Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.13.1

किमर्थं राजशार्दूलः स राजा जनमेजयः ।
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥ १.१३.१ ॥

那位王中猛虎、国王阿难迦耶,因何通过蛇祭而使诸蛇走向灭绝?请告诉我。

1.13.2

निखिलेन यथातत्त्वं सौते सर्वमशेषतः ।
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः ॥ १.१३.२ ॥

索提啊,请将一切如实、完整、毫无遗漏地说明。为何再生者中的最优者阿斯提迦,在诵持者中最为殊胜?

1.13.3

मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः ।
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् ॥ १.१३.३ ॥

他将诸蛇从婆苏雷多(火神)的熊熊烈火中解救出来。那位主持蛇祭的国王,是谁的儿子?

1.13.4

स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे ।
महदाक्यानमास्तीकं यथैतत्प्रोच्यते द्विज ॥ १.१३.४ ॥

那位再生者中的最优者是谁的儿子?请告诉我。哦,再生者,请照流传的样子讲述阿斯提迦这段伟大的故事。

1.13.5

सर्वमेतदशेषेण शृणु मे वदतां वर ।
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् ॥ १.१३.५ ॥

哦,言者中最殊胜者,请听我将这一切毫无遗漏地说来。我愿完整地听闻这段动人的故事。

1.13.6

आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः ।
इतिहासमिमं विप्राः पुराणं परिचक्षते ॥ १.१३.६ ॥

这是著名的古代仙人、婆罗门阿斯提迦的历史。诸位婆罗门啊,人们称此为往世书。

1.13.7

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु ।
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः ॥ १.१३.७ ॥

这段由克里希那·二水(毗耶娑)所述的故事,先前由我的父亲、游吟诗人罗摩哈尔沙纳为居住在那弥舍森林中的仙人们讲述。

1.13.8

शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान् ।
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् ॥ १.१३.८ ॥

毗耶娑的聪慧弟子曾在婆罗门之间讲述此事。因此,我听闻之后,将照其原样为你们讲述。

1.13.9

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ।
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम् ॥ १.१३.९ ॥

舍诺迦啊,既然你来问,我将为你完整讲述这段阿斯缇迦的故事,它能消除一切罪孽。

1.13.10

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः ।
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥ १.१३.१० ॥

阿斯缇迦的父亲确是一位与生主(Prajāpati)相当的尊主。他守梵行,饮食节制,始终专心于严苛的苦行。

1.13.11

जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः ।
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः ॥ १.१३.११ ॥

他以乍拉特卡鲁之名闻名,是守梵行的大苦行者,行游者(Yāyāvara)中的首领,通晓法义,誓愿坚定。

1.13.12

स कदाचिन्महाभागस्तपोबलसमन्वितः ।
चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः ॥ १.१३.१२ ॥

这位大福德、具有苦行之力的仙人曾遍游整个大地,哪里天色已晚,哪里便是他的家。

1.13.13

तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः ।
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ॥ १.१३.१३ ॥

这位大光明者到处游历,在圣渡口沐浴,持守那些未能克制自身者所无法完成的艰难誓愿。

1.13.14

वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः ।
इतस्ततः परिचरन्दीप्तपावकसप्रभः ॥ १.१३.१४ ॥

这位圣人以风为食,绝食,身体枯瘦,目不转睛,四处游走,光辉如熊熊烈火。

1.13.15

अटमानः कदाचित्स्वान्स ददर्श पितामहान् ।
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान् ॥ १.१३.१५ ॥

一次漫游时,他看见自己的祖先倒悬在一个大坑中,双脚朝上,面朝下。

1.13.16

तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान् ।
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः ॥ १.१३.१६ ॥

看到他们,耆羅迦卢对自己的祖先说:“你们是谁,倒悬在这个坑中?”

1.13.17

वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते ।
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥ १.१३.१७ ॥

攀附在维罗那草的茎上,四周被这坑中常住、隐藏的老鼠啃咬。

1.13.18

यायावरा नाम वयमृषयः संशितव्रताः ।
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥ १.१३.१८ ॥

我们是名为耶耶伐罗的圣仙,持守严格的誓愿。婆罗门啊,因为后嗣断绝,我们正要沉入大地之下。

1.13.19

अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः ।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः ॥ १.१३.१९ ॥

我们的后裔只剩一人,名叫Jaratkāru。他是不幸者中最不幸的,独自专心苦修。

1.13.20

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति ।
तेन लम्बामहे गर्ते संतानस्य क्षयादिह ॥ १.१३.२० ॥

那个愚人不愿娶妻生子;因此,由于我们血脉的断绝,我们倒悬于此坑中。

1.13.21

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा ।
येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा ॥ १.१३.२१ ॥

因为他,我们失去了依靠,如同作恶者无人庇护;在凡世中没有带来幸福后代的人,也是如此。

1.13.22

न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि ।
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥ १.१३.२२ ॥

即使行善积德之人,也无法在天界获得居所。善人之中最优秀者啊,你是谁?你为我们悲伤,仿佛是我们的亲人。

1.13.23

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः ।
किमर्थं चैव नः शोच्याननुशोचसि सत्तम ॥ १.१३.२३ ॥

婆罗门啊,我们想知道站在我们面前的你是谁。你为何为值得悲伤的我们而悲伤?善人之中最优秀者啊!

1.13.24

मम पूर्वे भवन्तो वै पितरः सपितामहाः ।
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥ १.१३.२४ ॥

你们是我的先祖、父亲和祖父。请告诉我,今天我该做什么?我自己就是Jaratkāru。

1.13.25

यतस्व यत्नवांस्तात संतानाय कुलस्य नः ।
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो ॥ १.१३.२५ ॥

亲爱的孩子,请为我们家族的延续而努力。为你自己,也为我们,这就是法,啊,威严者。

1.13.26

न हि धर्मफलैस्तात न तपोऽभिः सुसंचितैः ।
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै ॥ १.१३.२६ ॥

亲爱的孩子,即使以法的果报或积累的苦行,也达不到有子者在此所达到的那个归宿。

1.13.27

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु ।
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥ १.१३.२७ ॥

因此你要努力娶妻,并专心于子嗣。孩子,依我们的命令,这就是我们最高的福祉。

1.13.28

न दारान्वै करिष्येऽहं न धनं जीवितार्थतः ।
भवतां तु हितार्थाय करिष्ये दारसंग्रहम् ॥ १.१३.२८ ॥

我不会为了自己的生活而娶妻,也不为钱财。但为了你们的福祉,我会娶妻。

1.13.29

समयेन च कर्ताऽहमनेन विधिपूर्वकम् ।
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम् ॥ १.१३.२९ ॥

我将依此约定,按照规定而行。若我得到这样的妻子,我便这样做,否则我不会这样做。

1.13.30

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः ।
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः ॥ १.१३.३० ॥

凡与我同名、亲属愿意许给我的少女,我将依照规矩如接受布施一般娶她为妻。

1.13.31

दरिद्राय हि मे भार्यां को दास्यति विशेषतः ।
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥ १.१३.३१ ॥

像我这样贫穷的人,谁会特意把妻子嫁给我呢?若有人给,我只会当作布施之物接受。

1.13.32

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः ।
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥ १.१३.३२ ॥

如此,为了求得妻子,我将努力,诸位祖先啊。我将始终依此方法行事,绝不另作他法。

1.13.33

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै ।
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥ १.१३.३३ ॥

那里将诞生一个生灵,用以拯救你们。愿我的先祖们到达永恒之处而欢喜。