥ १.१२९.८५ ॥
甘陀利在腹中受苦时,从渐长的胎儿中,在一日的百分之一时间里,诞生了一个女儿,数量超过一百。
1.129.86
वैश्या सा त्वम्बिकापुत्रं कन्या परिचचार ह ।
तया समभवद्राजा धृतराष्ट्रो यदृच्छया ॥ १.१२९.८६ ॥
那位吠舍少女侍奉安比卡之子,通过她,国王持国偶然地有了儿子。
1.129.87
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः ।
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करमो नृप।
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ॥ १.१२९.८७ ॥
就在那一年,国王啊,伟大的持国在她身上生下了智慧的牛旗和卡拉玛。这样,智慧的持国有了一百个儿子。
1.129.88
महारथानां वीराणां कन्या चैका शताधिका ।
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान् ॥ १.१२९.८८ ॥
在大车勇士中诞生了一个女儿,数量超过一百;而具有大光辉与威力的牛旗,是那吠舍女的儿子。